दृष्ट्वा प्रयोजनं सर्वं लोकसन्तानकारणात्। कोपन्त्यजत राजानः सर्वं प्राचीनबर्हिषः ।। २.
वृक्षाः क्षित्यां जनिष्यन्ति शाम्येतामग्निमारुतौ। रत्नभूता तु कन्येयं वृक्षाणां वरवर्णिनी ।। २.
भविष्यं जानता ह्येषा मया गोभिर्विवर्द्धिता। मारिषा नाम नाम्नैषा वृक्षैरेव विनिर्मिता। भार्या भवतु वो ह्येषा सोमगर्भविवर्द्धिता ।। २.
युष्माकं तेजसोऽर्द्धेन मम चार्द्धेन तेजसः। अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ।। २.
स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै। अग्निनाग्निसमो भूयः प्रजाः संवर्द्धयिष्यति ।। २.
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः। संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ।। २.
मारिषायां ततस्ते वै मनसा गर्भमादधुः। दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।। २.
दक्षो जज्ञे महातेजाः सोमस्यांशेन वीर्यवान् । असृजन्मानसानादौ प्रजा दक्षोऽथ मैथुनात् ।। २.
अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदान्। विसृज्य मनसा दक्षः पश्चादसृजत स्त्रियः ।। २.
ददौ स दश धर्माय कश्यपाय त्रयोदश। कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ।। २.
एभ्यो दत्त्वा ततोऽन्या वै चतस्रोऽरिष्टनेमिने । द्वे चैव बाहुपुत्राय द्वे चैवाङ्गिरसे तथा। कन्यामेकां कृशाश्वाय तेभ्योऽपत्यं निबोधत ।। २.
अन्तरं चाक्षुषस्यात्र मनोः षष्ठन्तु हीयते। मनोर्वैवस्वतस्यापि सप्तमस्य प्रजापतेः ।। २.
तासु देवाः खगा गावो नागा दितिजदानवाः। गन्धर्वोप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ।। २.
ततः प्रभृति लोकेऽस्मिन् प्रजा मैथुनसम्भवाः। सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ।। २.
देवानां दानवानाञ्च देवर्षीणाञ्च ते शुभः। सम्भवः कथितः पूर्वं दक्षस्य च महात्मनः ।। २.
प्राणात्प्रजापतेर्जन्म दक्षस्य कथितं त्वया। कथं प्रचेतसत्वञ्च पुनर्लेभे महातपाः ।। २.
एतन्नः संशयं सूत व्याख्यातुं त्वमिहार्हसि। स दौहित्रश्च सोमस्य कथं श्वशुरताङ्गतः ।। २.
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु सत्तमाः। ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये नराः ।। २.
युगे युगे भवन्त्येते सर्वे दक्षादयो द्विजाः । पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ।। २.
ज्यैष्ठ्यं कानिष्ठ्यमप्येषां पूर्वं नासीद् द्विजोत्तमाः। तप एव गरीयोऽभूत् प्रभावश्चैव कारणम् ।। २.
इमां विसृष्टिं यो वेद चाक्षुषस्य चराचरम्। प्रजानामायुरुत्तीर्णः स्वर्गलोके महीयते ।। २.
एष सर्गः समाख्यातश्चाक्षुषस्य समा सतः। इत्येते षढविसर्गा हिक्रान्ता मन्वन्तरात्मकाः। स्वायम्भुवाद्या- संक्षेपाच्चाक्षुषान्ता यथाक्रमम् ।। २.
एते सर्गा यथाप्रज्ञं प्रोक्ता वै द्विजसत्तमाः। वैवस्वतनिसर्गेण तेषां ज्ञेयस्तु विस्तरः ।। २.
अनन्ता नातिरिक्ताश्च सर्वे सर्गा विवस्वतः। आरोग्यायुष्प्रमाणेन धर्मतः कामतोऽर्थतः। एतानेव गुणानेति यः पठत्यनसूयकः ।। २.
वैवस्वतस्य वक्ष्यामि साम्प्रतस्य महात्मनः। समासाद्व्यासतः सर्गं ब्रुवतो मे निबोधत ।। २.
सूत उवाच।। सप्तमे त्वथ पर्याये मनोर्वैवस्वतस्य ह। मारीचात्कश्यपाद्देवा जज्ञिरे परमर्षयः ।। ३.
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः। भृगवोऽङ्गिरसश्चैव ह्यष्टौ देवगणाः स्मृताः ।। ३.
आदित्या मरुतो रुद्रा विज्ञेयाः कश्यपात्मजाः। साध्याश्च वसवो विश्वे धर्मपुत्रास्त्रयो गणाः ।। ३.
भृगोस्तु भार्गवो देवो ह्यङ्गिरोऽङ्गिरसः सुतः । वैवस्वतेऽन्तेरे ह्यस्मिन् नित्यं ते छन्दजाः सुराः ।। ३.
एष सर्गस्तु मारीचो विज्ञेयः साम्प्रतः शुभः। तेजस्वी साम्प्रतस्तेषामिन्द्रो नाम्ना महाबलः ।। ३.