रूपं विवर्त्तयेदन्ते आद्यं श्रेष्ठमरिन्दम। रूपं विवस्वतस्त्वासीत्तिर्यगूर्ध्वमधस्तथा ।। २२.
तेनासौ व्रीडितो देवो रूपेण तु दिवस्पतिः। तस्मात्त्वष्टा स चक्रं तु बहुमेने महातपाः ।। २२.
अनुज्ञातस्ततस्त्वष्टा रूपनिर्वर्त्तनाय तु। ततोऽभ्युपगमात्त्वष्टा मार्त्तण्डस्य विवस्वतः ।। २२.
भ्रमिमारोप्य तत्तेजः शातयामास तस्य वै। तत्तु निर्भासितन्तेजस्तेजसापहृतेन तु ।। २२.
कान्तात् कान्ततरं द्रष्टुमशुभं शुशुभे ततः। ददर्श योगमास्थाय स्वाम्भार्यां वडवां तथा ।। २२.
अदृश्यां सर्वभूतानां तेजसा नियमेन च। अश्वरूपेण मार्त्तण्डस्तां मुखे समभावयत् ।। २२.
मैथुनाय विचेष्टन्ती परपुंसोपशङ्कया। सा तन्निरधमच्छुक्रं नासिकाभ्यां विवस्वतः ।। २२.
देवौ तस्मादजायेतामश्विनौ भिषजां वरौ । नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ।। २२.
मार्त्तण्डस्य सुतावेतावष्टमस्य प्रजापतेः। तान्तु रूपेण कान्तेन दर्शयामास भास्करः ।। २२.
सा तं दृष्ट्वात्तदा भार्या तुतोष च मुमोह च। यमस्तु तेन शापेन भृशम्पीडितमानसः ।। २२.
धर्म्मेण रञ्जयामास धर्म्मराजस्ततस्तु सः । सोऽलभत् कर्मणा तेन शुभेन परमद्युतिः ।। २२.
पितॄणामाधिपत्यञ्च लोकपालत्वमेव च। मनुः प्रजापतिश्चैव सावर्णिः स महायशाः ।। २२.
भाव्यसौ नागते तस्मिन् मनुः सावर्णिकेऽन्तरे। मेरुपृष्ठे सुरम्ये वै अद्यापि चरते प्रभुः ।। २२.
भ्राता शनैश्चरस्तत्र ग्रहत्वं स तु लब्धवान्। त्वष्टाऽनु तेन रूपेण विष्णोश्चक्रमकल्पयत्। महाऽप्रतिहतं युद्धे दानव प्रतिवारणे ।। २२.
यवीयसी तयोर्या तु यमुना च यशस्विनी। अभवत् सा सरिच्छ्रेष्ठा यमुना लोकभाविनी ।। २२.
यस्तु ज्येष्ठो महातेजाः सर्गो यस्य तु साम्प्रतम्। विस्तरं तस्य वक्ष्यामि मनोर्वैवस्वतस्य ह ।। २२.
इदं तु जन्म देवानां श्रृणुयाद्वा पठेत वा। वैवस्वतस्य पुत्राणां सप्तानान्तु महौजसाम्। आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः ।। २२.
सूत उवाच।। ततो मन्वन्तरेऽतीते चाक्षुषे दैवतैः सह। वैवस्वताय महते पृथिवीराज्यमादिशत् ।। २३.
तस्य वैवस्वतो वक्ष्ये साम्प्रतस्य महात्मनः। आनुपूर्व्येण वै विप्राः कीर्त्त्यमानं निबोधत ।। २३.
मनोर्वैवस्वतस्येह सर्गमादाय साम्प्रतम् । मनोः प्रथमजस्यासन् नवपुत्रास्तु तत्समाः ।। २३.
इक्ष्वाकुर्नहुषश्चैव धृष्टः शर्यातिरेव च। नरिष्यन्तस्तथा प्रांशु र्नाभागोऽरिष्ट एव च। करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ।। २३.
ब्रह्मणा तु मनुः पूर्वं चोदितस्तु निबोधत। स्रष्टुं प्रचक्रमे कामं निष्फलं समवर्त्तत ।। २३.
अथाकरोत्पुत्रकामः परामिष्टिं प्रजापतिः। मित्रावरुणयोरंशे मनुराहुतिमावपत् ।। २३.
तत्र दिव्याम्बरधरा दिव्याभरणभूषिता। दिव्यसन्नहना चैव इडा जज्ञे इति श्रुतिः ।। २३.
तामिलेत्यथ होवाच मनुर्द्दण्डधरः स्मृतः। अनुगच्छामि भद्रन्ते तमिला प्रत्युवाच ह ।। २३.
धर्म्मयुक्तमिदं वाच्यं पुत्रकामं प्रजापतिम्। मित्रावरुणयोरंशे जातास्मि वदतां वर ।। २३.
तयोः सकशं यास्यामि मा नो धर्मो हतोऽवधीत्। सैवमुक्त्वा पुनर्द्देवी तयोरन्तिकमागमत् ।। २३.
गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् । अंशेऽस्मिन्युवयोर्जाता देवौ किं करवाणि च ।। २३.
मनुनैवाहमुक्तास्मि अनुगच्छस्व मामिति। तथा तु वदतीं साध्वीमिडामाश्रित्य तावुभौ ।। २३.
देवौ च मित्रावरुणाविदं वचनमूचतुः । अनेन तव धर्मज्ञे प्रश्रयेण दमेन च ।। २३.