वदस्व किं मया कार्यं सा संज्ञा तामथाब्रवीत्। अहं यास्यामि भद्रन्ते स्वमेव भवनं पितुः ।। २२.
त्वयेह भवने मह्यं वस्तव्यं निर्विशङ्कया। इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ।। २२.
भर्त्रे वै नैवमाख्येयमिदं भगवते त्वया। एवमुक्ताब्रवीत् संज्ञां संज्ञायाः पार्थिवी तु सा ।। २२.
आकाशग्रहणाद्देवि आशयं नैव कर्हिचित्। आख्यास्यामि मतं तुभ्यं गच्छ देवि स्वमालयम् ।। २२.
समाधाय च तां संज्ञा तथेत्युक्ता तया च सा। त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी ।। २२.
पिता तामागतां दृष्ट्वा क्रुद्धः संज्ञामथाब्रवीत्। भर्तुः समीपं गच्छ त्वं मा जुगुप्स दिवाकरम् ।। २२.
सैवमुक्ता तदा पित्रा नियुक्ता च पुनः पुनः। वर्षाणान्तु सहस्रं वै वसति स्म पितुर्गृहे ।। २२.
भर्तुः समीपं गच्छ त्वं नियुक्ता च पुनः पुनः। अगमद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता। उत्तरान् सा कुरून् गत्वा तृणान्यथ चचार सा ।। २२.
द्वितीयायान्तु संज्ञायां संज्ञेयमिति चिन्त्यताम्। आदित्यो जनयामास पुत्रावादित्यवर्चसौ ।। २२.
पूर्वजस्य मनोस्तुल्यौ सादृश्येन तु तौ प्रभू । श्रुतश्रवं तु धर्म्मज्ञं श्रुतकर्म्माणमेव च ।। २२.
श्रुतश्रवा मनुः सोऽपि सावर्णिर्वैभविष्यति। श्रुतकर्म्मा तु विज्ञेयो ग्रहो वै यः शनैश्चरः ।। २२.
मनुरेवाभवत्सो वै सावर्ण्य इति बुध्यते। संज्ञा तु पार्थिवी सा वै स्वस्य पुत्रस्य वै तदा ।। २२.
चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै। मनुस्तच्चाक्षमत्सर्वं यमस्तद्वै न चाक्षमत् ।। २२.
बहुशो यस्यमानस्तु सापत्न्यादतिदुःखितः। तां वै रोषाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् ।। २२.
पदा सन्तर्जयामास संज्ञां चैव स्वतो यमः। सा शशाव ततः क्रोधात् सवर्णा जननी यमम् ।। २२.
पदा तर्जयसे यस्मात् पितृभार्यां यशस्विनीम्। तस्मात्तवैष चरणः पतिष्यति न संशयः ।। २२.
यमस्तु तेन शापेन भृशं पीडितमानसः। मनुना सह धर्म्मात्मा पितुः सर्व्वं न्यवेदयत् ।। २२.
भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विनिर्जितः। बाल्याद्वा यदि वा मोहान्मां भवांस्त्रातुमर्हति ।। २२.
शप्तोऽहमस्मिँल्लोकेश जनन्या तपतां वर। तव प्रसादो नस्त्रातुं ह्येतस्मान्महतो भयात् ।। २२.
विवस्वानेवमुक्तस्तु यमं प्रोवाच वै प्रभुः। असंशयं पुत्र महद्भविष्यं तत्र कारणम् ।। २२.
येन त्वामाविशत्क्रोधो धर्म्मज्ञं सत्यवादिनम्। न शक्यमेतन्मिथ्या तु कर्त्तुं मातुर्वचस्तव ।। २२.
कृमयो मांसमादाय यास्यन्ति तु महीं तव। ततः पादं महाप्राज्ञ पुनः संप्राप्स्यसे सुखम् ।। २२.
कृतमेवं वचः सत्यं मातुस्तव भविष्यति। शापस्य परिहारेण त्वं च त्राता भविष्यसि ।। २२.
आदित्यस्त्वब्रवीत् संज्ञां किमर्थं तनयेषु वै। तुल्येष्वप्यधिकः स्नेह एकस्मिन् क्रियते त्वया ।। २२.
सा तत्परिहरन्ती वै नाचचक्षे विवस्वतः। आत्मना स समाधाय योगन्तथ्यमपश्यत ।। २२.
तां शप्तुकामो भगवान् नाशाय कुपितः प्रभुः । सा तत्सर्वं यथातत्त्वमाचचक्षे विवस्वतः ।। २२.
विवस्वानथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्ययात्। त्वष्टा तु तं यथान्यायमर्चयित्वा विभावसुम् ।। २२.
निर्द्दग्धुकामं रोषेण सान्त्वयामास वै शनैः। तवातितेजसा युक्तमिदं रूपं न शोभते ।। २२.
असहन्ती तु तत् संज्ञा वने चरति शाद्वले। द्रक्ष्यते तां भवानद्य स्वां भार्यां शुभचारिणीम् ।। २२.
श्लाघ्यां यौवनसम्पन्नां योगमास्थाय गोपते। अनुकूलं भवेदेवं यदि स्यात् समयो मतः ।। २२.