यस्तु स्यादवरोहो वा तारतो मन्द्रतोऽपि वा। एकान्तरहिता ह्येते तमेव स्वरमन्ततः ।। २५.
मक्षिप्रच्छेदनो नाम चतुष्कलगणः स्मृतः। अलङ्कारा भवन्त्येते त्रिंशद्ये वै प्रकीर्त्तिताः। वर्णस्थानप्रयोगेण कलामात्रा प्रमाणतः ।। २५.
संस्थानञ्च प्रमाणं च विकारो लक्षणन्तथा। चतुर्विधमिदं ज्ञेयमलङ्कारप्रयोजनम् ।। २५.
यथात्मनो ह्यलङ्कारो विपर्यस्तोऽतिगर्हितः। वर्णमेवाप्यलंकर्त्तुं विषमं ह्यात्मसम्भवात् ।। २५.
नानाभरणसंयोगाद्यथा नार्या विभूषणम्। वर्णस्य चैवालङ्कारो विपर्यस्तोऽतिगर्हितः ।। २५.
न पादे कुण्डले दृष्टे न कण्ठे रसना यथा। एवमेव ह्यलङ्कारो विपर्यस्तो विगर्हितः ।। २५.
क्रियमाणोऽप्यलङ्कारो रागं यश्चैव दर्शयेत्। यथोद्दिष्टस्य मार्गस्य कर्त्तव्यस्य विधीयते ।। २५.
लक्षणं पर्य्यवस्थापि वर्णिकाभिः प्रवर्त्तनम्। याथातथ्येन वक्ष्यामि मासेद्भवमुखोद्भवे ।। २५.
त्रयोविंशत्यशीतिस्तु तेषामेतद्विपर्ययः। षड्जपक्षोऽपि तत्त्वादौ मध्यो हीनस्वरो भवेत् ।। २५.
षड्जमध्यमयोश्चैव ग्रामयोः पर्य्यपस्तथा। मानोयोत्तरमन्द्रस्य षडेवात्राविकस्य च ।। २५.
स्वरालंप्रत्ययश्चैव सर्व्वेषां प्रत्ययः स्मृतः। अनुगम्य बहिर्गीतं विज्ञातं पञ्चदैवतम् ।। २५.
गोरूपाणां पुरस्तात्तु मध्यमांशस्तु पर्य्ययः। तयोर्विभागो गीतानां लावण्यमार्गसंस्थितः ।। २५.
अनुषङ्गं मयोद्दिष्टं स्वसारञ्च स्वरान्तरम्। पर्य्ययः संप्रवर्त्तेत सप्तस्वरपदक्रमम् ।। २५.
गान्धारांशेन गीयन्ते चत्वारि मन्द्रकाणि च। पञ्चमो मध्यमश्चैव धैवते तु निषादजैः। षड्जर्षभैश्च जानीमो मन्द्रकेष्वेव नान्तरे ।। २५.
द्वे चापरान्तिके विद्याद्धयशुल्लाष्टकस्य तु। प्राकृते वैणवैश्चैव गान्धारांशे प्रयुज्यते ।। २५.
पदस्य तु त्रयं रूपं सप्तरूपन्तु कौशिकम्। गान्धारांशेन कार्त्स्न्येन पर्ययस्य विधिः स्मृतः । एवञ्चैव क्रमोद्दिष्टो मध्यमांशस्य मध्यमः ।। २५.
यानि गीतानि प्रोक्तानि रूपेण तु विशेषतः। तत्तु सप्तस्वरं कार्य्यं सप्तरूपञ्च कौशिकम् ।। २५.
अङ्गदर्शनमित्याहुर्माने द्वे समके तथा। द्वितीयभावाचरणा मात्रा नाभिप्रतिष्ठिता ।। २५.
उत्तरे च प्रकृत्येवं मात्रा तल्लीयते तथा । हन्तारः पिण्डको यत्र मात्रायां नातिवर्त्तते ।। २५.
पादेनैकेन मात्रायां पादोनामति वीरणा। संख्यायाश्चोपहननं तत्र यानमिति स्मृतम् ।। २५.
द्वितीयं पादभङ्गञ्च ग्रहेणाभिप्रतिष्ठितम्। पूर्व्वमष्टतृतीये तु द्वितीयं चापरीतके ।। २५.
अर्द्धेन पादसाम्यस्य पादभागाच्च पञ्चके। पादभागं सपादं तु प्रकृत्यामपि संस्थितम् ।। २५.
चतुर्थमुत्तरे चैव मद्रवत्यां च मद्रके। मद्रके दक्षिणस्यापि यथोक्ता वर्त्तते कला ।। २५.
पूर्व्वमेवानुयोगन्तु द्वितीया बुद्धिरिष्यते। पादौ चाहरणं चास्मत् पारं नात्र विधीयते ।। २५.
एकत्वमुपयोगस्य द्वयोर्यद्धि द्विजोत्तम। अनेकसमवायस्तु पताकाहरिणं स्मृतम् ।। २५.
तिसॄणां चैव वृत्तीनां वृत्तौ वृत्ता च दक्षिणा। अष्टौ तु समवायास्ते सौवीरा मूर्च्छना तथा। कुशत्यनुत्तरः सत्यं सप्त सत्त्वस्वरं तु यः ।। २५.
सूत उवाच।। ककुद्मिनस्तु तं लोकं रैवतस्य गतस्य ह। हताः पुण्यजनैः सर्व्वा राक्षसैः सा कुशस्थली ।। २६.
तद्वै भ्रातृशतं तस्य धार्म्मिकस्य महात्मनः। निबध्यमाना रक्षोभिर्दिशः संप्राद्रवन् भयात् ।। २६.
तेषान्तु ते भयाक्रान्ताः क्षत्रियास्तत्र तत्र हि। अन्ववायस्तु सुमहान् महांस्तत्र द्विजोत्तमाः ।। २६.
प्रयता इति विख्याता दिक्षु सर्व्वासु धार्म्मिकाः। धृष्टस्य धार्ष्टकं क्षत्रं रणधृष्टं बभूव ह ।। २६.