सुबाहुः शूरसेनश्च शत्रुघ्नसहितावुभौ। पालयामासतुः सूनू वैदेह्यौ मथुरां पुरीम् ।। २६.
अङ्गदश्चान्द्रकेतुश्च लक्ष्मणस्यात्मजावुभौ। हिमवत्पर्वताभ्याशे स्फीतौ जनपदौ तयोः ।। २६.
अङ्गदस्याङ्गदीया तु देशे कारपथे पुरी। चन्द्रकेतोस्तु मल्लस्य चन्द्रवक्ता पुरी शुभा ।। २६.
भरतस्यात्मजौ वीरौ तक्षः पुष्कर एव च। गान्धारविषये सिद्धे तयोः पुर्यौ महात्मनोः ।। २६.
तक्षस्य दिक्षु विख्याता रम्या तक्षशिला पुरी। पुष्करस्यापि वीरस्य विख्याता पुष्करावती ।। २६.
गाथां चैवात्र गायन्ति ये पुराणविदो जताः। रामे निबद्धास्सत्त्वार्था माहात्म्यात्तस्य धीमतः ।। २६.
श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः। आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ।। २६.
दशवर्षसहस्राणि रामो राज्यमकारयत्। ऋक्सामयजुषां घोषो ज्याघोषश्च महास्वनः ।। २६.
अविच्छिन्नोऽभवद्राष्ट्रे दीयतां भुज्यतामिति। जनस्थाने वसन् कार्यं त्रिदशानाञ्चकारसः ।। २६.
तमागस्कारिणं पूर्वं पौलस्त्यं मनुजर्षभः। सीतायाः पदमन्विच्छन् निजघान महायशाः ।। २६.
सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्व तेजसा। अतिसूर्यञ्च वह्निञ्च रामो दाशरथिर्बभौ ।। २६.
एवमेव महाबाहुरिक्ष्वाकुकुलनन्दनः । रावणं सगणं हत्वा दिवमाचक्रमे विभुः ।। २६.
श्रीरामस्यात्मजो जज्ञे कुश इत्यभिधीयते। लवश्चान्यो महावीर्यस्तयोर्देशौ निबोधत ।। २६.
कुशस्य कोशला राज्यं पुरी वापि कुशस्थली। रम्या निवेशिता तेन विन्ध्यपर्वतसानुषु ।। २६.
उत्तराकोशले राज्यं लवस्य च महात्मनः। श्रावस्ती लोकविख्याता कुशवंशं निबोधत ।। २६.
कुशस्य पुत्रो धर्मात्मा ह्यतिथिः सुप्रियातिथिः। अतिथेरपि विख्यातो निषधो नाम पार्थिवः ।। २६.
निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु। नभसः पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ।। २६.
क्षेमधन्वसुतो राजा देवानीकः प्रतापवान्। आसीदहीनगुर्नाम देवानी कात्मजः प्रभुः ।। २६.
अहीनगोस्तु दायादः पारियात्रो महायशाः। दलस्तस्यात्मजश्चापि तस्माज्जज्ञे बलो नृपः ।। २६.
औङ्को नाम स धर्मात्मा बलपुत्रो बभूव ह। वज्रनाभः सुतस्तस्य शङ्खणस्तस्य चात्मजः ।। २६.
शंखणस्य सुतो विद्वान् ध्युषिताश्च इति श्रुतः । ध्युषिताश्च सुतश्चापि राजा विश्वसहः किल ।। २६.
हिरण्यनाभः कौशल्यो वसिष्ठस्तत्सुतोऽभवत्। पौत्रस्य जैमिनेः शिष्यः स्मृतः सर्वेषु शर्मसु ।। २६.
शतानि संहितानान्तु पञ्च योऽधीतवांस्ततः। तस्मादधिगतो योगो याज्ञवल्क्येन धीमता ।। २६.
पुष्यस्तस्य सुतो विद्वान् ध्रुवसन्धिश्च तत्सुतः। सुदर्शनस्तस्य सुतो अग्निवर्णः सुदर्शनात् ।। २६.
अग्निवर्णस्य शीघ्रस्तु शीघ्रकस्य मनुः स्मृतः। मनुस्तु योगमास्थाय कलापग्राममास्थितः। एकोनविंशप्रयुगे क्षत्रप्रावर्त्तकः प्रभुः ।। २६.
प्रसुश्रुतो मनोः पुत्रः सुसन्धिस्तस्य चात्मजः। सुसन्धेश्च तथामर्षः सहस्वान्नाम नामतः ।। २६.
आसीत्सहस्वतः पुत्रो राजा विश्रुतवानिति। तस्यासीद्विश्रुतवतः पुत्रो राजा बृहद्बलः ।। २६.
एते इक्ष्वाकुदायादा राजानः प्रायशः स्मृताः। वंशे प्रधाना ये तेऽस्मिन् प्राधान्येन तु कीर्त्तिताः ।। २६.
पठन् सम्यगिमां सृष्टिमादित्यस्य विवस्वतः। प्रजावानेति सायुज्यं मनोर्वैवस्वतस्य सः ।। २६.
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च। विपाप्मा विरजाश्चैव आयुष्मान् भवतेऽच्युतः ।। २६.