शनैर्यात्यबला रम्या हेमन्ते चन्द्रमण्डिता। अलंकृता त्रिभिर्भावैस्त्रिशङ्कुग्रहभूषिता ।। २६.
तस्य सत्यरता नाम भार्य्या केकयवंशजा। कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ।। २६.
स तु राजा हरिश्चन्द्रस्त्रैशङ्कव इति श्रुतः । आहर्त्ता राजसूयस्य सम्राडिति परिश्रुतः ।। २६.
हरिश्चन्द्रस्य तु सुतो रोहितो नाम वीर्य्यवान्। हरितो रोहितस्याथ चंचुहारीत उच्यते ।। २६.
विजयश्च सुदेवश्च चंचुपुत्रौ बभूवतुः। जेता सर्व्वस्य क्षत्रस्य विजयस्तेन स स्मृतः ।। २६.
रुरुकस्तनयस्तत्र राजा धर्म्मार्थकोविदः। रुरुकाद्धृतकः पुत्रस्तस्माद्बाहुश्च जज्ञिवान् ।। २६.
हैहयैस्तालजङ्घैश्च निरस्तो व्यसनी नृपः। शकैर्यवनकाम्बोजैः पारदैः पह्लवैस्तथा ।। २६.
नात्यर्थं धार्म्मिकोऽभूत् स धर्म्म्ये सत्ययुगे तथा। सगरस्तु सुतो बाहोर्जज्ञे सह गरेण वै। भृगोराश्रममासाद्य तुर्वेण परिरक्षितः ।। २६.
आग्नेयमस्त्रं लब्ध्वा तु भार्गवात् सगरो नृपः। जघान पृथिवीङ्गत्वा तालजंघान् सहैहयान् ।। २६.
शकानां पह्लवानाञ्च धर्म्मान्निरसदच्युतः। क्षत्रियाणां तथा तेषां पारदानाञ्च धर्म्मवित् ।। २६.
ऋषय ऊचुः।। कथं स सगरो राजा गरेण सह जज्ञिवान्। किमर्थञ्च शकादीनां क्षत्रियाणां महौजसाम्। धर्म्मान् कुलोचितान् क्रुद्धो राजा निरसदच्युतः ।। २६.
सूत उवाच।। बाहोर्व्यसनिनस्तस्य हृतं राज्यं पुरा किल। हैहयैस्तालजंवैश्च शकैः सार्द्धं समागतैः ।। २६.
यवनाः पारदाश्चैव काम्बोजाः पह्लवास्तथा। हैहयार्थं पराक्रान्ता एते पञ्चगणास्तदा ।। २६.
हृतं राज्यं बलीयोभिरेभिः क्षत्रियपुङ्गवैः । हृतराज्यस्तदा बाहुः संन्यस्य नु तदा नृपः। वनं प्रविश्य धर्म्मात्मा सह पत्न्या तपोऽचरत् ।। २६.
कस्यचित्त्वथ कालस्य तोयार्थं प्रस्थितो नृपः। वृद्धत्वाद्दुर्ब्बलत्वाच्च अन्तरा स ममार च ।। २६.
पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात् । सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।। २६.
सा तु भर्तुश्चितां कृत्वा वह्नौ तं समरोहयत्। और्वस्तां भार्गवो दृष्ट्वा कारुण्याद्विन्यवर्त्तयत् ।। २६.
तस्याश्रमे तु तङ्गर्भं सागरेण तदा सह। व्यजायत महाबाहुं सगरं नाम धार्मिकम् ।। २६.
और्वस्तु जातकर्मादीन् कृत्वा तस्य महात्मनः। अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ।। २६.
जामदग्न्यात्तदाग्नेयमसुरैरपि दुःसहम्। स तेनास्त्रबलेनैव बलेन च समन्वितः । जघान हैहयान् क्रुद्धो रुद्रः पशुगणानिव ।। २६.
ततः शकान् सयवनान् काम्बोजान् पारदांस्तथा। पह्लवांश्चैव निःशेषान् कर्तुं व्यवसितो नृपः ।। २६.
ते वध्यमाना वीरेण सगरेण महात्मना। वसिष्ठं शरणं सर्व्वे प्रपन्नाः शरणैषिणः ।। २६.
वसिष्ठस्तान् तथेत्युक्त्वा समयेन महामुनिः । सगरं वारयामास तेषान्दत्त्वाऽभयन्तदा ।। २६.
सगरः स्वाम्प्रतिज्ञाञ्च गुरोर्वास्यं निशम्य च। धर्म्मं जघान तेषां वै वेषान्यत्वं चकार ह ।। २६.
अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत्। यवनानां शिरः सर्वं काम्बोजानान्तथैव च।। २६.
पारदा मुक्तकेशाश्च पह्लवाः श्मश्रु धारिणः। निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ।। २६.
शका यवनकाम्बोजाः पह्लवाः पारदैः सह। केलिस्पर्शा माहिषिका दार्वाश्चोलाः खसास्तथा ।। २६.
सर्व्वे ते क्षत्रियगणा धर्म्मस्तेषां निराकृतः। वसिष्ठवचनात्पूर्वं सगरेण महात्मना ।। २६.
स धर्मविजयी राजा विजित्येमां वसुन्धराम्। अश्वं विचारयामास वाजिमेधाय दीक्षितः ।। २६.
तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे। वेलासमीपेऽपहृतो भूमिञ्चैव प्रवेशितः ।। २६.