सप्त स्वरास्त्रयो ग्रामा मूर्च्छनास्त्वेकविंशतिः। तालाश्चैकोनपञ्चाशदित्येतत् स्वरमण्डलम् ।। २४.
षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा। धैवतश्चापि विज्ञेयस्तथा चापि निषादवान् ।। २४.
सौवीरी मध्यमग्रामो हरिणास्या तथैव च। स्यात्कलोपबलोपेता चतुर्थी शुद्धमध्यमा ।। २४.
शार्ङ्गी च पावनी चैव दृष्टाका च यथाक्रमम्। म्ध्यमग्रामिकीः ख्याताः षड्जग्रामं निबोधत ।। २४.
उत्तरमन्द्रा रजनी तथा या चोत्तरायता। शुद्धषड्जा तथा चैव जानीयात् सप्तमां च ताम् ।। २४.
गान्धारग्रामि कांश्चान्यान् कीर्त्यमानान् निबोधत। आग्निष्टोमिकमाद्यन्तु द्वितीयं वाजपेयिकम् ।। २४.
तृतीयं पौण्ड्रकं प्रोक्तं चतुर्थं चाश्वमेधिकम्। पञ्चमं राजसूयं व षष्ठं चक्रसुवर्णकम् ।। २४.
सप्तमं गोसवं नाम महावृष्टिकमष्टमम्। ब्रह्मदानञ्च नवमं प्राजापत्यमनन्तरम् ।। २४.
नागपक्षाश्रयं विद्याद्गोतरञ्च तथैव च। हयक्रान्तं मृगक्रान्तं विष्णुक्रान्तं मनोहरम् ।। २४.
सूर्य्यक्रान्तं वरेण्यञ्च मत्तकोकिलवादिनम्। सावित्रमर्द्धसावित्रं सर्व्वतो मद्रमेव च ।। २४.
सुवर्णञ्च सुतन्द्रञ्च विष्णुवैष्णुवरावुभौ। सागरं विजयञ्चैव सर्वभूतमनोहरम् ।। २४.
हंसं ज्येष्ठं विजानीमस्तुम्बुरुप्रियमेव च। मनोहरमधात्र्यञ्च गन्धर्वानुगतश्च यः ।। २४.
अलम्बुषेष्टश्च तथा नारदप्रिय एव च। कथितो भीमसेनेन नागराणां यथा प्रियः ।। २४.
करोपनीत विनता श्रीराख्यो भार्गवप्रियः। विंशतिर्मध्यमग्रामः षड्जग्रामश्चतुर्द्दश ।। २४.
तथा पञ्चदशेच्छन्ति गान्धारग्रामसंस्थितान् । ससौवीरा तु गान्धारी ब्रह्मणा ह्युपगीयते ।। २४.
उत्तरादिस्वरस्यैव ब्रह्मा वै देवताऽत्र च। हरिदेशसमुत्पन्ना हरिणास्या व्यजायत। मूर्च्छना हरिणास्यैव अस्या इन्द्रोऽधिदैवतम् ।। २४.
करोपनीतवितता मरुद्भिः स्वरमण्डले। सा कलोपनता तस्मान्मारुतश्चात्र दैवतम् ।। २४.
मनुदेशसमुत्पन्ना मूर्च्छना शुद्धमध्यम्। मध्यमोऽत्र स्वरः शुद्धो गन्धर्व्वश्चात्र देवता ।। २४.
मृगैः सह सञ्चरते सिद्धानां मार्गदर्शने। यस्मात्तस्मात् स्मृता मार्गी मृगेन्द्रोऽस्याश्च देवता ।। २४.
सा चाश्रमसमायुक्ता अनेकान् पौरवान् रवान्। मूर्च्छना योजना ह्येषा रजसा रजनी ततः ।। २४.
ताल उत्तरमन्द्रांशः षड्जदैवतकां विदुः। तस्मादुत्तरतालञ्च प्रथमं स्वायतं विदुः। तस्मादुत्तरमन्द्रोऽयं देवतास्य ध्रुवो ध्रुवम् ।। २४.
अपानादुत्तरत्वाच्च धैवतस्योत्तरायणः। स्यादियं मूर्च्छना ह्येवं पितरः श्राद्धदेवताः ।। २४.
शुद्धषड्जस्वरं कृत्वा यस्मादग्निं महर्षयः। उपतिष्ठन्ति तस्मात्तं जानीयाच्छुद्धषड्जिकम् ।। २४.
यः सतां मूर्च्छनां कृत्वा पञ्चमस्वरको भवेत् । यक्षीणां मूर्च्छना सा तु याक्षिका मूर्च्छना स्मृता ।। २४.
नागदृष्टिर्विषा गीता नोपसर्पन्ति मूर्च्छनाम्। भवन्तीव हृता ह्येते ब्रह्मणा नागदेवताः। अहीनां मूर्च्छना ह्येषा वरुणश्चात्र देवता ।। २४.
शकुन्तकानां कृत्वा च उपमां यान्ति किन्नराः । उत्तमां मूर्च्छना तस्मात् पक्षिराजोऽत्र देवता ।। २४.
गान्धाररागशब्देन गां च धारयतेऽर्थतः। तस्माद्विशुद्धगान्धारी गन्धर्वश्चाधिदैवतम् ।। २४.
गान्धारानन्तरं गत्वा सृष्टेयं मूर्च्छना यतः। तस्मादुत्तरगान्धारी वसवश्चात्र देवताः ।। २४.
सेयं खलु महाभूता पितामह मुपस्थिता। षड्जेयं मूर्च्छना तस्मात् स्मृता ह्यनलदेवता ।। २४.
दिव्येयं चायता तेन मन्दषष्ठा च मूर्च्छने। निवृत्तगुणनामानं पञ्चमञ्चात्र धैवतम् ।। २४.