पूर्व्वमाडीबके युद्धे ककुत्स्थस्तेन स स्मृतः । अनेनास्तु ककुत्स्थस्य पृथुरोमा च स स्मृतः ।। २६.
वृषदश्वः पृथोः पुत्रस्तस्मादन्ध्रस्तु वीर्य्यवान् । आन्ध्रस्तु यवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ।। २६.
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता। श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ।। २६.
बृहदश्वसुतश्चापि कुबलाश्च इति श्रुतिः। यः स धुन्धुवधाद्राजा धुन्धुमारत्वमागतः ।। २६.
ऋषय ऊचुः ।। धुन्धुवधं महाप्राज्ञ श्रोतुमिच्छमि विस्तरात्। यदर्थं कुबलाश्वः स धुन्धुमारत्वमागतः ।। २६.
सूत उवाच।। बृहदश्वस्य पुत्राणां सहस्राण्येकविंशतिः । सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ।। २६.
बभूवुर्द्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः। कुबलाश्वं महावीर्यं शूरमुत्तमधार्मिकम् ।। २६.
बृहदश्वोऽभ्यषिञ्चत्तं तस्मिन् राष्ट्रे नराधिपः। पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह ।। २६.
बृहदश्वं महाराजं शूरमुत्तमधार्म्मिकम् । प्रयातं तमुत्तङ्कस्तु ब्रह्मर्षिः प्रत्यवारयत् ।। २६.
उत्तङ्क उवाच।। भवतो रक्षणं कार्य्यं तत्तावत् कर्तुमर्हति। निरुद्विग्नस्तपः कर्तुं न हि शक्नोमि पार्थिव ।। २६.
ममाश्रमसमीपेषु समेषु मरुधन्वसु। समुद्रो वालुकापूर्णस्तत्र तिष्ठति भूपते ।। २६.
देवतानामवध्यस्तु महाकायो महाबलः। अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ।। २६.
स मनोस्तनयः क्रूरो धुन्धुर्नाम सुदारुणः। शतं लोकविनाशाय तप आस्थाय दारुणम् ।। २६.
संवत्सरस्य पर्य्यन्ते स निःश्वासं प्रमुञ्चति। यदा तदा मही तत्र चलिता स्म सकानना ।। २६.
तस्य निःश्वासवातेन रज उद्धूयते महत्। आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ।। २६.
सविस्फुलिङ्गं सज्वालं सधूममतिदारुणम् । तेन राजन्न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे ।। २६.
तं वारय महाबाहो लोकानां हितकाम्यया। तेजस्ते सुमहाविष्णुस्तेजसाप्याययिष्यति ।। २६.
लोकाः स्वस्था भवन्त्वद्य तस्मिन् विनिहतेऽसुरे । त्वं हि तस्य वधायाद्य समर्थः पृथिवीपते ।। २६.
विष्णुना च वरो दत्तो मम पूर्व्वं ततोऽनघ। न हि धुन्धुर्महावीर्य्यस्तेजसाल्पेन शक्यते ।। २६.
निर्द्दग्धुं पृथिवीपाल अपि वर्ष शतैरिह। वीर्य्यं हि सुमहत्तस्य देवैरपि दुरासहम् ।। २६.
एवमुक्तस्तु राजर्षिरुत्तङ्केन महात्मना। कुबलाश्वं सुतं प्रादात्तस्मिन् धुन्धुनिवारणे ।। २६.
राजा संन्यस्तशस्त्रोऽहमयन्तु तनयो मम। भविष्यति द्विजश्वेष्ठ धुन्धुमारो न संशयः ।। २६.
स तं व्यादिश्य तनयं धुन्धुमारणमुद्यतम्। जगाम पर्व्वतायैव तपसे शंसितव्रतः ।। २६.
कुबलाश्वस्तु धर्म्मात्मा पितुर्वचनमास्थितः। सहस्रैरेकविंशत्या पुत्राणां सह पार्थिवः। प्रायादुत्तङ्क सहितो धुन्धोस्तस्य निवारणे ।। २६.
तमाविशत्ततो विष्णुर्भगवान् स्वेन तेजसा। उत्तङ्कस्य नियोगात्तु लोकानां हितकाम्यया ।। २६.
तस्मिन् प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत्। अद्यप्रुभृत्येष नृपो धुन्धुमारो भविष्यति ।। २६.
दिव्यैः पुष्पैश्च तं देवाः सममंसत अद्भुतम्। सगत्वा पुरुष व्याघ्रस्तनयैः सह वीर्य्यवान् ।। २६.
समुद्रं खनयामास वालुकार्णवमव्ययम्। नारायणेन राजर्षिस्तेजसाप्यायितो हि सः ।। २६.
बभूवातिबलो भूय उत्तङ्कस्य वशे स्थितः। तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा ।। २६.
धुन्धुरासादितस्तत्र दिशमाश्रित्य पश्चिमाम्। मुखजेनाग्निना क्रुद्धो लोकानुद्वर्त्तयन्निव ।। २६.