त्रिसाहस्रन्तु सगणं क्षत्रियाणां महात्मनाम्। नभगस्य च दायादो नाभागो नाम वीर्य्यवान् ।। २६.
अम्बरीषस्तु नाभागिर्विरूपस्तस्य चात्मजः। पृषदश्वो विरूपस्य तस्य पुत्रो रथीतरः ।। २६.
एते क्षत्रप्रसूता वै पुनश्चाङ्गिरसः स्मृताः । रथीतराणां प्रवराः क्षात्रोपेता द्विजातयः ।। २६.
क्षुवतस्तु मनोः पूर्व्वमिक्ष्याकुरभिनिःसृतः । तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् ।। २६.
तेषां ज्येष्ठो विकुक्षिश्च नेमिर्दण्डश्च ते त्रयः। शकुनिप्रमुखास्तस्य पुत्राः पंचाशतस्तु ते ।। २६.
उत्तरापथदेशस्य रक्षितारो महीक्षितः। चत्वारिंशत्तथाष्टौ च दक्षिणस्याञ्च ते दिशि ।। २६.
विंशतिप्रमुखास्ते तु दक्षिणापथरक्षिणः। इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशेत् ।। २६.
राजोवाच।। मांसमानय श्राद्धेयं मृगान् हत्वा महाबल। श्राद्धमद्य नु कर्तव्यमष्टकायां न संशयः ।। २६.
स गतस्तु मृगव्यां वै वचनात्तस्य धीमतः। मृगान् सहस्रशो हत्वा परिश्रान्तश्च वीर्य्यवान्। भक्षयच्छशकन्तत्र विकुक्षिर्मृगयाङ्गतः ।। २६.
आगते स विकुक्षौ तु समांसे सहसैनिके। वसिष्ठञ्चोदयामास मांसं प्रोक्षयतामिति ।। २६.
तथेति चोदितो राज्ञा विधिवत्समुपस्थितः। स दृष्ट्वोपहतं मांसं क्रुद्धो राजानमब्रवीत् ।। २६.
शूद्रेणोपहतं मांसं पुत्रेण तव पार्थिव। शशभक्षादभोज्यं वै तव मांसं महाद्युते ।। २६.
शशो दुरात्मना पूर्वमरण्ये भक्षितोऽनघ। तेन मांसमिदं दुष्टं पितॄणां नृपसत्तम ।। २६.
इक्ष्वाकुस्तु ततः क्रुद्धो विकुक्षिमिदमब्रवीत्। पितृकर्म्मणि निर्द्दिष्टो मया त्वं मृगयाङ्कतः। शशं भक्षयसेऽरण्ये निर्घृणः पूर्व्वमद्य नु ।। २६.
तस्मात्परित्यजामि त्वां गच्छ त्वं स्वेन कर्म्मणा। एवमिक्ष्वाकुना त्यक्तो वसिष्ठवचनात् सुतः ।। २६.
इक्ष्वाकौ संस्थिते तस्मिञ्छशी स पृथिवीमिमाम् । प्राप्तः परमधर्म्मात्मा स चायोध्याधिपोऽभवत् ।। २६.
तदाकरोत्स राज्यं वै वसिष्ठपरिनोदितः। ततः स्तेनेन सा पूर्णो राज्यावस्था महीपतेः ।। २६.
कालेन गतवांस्तत्र स च न्यूनतराङ्गतिम्। ज्ञात्वैवमेतदाख्यानं ना विधिर्भक्षयेत्तु वै ।। २६.
मां सभक्षयितामुत्र यस्य मांसमिहाज्यहम्। एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ।। २६.
शशादस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान्। इन्द्रस्य वृषभूतस्य ककुत्स्थो जायते पुरा ।। २६.
पूर्व्वमाडीबके युद्धे ककुत्स्थस्तेन स स्मृतः । अनेनास्तु ककुत्स्थस्य पृथुरोमा च स स्मृतः ।। २६.
वृषदश्वः पृथोः पुत्रस्तस्मादन्ध्रस्तु वीर्य्यवान् । आन्ध्रस्तु यवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ।। २६.
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता। श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ।। २६.
बृहदश्वसुतश्चापि कुबलाश्च इति श्रुतिः। यः स धुन्धुवधाद्राजा धुन्धुमारत्वमागतः ।। २६.
ऋषय ऊचुः ।। धुन्धुवधं महाप्राज्ञ श्रोतुमिच्छमि विस्तरात्। यदर्थं कुबलाश्वः स धुन्धुमारत्वमागतः ।। २६.
सूत उवाच।। बृहदश्वस्य पुत्राणां सहस्राण्येकविंशतिः । सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ।। २६.
बभूवुर्द्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः। कुबलाश्वं महावीर्यं शूरमुत्तमधार्मिकम् ।। २६.
बृहदश्वोऽभ्यषिञ्चत्तं तस्मिन् राष्ट्रे नराधिपः। पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह ।। २६.
बृहदश्वं महाराजं शूरमुत्तमधार्म्मिकम् । प्रयातं तमुत्तङ्कस्तु ब्रह्मर्षिः प्रत्यवारयत् ।। २६.
उत्तङ्क उवाच।। भवतो रक्षणं कार्य्यं तत्तावत् कर्तुमर्हति। निरुद्विग्नस्तपः कर्तुं न हि शक्नोमि पार्थिव ।। २६.