क्षुपस्य विंशः पुत्रस्तु प्रतिमा न बभूव ह। विंशपुत्रस्तु कल्याणो विविंशो नाम धार्मिकः ।। २४.
विविंशपुत्रो धर्मात्मा खनिनेत्रः प्रतापवान्। करन्धमस्तस्य पुत्रस्त्रेतायुगमुखेऽभवत् ।। २४.
करन्धमसुतश्चापि आविक्षिन्नाम वीर्यवान्। आविक्षितो व्यतिक्रामत् पितरं गुणवत्तया ।। २४.
मरुत्तो नाम धर्मात्मा चक्रवर्त्तिसमो नृपः। संवर्त्तेन दिवं नीतः ससुहृत् सह बान्धवैः ।। २४.
विवादोऽत्र महानासीत् संवर्त्तस्य बृहस्पतेः। ऋद्धिं दृष्ट्वा तु यज्ञस्य क्रुद्धस्तस्य बृहस्पतिः ।। २४.
संपर्त्तेन हृते यज्ञे चुकोप सुभृशन्तदा। लोकानां स हि नाशय दैवतैर्हि प्रसादितः ।। २४.
मरुत्तश्चक्रवर्त्ती स नरिष्यन्तमवाप्तवान्। नरिष्यन्तस्य दायादो राजा दण्डधरो दमः ।। २४.
तस्य पुत्रस्तु विक्रान्तो राजासीद्राष्ट्रवर्द्धनः । सुधृती तस्य पुत्रस्तु नरः सुधृतिनः सुतः ।। २४.
केवलस्तस्य पुत्रस्तु बन्धुमान् केवलात्मजः। अथ बन्धुमतः पुत्रो धर्मात्मा वेगवान् नृपः ।। २४.
बुधो वेगवतः पुत्र स्तृणबिन्दुर्बुधात्मजः। त्रेतायुगमुखे राजा तृतीये संबभूव ह ।। २४.
कन्या तु तस्य द्रविडा माता विश्रवसो हि सा। पुत्रश्चास्य विशालोऽभूद् राजा परमधार्मिकः ।। २४.
विशालस्य समुत्पन्ना विशाला नयनिर्मिता। विशालस्य सुतो राजा हेमचन्द्रो महाबलः ।। २४.
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरम्। सुचन्द्रतनयो राजा धूम्राश्च इति विश्रुतः ।। २४.
धूम्राश्वतनयो विद्वान् सृञ्जयः समपद्यत। सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ।। २४.
कृशाश्वः सहदेवस्य पुत्रः परमधार्मिकः। कृशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ।। २४.
सोमदत्तस्य राजर्षेः सुतोभूज्जनमेजयः। जनमेजयात्मजश्चैव प्रमतिर्नाम विश्रुतः ।। २४.
तृणबिन्दुप्रसादेन सर्वे वैशालका नृपाः । दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ।। २४.
शर्यातेर्मिथुनं त्वासीदानार्तो नाम विश्रुतः। पुत्रः सुकन्या कन्या न भार्याया च्यवनस्य तु ।। २४.
आनार्त्तस्य तु दायादो रेवो नाम्ना तु वीर्यवान्। आनर्त्तो विषयो यस्य पुरी चापि कुशस्थली ।। २४.
रेवस्य रैवतः पुत्रः ककुझी नाम धार्मिकः। ज्येष्ठो भ्रातृशतस्यासीद्राजा प्राप्य कुशस्थलीम् ।। २४.
कन्यया सह श्रुत्वा च गन्धर्वं ब्रह्मणोऽन्तिके। मुहूर्त्तं देवदेवस्य मार्त्यं बहुयुगं विभोः ।। २४.
आजगाम युवा चैव स्वां पुरीं यादवैर्वृताम्। कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ।। २४.
भोजवृष्ट्यन्धकैर्गुप्तां वसुदेवपुरोगमैः। ताङ्कथां रैवतः श्रुत्वा यथातत्त्वमरिन्दमः ।। २४.
कन्या तु बलदेवाय सुव्रतां नाम रेवतीम्। दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ।। २४.
रेमे रामश्च धर्मात्मा रेवत्या सहितः किल। तां कथामृषयः श्रुत्वा पप्रच्छुस्तदनन्तरम् ।। २४.
ऋष्य ऊचुः ।। कथं बहुयुगे काले व्यतीते सूतनन्दन। न जरां रेवती प्राप्ता पलितञ्च कुतः प्रभो ।। २४.
मेरुं गतस्य वा तस्य शर्य्यातेः सन्ततिः कथम्। स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि तत्त्वतः ।। २४.
कियन्तो वा सुरगणा गन्धर्व्वास्तत्र कीदृशाः। यच्छ्रुत्वा रैवतः कालान् मुहूर्त्तमिव मन्यते ।। २४.
सूत उवाच।। न जरा क्षुत्पिपासा वा न च मृत्युभयं ततः। न च रोगः प्रभवति ब्रह्मलोकगतस्य हि ।। २४.
गान्धर्व्वं प्रति यच्चापि पृष्टस्तु मुनिसत्तमाः। ततोऽहं संप्रवक्ष्यामि याथातथ्येन सुव्रताः ।। २४.