ताल उत्तरमन्द्रांशः षड्जदैवतकां विदुः। तस्मादुत्तरतालञ्च प्रथमं स्वायतं विदुः। तस्मादुत्तरमन्द्रोऽयं देवतास्य ध्रुवो ध्रुवम् ।। २४.
अपानादुत्तरत्वाच्च धैवतस्योत्तरायणः। स्यादियं मूर्च्छना ह्येवं पितरः श्राद्धदेवताः ।। २४.
शुद्धषड्जस्वरं कृत्वा यस्मादग्निं महर्षयः। उपतिष्ठन्ति तस्मात्तं जानीयाच्छुद्धषड्जिकम् ।। २४.
यः सतां मूर्च्छनां कृत्वा पञ्चमस्वरको भवेत् । यक्षीणां मूर्च्छना सा तु याक्षिका मूर्च्छना स्मृता ।। २४.
नागदृष्टिर्विषा गीता नोपसर्पन्ति मूर्च्छनाम्। भवन्तीव हृता ह्येते ब्रह्मणा नागदेवताः। अहीनां मूर्च्छना ह्येषा वरुणश्चात्र देवता ।। २४.
शकुन्तकानां कृत्वा च उपमां यान्ति किन्नराः । उत्तमां मूर्च्छना तस्मात् पक्षिराजोऽत्र देवता ।। २४.
गान्धाररागशब्देन गां च धारयतेऽर्थतः। तस्माद्विशुद्धगान्धारी गन्धर्वश्चाधिदैवतम् ।। २४.
गान्धारानन्तरं गत्वा सृष्टेयं मूर्च्छना यतः। तस्मादुत्तरगान्धारी वसवश्चात्र देवताः ।। २४.
सेयं खलु महाभूता पितामह मुपस्थिता। षड्जेयं मूर्च्छना तस्मात् स्मृता ह्यनलदेवता ।। २४.
दिव्येयं चायता तेन मन्दषष्ठा च मूर्च्छने। निवृत्तगुणनामानं पञ्चमञ्चात्र धैवतम् ।। २४.
पूर्णाः सप्तस्वरा ह्येवं मूर्च्छनाः संप्रकीर्त्तिताः। नानासाधारणाश्चैव षडेवानुविदस्तथा ।। २४.
पूर्व्वाचार्य्यमतं बुद्ध्वा प्रवक्ष्याम्यनुपूर्व्वशः। त्रिंशतं वै अलङ्कारांस्तान् मे निगदतः श्रृणु ।। २५.
अलङ्कारास्तु वक्तव्याः स्वैःस्वैर्वर्णैः प्रहेतवः। संस्थानयोगैश्च तथा पादानां चान्ववेक्षया ।। २५.
वाक्यार्थपदयोगार्थैरलङ्कारस्य पूरणम्। पदानि गीतकस्याहुः पुरस्तात् पृष्ठतोऽथवा ।। २५.
स्थानानि त्रीणि जानीयादुरःकण्ठशिरस्तथा। एतेषु त्रिषु स्थानेषु प्रवृत्तो विधिरुत्तमः ।। २५.
चत्वारः प्रकृतौ वर्णाः प्रविचारश्चतुर्विधः। विकल्पमष्टधा चैव देवाः षोडशधा विदुः ।। २५.
स्थायी वर्णः प्रसंचारी तृतीयमवरोहणम्। आरोहणं चतुर्थन्तु वर्णं वर्णविदो विदुः ।। २५.
तत्रैकः संचरस्थायी सचरास्तचरीभवन्। अथ रोहणवर्णानामवरोहं विनिर्दिशेत् ।। २५.
आरोहणेन चारोहवर्णं वर्णविदो विदुः। एतेषामेव वर्णानामलङ्कारान्निबोधत ।। २५.
अलङ्कारास्तु चत्वारः स्थापनी क्रमरेजिनः। प्रमादश्चाप्रमादश्च तेषां वक्ष्यामि लक्षणम् ।। २५.
विस्वरोष्ट्रकलाश्चैव स्थानादेकान्तरं गताः। आवर्त्तस्याक्रमोत्पत्ती द्वे कार्य्ये परिमाणतः ।। २५.
कुमारमपरं विद्याद्विस्तरं वमनं गतम्। एष वै चाप्यपाङ्गस्तु कुतारेकः कलाधिकः ।। २५.
श्येनस्त्वेकान्तरे जातः कलामात्रान्तरे स्थितः। तस्मिंश्चैव स्वरे वृद्धिस्तिष्ठते तद्विलक्षणा ।। २५.
श्येनस्तु अपरोहस्तु उत्तरः परिकीर्त्तितः। कलाकलप्रमाणाच्च स बिन्दुर्नाम चायते ।। २५.
बिन्दुरेककला कार्या वर्णान्तस्थायिनी भवेत्। विपर्ययस्वरोऽपि स्याद्यस्य दुर्घटितोऽपि न ।। २५.
एकान्तरा तु वाद्यन्तु षड्जतः परमः स्वरः। आक्षेपास्कन्दनं कार्य्यं काकस्येवोच्चपुष्कलम् ।। २५.
सन्तारौ तौ तु सञ्चार्यौ कार्यं वा कारणं तथा। आक्षिप्तमवरोह्यापि प्रोक्षमद्यन्तथैव च ।। २५.
द्वादशञ्च कलास्थानमेकान्तरगतन्ततः। प्रेङ्खोलितमलङ्कारमेवं स्वरसमन्वितम् ।। २५.
स्वरसंक्रामकाच्चैव ततः प्रोक्तन्तु पुष्कलम्। प्रक्षिप्तमेव कलया पादानीतरयोर्भवेत् ।। २५.
द्विकलं वा यथा भूतं यत्तद् ह्रासितमुच्यते। उच्चाराद्विस्वरारूढा तथा चाष्टस्वरान्तरम् ।। २५.