सम्भूतस्यात्मजः पुत्रो ह्यनरण्यः प्रतापवान्। रावणेन हतो येन त्रिलोकीविजये पुरा ।। २६.
त्रसदश्वोऽनरण्यस्य हर्य्यश्वस्तस्य चात्मजः । हर्य्यश्वात्तु दृषद्वत्यां जज्ञे वसुमतो नृपः ।। २६.
तस्य पुत्रोऽभवद्राजा त्रिधन्वा नाम धार्म्मिकः। आसीत् त्रैधन्वनश्चापि विद्वांस्त्रय्यां रणप्रभुः ।। २६.
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः। तेन भार्य्या विदर्भस्य हृता हत्वा दिवौकसः ।। २६.
पाणिग्रहणमन्त्रेषु निष्ठां सम्प्रापितोष्विह। विष्णुवृद्धः सुतस्तस्य विष्णु वृद्धो यतः स्मृतः । एते ह्यङ्गिरसः पुत्राः क्षात्रोपेताः समाश्रिताः ।। २६.
कामाद्बलाच्च मोहाच्च सङ्कर्षणबलेन च। भाविनोऽर्थस्य च बलात् तत्कृतं तेन धीमता ।। २६.
तमधर्म्मेण संयुक्तं पिता त्रयीगुणोऽत्यजत्। अपध्वंसेति बहुशोऽवदत् क्रोधसमन्वितः ।। २६.
पितरं सोऽब्रवीदेकः क्व गच्छामीति वै मुहुः। पिता चैनमथोवाच श्वपाकैः सह वर्त्तय ।। २६.
नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन। इत्युक्तः स निराक्रामन्नगराद्वचनाद्विभो ।। २६.
न चैनं धारयामास वसिष्ठो भगवानृषिः। स तु सत्यव्रतो धीमाञ्छ्वपाकावसथान्तिकम्। पित्रा मुक्तोऽवसद्वीरः पिता चास्य वनं ययौ ।। २६.
तस्मिंस्तु विषये तस्य नावर्षत् पाकशासनः। समा द्वादश संपूर्णास्तेनाधर्म्मेण वै तदा ।। २६.
दारांस्तु तस्य विषये विश्वामित्रो महातपाः। संन्यस्य सागरानूपे चचार विपुलं तपः ।। २६.
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम्। शिखया भरणार्थाय व्यक्रीणाद्घोशतेन वै ।। २६.
तं तु बद्धं गले दृष्ट्वा विक्रीतं तं नरोत्तमः। महर्षिपुत्रं धर्म्मात्मा मोक्षयामास सुव्रतः ।। २६.
सत्यव्रतो महाबुद्धिर्भरणं तस्य चाकरोत् । विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च ।। २६.
सोऽभवद्घालवो नाम गले बद्धो महातपाः। महर्षिः कौशिकस्तातस्तेन वीर्येण मोक्षितः ।। २६.
तस्य व्रतेन भक्त्या च कृपया च प्रतिज्ञया। विश्वामित्रकलत्रञ्च बभार विनये स्थितः ।। २६.
हत्वा मृगान् वराहांश्च महिषांश्च वनेचरान्। विश्वामित्राश्रमाभ्याशे तन्मांसमपचत्ततः ।। २६.
उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम्। पितुर्नियोगातभजन्नृपे तु वनमास्थिते ।। २६.
अयोध्याञ्चैव राज्यञ्च तथैवान्तःपुरं मुनिः। याज्योपाध्यायसंयोगाद्वसिष्ठः परिरक्षितः ।। २६.
सत्यव्रतस्तु बाल्यात्तु भाविनोऽर्थस्य वै बलात्। वसिष्ठेऽभ्याधिकं मन्युं धारयामास मन्युना ।। २६.
पित्रा रुदंस्तदा राष्ट्रात् परित्यक्तं स्वमात्मजम्। न वारयामास मुनिर्वसिष्ठः कारणेन वै ।। २६.
पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे। एवं सत्यव्रतस्तान् वै कृतवान् सप्तमे पदे ।। २६.
जानन् धर्म्मान् वसिष्ठस्तु न च मन्त्रानिहेच्छति। इति सत्यव्रते रोषं वसिष्ठो मनसाकरोत् ।। २६.
गुरुर्बुद्ध्या तु भगवान् वसिष्ठः कृतवांस्तदा। न तु सत्यव्रतो बुद्ध्या उपांशुव्रतमस्य वै ।। २६.
तस्मिंश्चोपरते यो यत्पितुरासीन्महामनाः। तेन द्वादशवर्षाणि नावर्षत् पाकशासनः ।। २६.
तेन त्विदानीं बहुधा दीक्षां तां दुर्बलां भुवि। कुलस्य निष्कृतिः स्वस्य कृतेयञ्च भवेदिति ।। २६.
ततो वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत्। अभिषेक्ष्याम्यहं राज्ये पश्चादेनमिति प्रभुः ।। २६.
स तु द्वादशवर्षाणि दीक्षान्तामुद्वहन् बली। अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ।। २६.
सर्व्वकामदुघां धेनुं संददर्श नृपात्मजः। तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ।। २६.