इक्ष्वाकुर्नहुषश्चैव धृष्टः शर्यातिरेव च। नरिष्यन्तस्तथा प्रांशु र्नाभागोऽरिष्ट एव च। करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ।। २३.
ब्रह्मणा तु मनुः पूर्वं चोदितस्तु निबोधत। स्रष्टुं प्रचक्रमे कामं निष्फलं समवर्त्तत ।। २३.
अथाकरोत्पुत्रकामः परामिष्टिं प्रजापतिः। मित्रावरुणयोरंशे मनुराहुतिमावपत् ।। २३.
तत्र दिव्याम्बरधरा दिव्याभरणभूषिता। दिव्यसन्नहना चैव इडा जज्ञे इति श्रुतिः ।। २३.
तामिलेत्यथ होवाच मनुर्द्दण्डधरः स्मृतः। अनुगच्छामि भद्रन्ते तमिला प्रत्युवाच ह ।। २३.
धर्म्मयुक्तमिदं वाच्यं पुत्रकामं प्रजापतिम्। मित्रावरुणयोरंशे जातास्मि वदतां वर ।। २३.
तयोः सकशं यास्यामि मा नो धर्मो हतोऽवधीत्। सैवमुक्त्वा पुनर्द्देवी तयोरन्तिकमागमत् ।। २३.
गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् । अंशेऽस्मिन्युवयोर्जाता देवौ किं करवाणि च ।। २३.
मनुनैवाहमुक्तास्मि अनुगच्छस्व मामिति। तथा तु वदतीं साध्वीमिडामाश्रित्य तावुभौ ।। २३.
देवौ च मित्रावरुणाविदं वचनमूचतुः । अनेन तव धर्मज्ञे प्रश्रयेण दमेन च ।। २३.
सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि। आवयोस्त्वं महाभागे ख्यातिं कन्या प्रयास्यसि ।। २३.
सुद्युम्न इति विख्यातस्त्रिषु लोकेषु पूजितः। जगत्प्रियो धर्म्मशीलो मनोर्वंश विवर्द्धनः ।। २३.
मानवः स तु सुद्युम्नः स्त्रीभावमगमत् प्रभुः। सा तु देवी वरं लब्ध्वा निवृत्ता पितरं प्रति ।। २३.
बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता। सोमपुत्राद्बुधाच्चास्या ऐलो जज्ञे पुरूरवाः ।। २३.
बुधात् सा जनयित्वा तु सुद्युम्नं पुनरागता। सुद्युम्नस्य च दायादास्त्रयः परमधार्म्मिकाः ।। २३.
उत्कलश्च गयश्चैव विनताश्वस्तथैव च। उत्कलस्योत्कलं राष्ट्रं विनताश्वस्य पश्चिमम् । दिक्षु वातस्य राजर्षेर्गयस्य तु गया पुरी ।। २३.
प्रविसृष्टे मनौ तस्मिन् प्रजाः सृष्ट्वा दिवाकरः। दशधा तद्दधत् क्षेत्रमकरोत् पृथिवीमिमाम् ।। २३.
इक्ष्वाकुरेव दायादानन्यान् दश समाप्नुयात्। कन्याभावात्तु सुद्युम्नो नैनं भागमवाप्नुयात् ।। २३.
वसिष्ठवचनाच्चासीत् प्रतिष्ठानो महाद्युतिः। प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य महात्मनः ।। २३.
तत् पुरूरवसे प्रादाद्राष्ठ्रं प्राप्य महायशाः। मानवेभ्यो महाभागा स्त्रीपुंसोर्लक्षणं प्रति। मानवः स तु सुद्युम्नः स्त्रीभावमगमत् पुनः ।। २३.
एतच्छ्रुत्वा तु ऋषयः पप्रच्छुस्तदनन्तरम् । मानवः स तु सुद्युम्नः स्त्रीभावमगमत् कथम् ।। २३.
सूत उवाच।। प्रोवाच वचनं देवी प्रियहेतोः प्रियं प्रिया । स मे ममाश्रमे देव यः पुमान् संप्रवेक्ष्यति। भविष्यति ध्रुवं नारी सा तुल्याप्सरसां शुभा ।। २३.
तत्र सर्वाणि भूतानि पिशाचाः पशवश्च ये। स्त्रीभूताः सह रुद्रेण क्रीडन्त्यप्सरसो तथा ।। २३.
उमावनं प्रविष्टस्तु स राजा मृगयां गतः। सह पिशाचैर्भूतैस्तु रुद्रैः स्त्रीभावमास्थितः ।। २३.
तस्मात् स राजा सुद्युम्नः स्त्रीभावं लब्धवान् पुनः । महादेवप्रसादाच्च गाणपत्य मवाप्नुयात् ।। २३.
सूत उवाच।। निसर्गं मनु पुत्राणां विस्तरेण निबोधत। पृषध्रो हिसयित्वा तु गुरोर्गावमभक्षयत् ।। २४.
शापाच्छूद्रत्वमापन्नश्च्यवनस्य महात्मनः। करूषस्य तु कारूषः क्षत्रियो युद्धदुर्मदः ।। २४.
सहस्रक्षत्रियगणविक्रान्तः संबभूव ह। नाभागारिष्टपुत्रस्तु विद्वानासीद्भलन्दनः ।। २४.
भलन्दनस्य पुत्रोऽभूत् प्रांशुर्नाम महाबलः। प्रांशोरेकोऽभवत् पुत्रः प्रजानिरिति विश्रुतः ।। २४.
प्रजानेरभवत् पुत्रः खनित्रो नाम वीर्यवान्। तस्य पुत्रोऽभवच्छ्रीमान् क्षुपो नाम महायशाः ।। २४.