स तन्देशं सुतैः सर्वैः खनयामास पार्थिवः। आसेदुश्च ततस्तस्मिंस्तदन्तस्ते महार्णवे ।। २६.
तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम्। विष्णुं कपिलरूपेण हंसं नारायणं प्रभुम् ।। २६.
तस्य चक्षुः समासाद्य तेजस्तत् प्रतिपद्यते। दग्धाः पुत्रास्तदा सर्वे चत्वारस्त्ववशेषिताः ।। २६.
बर्हिकेतुः सकेतुश्च तथा धर्म्मरतस्त्रयः। शूरः पञ्चवनश्चैव तस्य वंशकराः प्रभो ।। २६.
प्रादाच्च तस्य भगवान् हरिर्नारायणो वरान्। अक्षयत्वं स्ववंशस्य वाजिमेधशतं तथा। विभुं पुत्रं समुद्रञ्च स्वर्गे वासं तथाक्षयम् ।। २६.
स समुद्रोऽश्वमादाय वन्ददे (?) सरितांपतिः। सागरत्वं च लेभे स कर्मणा तेन तस्य वै ।। २६.
तं चाश्वमेधिकं सोऽश्वं समुद्रात् प्राप्य पार्थिवः। आजहाराश्वमेधानां शतं चैव पुनः पुनः ।। २६.
षष्टिपुत्रसहस्राणि दग्धान्यश्वानुसारिणाम्। तेषां नारायणं तेजः प्रविष्टानां महात्मनाम्। पुत्राणान्तु सहस्राणि षष्टिस्तु इति नः श्रुतम् ।। २६.
ऋषय ऊचुः।. सगरस्यात्मजा राज्ञः कथं जाता महाबलाः। विक्रान्ताः षष्टिसाहस्रा विधिना केन वा वद ।। २६.
सूत उवाच।। द्वे पत्न्यौ सगरस्यास्तां तपसा दग्धकिल्बिषे। ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ।। २६.
कनीयसी तु या तस्य पत्नी परमधर्मिणी। अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ।। २६.
और्वस्ताभ्यां वरं प्रादात् तपसाराधितः प्रभुः। एका जनिष्यते पुत्रं वंशकर्त्तारमीप्सितम्। षष्टिपुत्रं सहस्राणि द्वितीया जनयिष्यति ।। २६.
मुनेस्तु वचनं श्रुत्वा केशिनी पुत्रमेककम्। वंशस्य कारणं श्रेष्ठा जग्राह नृपसंसदि ।। २६.
षष्टिपुत्रसहस्राणि सुपर्णभगिनी तथा। महात्मनस्तु जग्राह सुमतिः पोषणे नृपः ।। २६.
अथ काले गते ज्येष्ठा ज्येष्ठं पुत्रं व्यजायत। असमञ्ज इति ख्यातं काकुत्स्थं सगरात्मजम् ।। २६.
सुमतिस्त्वपि जज्ञे वै गर्भन्तुम्बं यशस्विनी। षष्टिपुत्रसहस्राणि तुम्बमध्याद्विनिःसृताः ।। २६.
घृतपूर्णेषु कुम्भेषु तान् गर्भान् न्यदधत्ततः। धात्रीश्चैकैकशः प्रादात् तावतीः पोषणे नृपः ।। २६.
ततो नवसु मासेषु समुत्तस्थुर्यथासुखम्। कुमारास्ते महाभागाः सगरप्रीतिवर्द्धनाः ।। २६.
कालेन महता चैव चौवनं प्रतिपेदिरे। षष्टिपुत्रसहस्राणि तेषामश्वानुसारिणाम् ।। २६.
स तु ज्येष्ठो नरव्याघ्रः सगरस्यात्मसम्भवः। असमञ्ज इति ख्यातो बर्हिकेतुर्महाबलः ।। २६.
पौराणामहिते युक्तः पित्रा निर्वासितः पुरा। तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् ।। २६.
तस्य पुत्रस्तु धर्मात्मा दिलीप इति विश्रुतः। दिलीपात्तु महातेजा वीरो जातो भगीरथः ।। २६.
येन गङ्गा सरिच्छ्रेष्ठा विमानैरुपशोभिता । ईजाऽनेन समुद्राद्वै दुहितृत्वेन कल्पिता। अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः ।। २६.
भगीरथस्तु तां गङ्गामानयामास कर्मभिः । तस्माद्भागीरथी गङ्गा कथ्यते वंशवित्तमैः ।। २६.
भगीरथसुतश्चापि श्रुतो नाम बभूव ह। नाभागस्तस्य दायादो नित्यं धर्मपरायणः ।। २६.
अम्बरीषः सुतस्तस्य सिन्धुद्वीपस्ततोऽभवत्। एवं वंशपुराणज्ञा गायन्तीति परिश्रुतम् ।। २६.
नाभागेरम्बरीषस्य भुजाभ्यां परिपालिता। बभूव वसुधात्यर्थं तापत्रयविवर्जिता ।। २६.
अयुतायुः सुतस्तस्य सिन्धुद्वीपस्य वीर्यवान्। अयुतायोस्तु दायाद ऋतुपर्णो महायशाः ।। २६.
दिव्याक्षहृदज्ञोऽसौ राजा नलसखो बली। नलौ द्वाविति विख्यातौ पुराणेषु दृढव्रतौ ।। २६.
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः। ऋतुपर्णस्य पुत्रोऽभूत् सर्व्वकामो जनेश्वरः ।। २६.