पौराणामहिते युक्तः पित्रा निर्वासितः पुरा। तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् ।। २६.
तस्य पुत्रस्तु धर्मात्मा दिलीप इति विश्रुतः। दिलीपात्तु महातेजा वीरो जातो भगीरथः ।। २६.
येन गङ्गा सरिच्छ्रेष्ठा विमानैरुपशोभिता । ईजाऽनेन समुद्राद्वै दुहितृत्वेन कल्पिता। अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः ।। २६.
भगीरथस्तु तां गङ्गामानयामास कर्मभिः । तस्माद्भागीरथी गङ्गा कथ्यते वंशवित्तमैः ।। २६.
भगीरथसुतश्चापि श्रुतो नाम बभूव ह। नाभागस्तस्य दायादो नित्यं धर्मपरायणः ।। २६.
अम्बरीषः सुतस्तस्य सिन्धुद्वीपस्ततोऽभवत्। एवं वंशपुराणज्ञा गायन्तीति परिश्रुतम् ।। २६.
नाभागेरम्बरीषस्य भुजाभ्यां परिपालिता। बभूव वसुधात्यर्थं तापत्रयविवर्जिता ।। २६.
अयुतायुः सुतस्तस्य सिन्धुद्वीपस्य वीर्यवान्। अयुतायोस्तु दायाद ऋतुपर्णो महायशाः ।। २६.
दिव्याक्षहृदज्ञोऽसौ राजा नलसखो बली। नलौ द्वाविति विख्यातौ पुराणेषु दृढव्रतौ ।। २६.
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः। ऋतुपर्णस्य पुत्रोऽभूत् सर्व्वकामो जनेश्वरः ।। २६.
सुदासस्तस्य तनयो राजा हंसमुखोऽभवत्। सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ।। २६.
ख्यातः कल्माषपादो वै नाम्ना मित्रसहश्च सः । वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके। अश्मकं जनयामास इक्ष्वाकुकुलवृद्धये ।। २६.
अश्मकस्योरकामस्तु मूलकस्तत्सुतोऽभवत्। अत्राप्युदाहरन्तीमं मूलकं वै नृपं प्रति ।। २६.
स हि रामभयाद्राजा स्त्रीभिः परिवृतोऽवसत्। विवस्त्रस्त्राणमिच्छन् वै नारीकवचमीश्वरः ।। २६.
मूलकस्यापि धर्मात्मा राजा शतरथः स्मृतः। तस्माच्छतरथाज्जज्ञे राजा चैडिविडो बली ।। २६.
आसीत्त्वैडिविडः श्रीमान् कृतशर्मा प्रतापवान्। पुत्रो विश्वमहत्तस्य पुत्रीकस्य व्यजायत ।। २६.
दिलीपस्तस्य पुत्रोऽभूत् खट्वाङ्ग इति विश्रुतः। येन स्वर्गादिहागम्य मुहूर्त्तं प्राप्य जीवितम्। त्रयोऽभिसंहिता लोका बुद्ध्या सत्येन चैव हि ।। २६.
दीर्गबाहुः सुतस्तस्य रघुस्तस्मादजायत। अजः पुत्रो रघोश्चापि तस्माज्जज्ञे स वीर्यवान्। राजा दशरथो नाम इक्ष्वाकुकुलनन्दनः ।। २६.
रामो दाशरथिर्वीरो धर्मज्ञो लोकविश्रुतः। भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ।। २६.
माधवं लवणं हत्वा गत्वा मधुवनञ्च तत्। शत्रुघ्नेन पुरी तस्य मथुरा सन्निवेशिता ।। २६.
सुबाहुः शूरसेनश्च शत्रुघ्नसहितावुभौ। पालयामासतुः सूनू वैदेह्यौ मथुरां पुरीम् ।। २६.
अङ्गदश्चान्द्रकेतुश्च लक्ष्मणस्यात्मजावुभौ। हिमवत्पर्वताभ्याशे स्फीतौ जनपदौ तयोः ।। २६.
अङ्गदस्याङ्गदीया तु देशे कारपथे पुरी। चन्द्रकेतोस्तु मल्लस्य चन्द्रवक्ता पुरी शुभा ।। २६.
भरतस्यात्मजौ वीरौ तक्षः पुष्कर एव च। गान्धारविषये सिद्धे तयोः पुर्यौ महात्मनोः ।। २६.
तक्षस्य दिक्षु विख्याता रम्या तक्षशिला पुरी। पुष्करस्यापि वीरस्य विख्याता पुष्करावती ।। २६.
गाथां चैवात्र गायन्ति ये पुराणविदो जताः। रामे निबद्धास्सत्त्वार्था माहात्म्यात्तस्य धीमतः ।। २६.
श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः। आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ।। २६.
दशवर्षसहस्राणि रामो राज्यमकारयत्। ऋक्सामयजुषां घोषो ज्याघोषश्च महास्वनः ।। २६.
अविच्छिन्नोऽभवद्राष्ट्रे दीयतां भुज्यतामिति। जनस्थाने वसन् कार्यं त्रिदशानाञ्चकारसः ।। २६.
तमागस्कारिणं पूर्वं पौलस्त्यं मनुजर्षभः। सीतायाः पदमन्विच्छन् निजघान महायशाः ।। २६.