कन्या तु तस्य द्रविडा माता विश्रवसो हि सा। पुत्रश्चास्य विशालोऽभूद् राजा परमधार्मिकः ।। २४.
विशालस्य समुत्पन्ना विशाला नयनिर्मिता। विशालस्य सुतो राजा हेमचन्द्रो महाबलः ।। २४.
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरम्। सुचन्द्रतनयो राजा धूम्राश्च इति विश्रुतः ।। २४.
धूम्राश्वतनयो विद्वान् सृञ्जयः समपद्यत। सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ।। २४.
कृशाश्वः सहदेवस्य पुत्रः परमधार्मिकः। कृशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ।। २४.
सोमदत्तस्य राजर्षेः सुतोभूज्जनमेजयः। जनमेजयात्मजश्चैव प्रमतिर्नाम विश्रुतः ।। २४.
तृणबिन्दुप्रसादेन सर्वे वैशालका नृपाः । दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ।। २४.
शर्यातेर्मिथुनं त्वासीदानार्तो नाम विश्रुतः। पुत्रः सुकन्या कन्या न भार्याया च्यवनस्य तु ।। २४.
आनार्त्तस्य तु दायादो रेवो नाम्ना तु वीर्यवान्। आनर्त्तो विषयो यस्य पुरी चापि कुशस्थली ।। २४.
रेवस्य रैवतः पुत्रः ककुझी नाम धार्मिकः। ज्येष्ठो भ्रातृशतस्यासीद्राजा प्राप्य कुशस्थलीम् ।। २४.
कन्यया सह श्रुत्वा च गन्धर्वं ब्रह्मणोऽन्तिके। मुहूर्त्तं देवदेवस्य मार्त्यं बहुयुगं विभोः ।। २४.
आजगाम युवा चैव स्वां पुरीं यादवैर्वृताम्। कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ।। २४.
भोजवृष्ट्यन्धकैर्गुप्तां वसुदेवपुरोगमैः। ताङ्कथां रैवतः श्रुत्वा यथातत्त्वमरिन्दमः ।। २४.
कन्या तु बलदेवाय सुव्रतां नाम रेवतीम्। दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ।। २४.
रेमे रामश्च धर्मात्मा रेवत्या सहितः किल। तां कथामृषयः श्रुत्वा पप्रच्छुस्तदनन्तरम् ।। २४.
ऋष्य ऊचुः ।। कथं बहुयुगे काले व्यतीते सूतनन्दन। न जरां रेवती प्राप्ता पलितञ्च कुतः प्रभो ।। २४.
मेरुं गतस्य वा तस्य शर्य्यातेः सन्ततिः कथम्। स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि तत्त्वतः ।। २४.
कियन्तो वा सुरगणा गन्धर्व्वास्तत्र कीदृशाः। यच्छ्रुत्वा रैवतः कालान् मुहूर्त्तमिव मन्यते ।। २४.
सूत उवाच।। न जरा क्षुत्पिपासा वा न च मृत्युभयं ततः। न च रोगः प्रभवति ब्रह्मलोकगतस्य हि ।। २४.
गान्धर्व्वं प्रति यच्चापि पृष्टस्तु मुनिसत्तमाः। ततोऽहं संप्रवक्ष्यामि याथातथ्येन सुव्रताः ।। २४.
सप्त स्वरास्त्रयो ग्रामा मूर्च्छनास्त्वेकविंशतिः। तालाश्चैकोनपञ्चाशदित्येतत् स्वरमण्डलम् ।। २४.
षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा। धैवतश्चापि विज्ञेयस्तथा चापि निषादवान् ।। २४.
सौवीरी मध्यमग्रामो हरिणास्या तथैव च। स्यात्कलोपबलोपेता चतुर्थी शुद्धमध्यमा ।। २४.
शार्ङ्गी च पावनी चैव दृष्टाका च यथाक्रमम्। म्ध्यमग्रामिकीः ख्याताः षड्जग्रामं निबोधत ।। २४.
उत्तरमन्द्रा रजनी तथा या चोत्तरायता। शुद्धषड्जा तथा चैव जानीयात् सप्तमां च ताम् ।। २४.
गान्धारग्रामि कांश्चान्यान् कीर्त्यमानान् निबोधत। आग्निष्टोमिकमाद्यन्तु द्वितीयं वाजपेयिकम् ।। २४.
तृतीयं पौण्ड्रकं प्रोक्तं चतुर्थं चाश्वमेधिकम्। पञ्चमं राजसूयं व षष्ठं चक्रसुवर्णकम् ।। २४.
सप्तमं गोसवं नाम महावृष्टिकमष्टमम्। ब्रह्मदानञ्च नवमं प्राजापत्यमनन्तरम् ।। २४.
नागपक्षाश्रयं विद्याद्गोतरञ्च तथैव च। हयक्रान्तं मृगक्रान्तं विष्णुक्रान्तं मनोहरम् ।। २४.
सूर्य्यक्रान्तं वरेण्यञ्च मत्तकोकिलवादिनम्। सावित्रमर्द्धसावित्रं सर्व्वतो मद्रमेव च ।। २४.