वारि शुश्राव योगेन महोदधिरिवोदये। सोमस्य सोमपश्रेष्ठ धारोर्मिकलिलो महान् ।। २६.
तस्य पुत्रास्तु निर्द्दग्धास्त्रिभिरूनास्तु राक्षसाः। ततः स राजातिबलो धुन्धुबन्धुनिबर्हणः ।। २६.
तस्य वारिमयं वेगमपिबत् स नराधिपः। योगी योगेन वह्निं वा शमयामास वारिणा ।। २६.
निरस्यत्तं महाकायं बलेनोदकराक्षसम्। उत्तङ्कं दर्शयामास कृतकर्म्मा नराधिपः ।। २६.
उत्तङ्कश्च वरं प्रादात्तस्मै राज्ञे महात्मने। अदात्तस्याक्षयं वित्तं शत्रुभिश्चाप्यधृष्यताम् ।। २६.
धर्म्मे रतिञ्च सततं स्वर्गे वासं तथाक्षयम्। पुत्राणां चाक्षयाँल्लोकान् स्वर्गे ये राक्षसा हताः ।। २६.
तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते। भद्राश्वः कपिलाश्वश्च कनीयासौ तु तौ स्मृतौ ।। २६.
धौन्धुमारिर्दृढाश्वस्तु हर्यश्वस्तस्य चात्मजः। हर्यश्वस्य निकुम्भोऽभूत् क्षत्रधर्मरतः सदा ।। २६.
संहताश्वो निकुम्भस्य श्रुतो रणविशारदः । कृशाश्वश्चाक्षयाश्वश्च संहताश्च सुतावुभौ ।। २६.
तस्य पत्नी हैमवती सतां मतिदृषद्वती। विख्याता त्रिषु लोकेषु पुत्रस्तस्याः प्रसेनजित् ।। २६.
युवनाश्वः सुतस्तस्य त्रिषु लोकेष्वतिद्युतिः। अत्यन्तधार्मिको गौरी तस्य पत्नी पतिव्रता ।। २६.
अभिशस्ता तु सा भर्त्रा नदी सा बाहुदा कृता । तस्यास्तु गौरिकः पुत्र श्चक्रवर्त्ती बभूव ह ।। २६.
मान्धाता यौवनाश्वो वै त्रैलोक्यविजयी नृपः। अत्राप्युदाहरन्तीमौ श्लोकौ पौराणिकी द्विजाः ।। २६.
यावत्सूर्य उदयति यावच्च प्रतितिष्ठति। सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ।। २६.
अत्राप्युदाहरन्तीमं श्लोकं वंशविदो जनाः । यौवनाश्वं महात्मानं यज्वान ममितौजसम्। मान्धाता तु तनुर्विष्णोः पुराणज्ञाः प्रजक्षते ।। २६.
तस्य चैत्ररथी भार्य्या शशबिन्दोः सुताऽभवत्। साध्वी बिन्दुमती नाम रूपेणाप्रतिमा भुवि ।। २६.
पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य सा। तस्यामुत्पादयामास मान्धाता त्रीन् सुतान् प्रभुः ।। २६.
पुरुकुत्समम्बरीषं मुचुकुन्दञ्च विश्रुतम्। अम्बरीषस्य दायादो युवनाश्वोऽपरः स्मृतः ।। २६.
हरितो युवनाश्वस्य हारिताः शूरयः स्मृताः । एते ह्यङ्गिरसः पुत्राः क्षात्रोपेता द्विजातयः ।। २६.
पुरुकुत्सस्य दायादस्त्रसद्दस्युर्महायशाः। नर्मदायां समुत्पन्नः सम्भूतस्तस्य चात्मजः ।। २६.
सम्भूतस्यात्मजः पुत्रो ह्यनरण्यः प्रतापवान्। रावणेन हतो येन त्रिलोकीविजये पुरा ।। २६.
त्रसदश्वोऽनरण्यस्य हर्य्यश्वस्तस्य चात्मजः । हर्य्यश्वात्तु दृषद्वत्यां जज्ञे वसुमतो नृपः ।। २६.
तस्य पुत्रोऽभवद्राजा त्रिधन्वा नाम धार्म्मिकः। आसीत् त्रैधन्वनश्चापि विद्वांस्त्रय्यां रणप्रभुः ।। २६.
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः। तेन भार्य्या विदर्भस्य हृता हत्वा दिवौकसः ।। २६.
पाणिग्रहणमन्त्रेषु निष्ठां सम्प्रापितोष्विह। विष्णुवृद्धः सुतस्तस्य विष्णु वृद्धो यतः स्मृतः । एते ह्यङ्गिरसः पुत्राः क्षात्रोपेताः समाश्रिताः ।। २६.
कामाद्बलाच्च मोहाच्च सङ्कर्षणबलेन च। भाविनोऽर्थस्य च बलात् तत्कृतं तेन धीमता ।। २६.
तमधर्म्मेण संयुक्तं पिता त्रयीगुणोऽत्यजत्। अपध्वंसेति बहुशोऽवदत् क्रोधसमन्वितः ।। २६.
पितरं सोऽब्रवीदेकः क्व गच्छामीति वै मुहुः। पिता चैनमथोवाच श्वपाकैः सह वर्त्तय ।। २६.
नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन। इत्युक्तः स निराक्रामन्नगराद्वचनाद्विभो ।। २६.
न चैनं धारयामास वसिष्ठो भगवानृषिः। स तु सत्यव्रतो धीमाञ्छ्वपाकावसथान्तिकम्। पित्रा मुक्तोऽवसद्वीरः पिता चास्य वनं ययौ ।। २६.