सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्व तेजसा। अतिसूर्यञ्च वह्निञ्च रामो दाशरथिर्बभौ ।। २६.
एवमेव महाबाहुरिक्ष्वाकुकुलनन्दनः । रावणं सगणं हत्वा दिवमाचक्रमे विभुः ।। २६.
श्रीरामस्यात्मजो जज्ञे कुश इत्यभिधीयते। लवश्चान्यो महावीर्यस्तयोर्देशौ निबोधत ।। २६.
कुशस्य कोशला राज्यं पुरी वापि कुशस्थली। रम्या निवेशिता तेन विन्ध्यपर्वतसानुषु ।। २६.
उत्तराकोशले राज्यं लवस्य च महात्मनः। श्रावस्ती लोकविख्याता कुशवंशं निबोधत ।। २६.
कुशस्य पुत्रो धर्मात्मा ह्यतिथिः सुप्रियातिथिः। अतिथेरपि विख्यातो निषधो नाम पार्थिवः ।। २६.
निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु। नभसः पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ।। २६.
क्षेमधन्वसुतो राजा देवानीकः प्रतापवान्। आसीदहीनगुर्नाम देवानी कात्मजः प्रभुः ।। २६.
अहीनगोस्तु दायादः पारियात्रो महायशाः। दलस्तस्यात्मजश्चापि तस्माज्जज्ञे बलो नृपः ।। २६.
औङ्को नाम स धर्मात्मा बलपुत्रो बभूव ह। वज्रनाभः सुतस्तस्य शङ्खणस्तस्य चात्मजः ।। २६.
शंखणस्य सुतो विद्वान् ध्युषिताश्च इति श्रुतः । ध्युषिताश्च सुतश्चापि राजा विश्वसहः किल ।। २६.
हिरण्यनाभः कौशल्यो वसिष्ठस्तत्सुतोऽभवत्। पौत्रस्य जैमिनेः शिष्यः स्मृतः सर्वेषु शर्मसु ।। २६.
शतानि संहितानान्तु पञ्च योऽधीतवांस्ततः। तस्मादधिगतो योगो याज्ञवल्क्येन धीमता ।। २६.
पुष्यस्तस्य सुतो विद्वान् ध्रुवसन्धिश्च तत्सुतः। सुदर्शनस्तस्य सुतो अग्निवर्णः सुदर्शनात् ।। २६.
अग्निवर्णस्य शीघ्रस्तु शीघ्रकस्य मनुः स्मृतः। मनुस्तु योगमास्थाय कलापग्राममास्थितः। एकोनविंशप्रयुगे क्षत्रप्रावर्त्तकः प्रभुः ।। २६.
प्रसुश्रुतो मनोः पुत्रः सुसन्धिस्तस्य चात्मजः। सुसन्धेश्च तथामर्षः सहस्वान्नाम नामतः ।। २६.
आसीत्सहस्वतः पुत्रो राजा विश्रुतवानिति। तस्यासीद्विश्रुतवतः पुत्रो राजा बृहद्बलः ।। २६.
एते इक्ष्वाकुदायादा राजानः प्रायशः स्मृताः। वंशे प्रधाना ये तेऽस्मिन् प्राधान्येन तु कीर्त्तिताः ।। २६.
पठन् सम्यगिमां सृष्टिमादित्यस्य विवस्वतः। प्रजावानेति सायुज्यं मनोर्वैवस्वतस्य सः ।। २६.
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च। विपाप्मा विरजाश्चैव आयुष्मान् भवतेऽच्युतः ।। २६.
अनुजस्य विकुक्षेस्तु निमेर्वंशं निबोधत। योऽसौ निवेशयामास पुरन्देवपुरोपमम् ।। २७.
जयन्तमितिविख्यातं गौतमस्याश्रमाभितः। यस्यान्ववाये यज्ञे वै जनकादृषिसत्तमात् ।। २७.
नेमिर्नाम सुधर्मात्मा सर्वसत्वनमस्कृतः। आसीत् पुत्रो महाप्राज्ञ इक्ष्वाकोर्भूरितेजसः ।। २७.
स शापेन वसिष्ठस्य विदेहः समपद्यत। तस्य पुत्रो मिथिर्नाम जनितः पर्वभिस्त्रिभिः ।। २७.
अरण्यां मथ्यमानायां प्रादुर्भूतो महायशाः। नाम्ना मिथिरिति ख्यातो जननाज्जनकोऽभवत् ।। २७.
मिथिर्नाम महावीर्यो येनासौ मिथिलाभवत्। राजासौ जनको नाम जनकाच्चाप्युदावसुः ।। २७.
उदावसोः सुधर्मात्मा जनितो नन्दिवर्द्धनः। नन्दिवर्द्धनतः शूरः सुकेतुर्नाम धार्मिकः ।। २७.
सुकेतोरपि धर्मात्मा देवरातो महाबलः। देवरातस्य धर्मात्मा बृहदुच्छ इति श्रुतिः ।। २७.
बृहदुच्छस्य तनयो महावीर्यः प्रतापवान् । महावीर्यस्य धृतिमान् सुधृतिस्तस्य चात्मजः ।। २७.
सुधृतेरपि धर्मात्मा धृष्टकेतुः परन्तपः। धृष्टकेतु सुतश्चापि हर्यश्वो नाम विश्रुतः ।। २७.