सत्यव्रतस्तु बाल्यात्तु भाविनोऽर्थस्य वै बलात्। वसिष्ठेऽभ्याधिकं मन्युं धारयामास मन्युना ।। २६.
पित्रा रुदंस्तदा राष्ट्रात् परित्यक्तं स्वमात्मजम्। न वारयामास मुनिर्वसिष्ठः कारणेन वै ।। २६.
पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे। एवं सत्यव्रतस्तान् वै कृतवान् सप्तमे पदे ।। २६.
जानन् धर्म्मान् वसिष्ठस्तु न च मन्त्रानिहेच्छति। इति सत्यव्रते रोषं वसिष्ठो मनसाकरोत् ।। २६.
गुरुर्बुद्ध्या तु भगवान् वसिष्ठः कृतवांस्तदा। न तु सत्यव्रतो बुद्ध्या उपांशुव्रतमस्य वै ।। २६.
तस्मिंश्चोपरते यो यत्पितुरासीन्महामनाः। तेन द्वादशवर्षाणि नावर्षत् पाकशासनः ।। २६.
तेन त्विदानीं बहुधा दीक्षां तां दुर्बलां भुवि। कुलस्य निष्कृतिः स्वस्य कृतेयञ्च भवेदिति ।। २६.
ततो वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत्। अभिषेक्ष्याम्यहं राज्ये पश्चादेनमिति प्रभुः ।। २६.
स तु द्वादशवर्षाणि दीक्षान्तामुद्वहन् बली। अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ।। २६.
सर्व्वकामदुघां धेनुं संददर्श नृपात्मजः। तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ।। २६.
दस्युधर्म्मं गतो दृष्ट्वा जघान बलिनां वरः। स तु मांसं स्वयं चैव विश्वामित्रस्य चात्मजान् ।। २६.
भोजयामास तच्छ्रुत्वा वसिष्ठस्तं तदात्यजत्। प्रोवाच चैव भगवान् वसिष्ठस्तं नृपात्मजम् ।। २६.
पातये क्रूर हे क्रूर तव शंकुमयोमयम् । यदि ते त्रीणि शंकूनि न स्युर्हि पुरुषाधम ।। २६.
पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च। अप्रोषितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ।। २६.
एवं स त्रीणि शंकूनि दृष्ट्वा तस्य महा तपाः। त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः ।। २६.
विश्वामित्रस्तु दाराणामागतो भरणे कृते। ततस्तस्मै वरं प्रादात्तदा प्रीतस्त्रिशङ्कवे ।। २६.
छन्द्यमानो वरेणाथ गुरुं व्रवे नृपात्मजः। अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके ।। २६.
अभिषिच्य राज्ये पित्र्ये याजयामास तं मुनिः। मिषतां दैवतानाञ्च वसिष्ठस्य च कौशिकः। सशरीरं तदा तं वै दिवमारोपयत् प्रभुः ।। २६.
मिषतस्तु वसिष्ठस्य तदद्भुतमिवाभवत्। अत्राप्युदाहरन्तीमौ श्लोकौ पौराणिका जनाः ।। २६.
विश्वामित्रप्रसादेन त्रिशङ्कुर्दिवि राजते । देवै सार्द्धं महातेजानुग्रहात्तस्य धीमतः ।। २६.
शनैर्यात्यबला रम्या हेमन्ते चन्द्रमण्डिता। अलंकृता त्रिभिर्भावैस्त्रिशङ्कुग्रहभूषिता ।। २६.
तस्य सत्यरता नाम भार्य्या केकयवंशजा। कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ।। २६.
स तु राजा हरिश्चन्द्रस्त्रैशङ्कव इति श्रुतः । आहर्त्ता राजसूयस्य सम्राडिति परिश्रुतः ।। २६.
हरिश्चन्द्रस्य तु सुतो रोहितो नाम वीर्य्यवान्। हरितो रोहितस्याथ चंचुहारीत उच्यते ।। २६.
विजयश्च सुदेवश्च चंचुपुत्रौ बभूवतुः। जेता सर्व्वस्य क्षत्रस्य विजयस्तेन स स्मृतः ।। २६.
रुरुकस्तनयस्तत्र राजा धर्म्मार्थकोविदः। रुरुकाद्धृतकः पुत्रस्तस्माद्बाहुश्च जज्ञिवान् ।। २६.
हैहयैस्तालजङ्घैश्च निरस्तो व्यसनी नृपः। शकैर्यवनकाम्बोजैः पारदैः पह्लवैस्तथा ।। २६.
नात्यर्थं धार्म्मिकोऽभूत् स धर्म्म्ये सत्ययुगे तथा। सगरस्तु सुतो बाहोर्जज्ञे सह गरेण वै। भृगोराश्रममासाद्य तुर्वेण परिरक्षितः ।। २६.
आग्नेयमस्त्रं लब्ध्वा तु भार्गवात् सगरो नृपः। जघान पृथिवीङ्गत्वा तालजंघान् सहैहयान् ।। २६.
शकानां पह्लवानाञ्च धर्म्मान्निरसदच्युतः। क्षत्रियाणां तथा तेषां पारदानाञ्च धर्म्मवित् ।। २६.