अशिरस्कस्तयोर्विघ्नो नाकश्चैवाशरीरवान्। सद्रमश्चैक हस्तोऽभूद्विधमश्चैकपात्स्मृतः ।। २२.
सद्रमस्य तथा पत्नी तामसी पूतना स्मृता । रेवती विधमस्यापि तयोः पुत्राः सहस्रशः ।। २२.
नाकस्य शकुनिः पत्नी विघ्नस्य च अयोमुखी। राक्षसास्तु महाशीर्षाः सन्ध्याद्वयविचारिणः ।। २२.
रेवतीपूतनापुत्रा नैऋता नामतः स्मृताः। ग्रहास्ते राक्षसाः सर्वे बालानान्तु विशेषतः। स्कन्दस्तेषामधिपतिर्ब्रह्मणोऽनुमते प्रभुः ।। २२.
बृहस्पतेर्या भगिनी वरस्त्री ब्रह्मचारिणी। योगसिद्धा जगत्कृत्स्नमसक्ता चरते सदा ।। २२.
प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु। विश्वकर्मा सुतस्तस्या जातः शिल्पिप्रजापतिः ।। २२.
त्वष्टा विराजो रूपाणां धर्म्मपौत्र उदारधीः। कर्त्ता शिल्पसहस्राणां त्रिदशानाञ्च वास्तुकृत् ।। २२.
यः सर्वेषां विमानानि देवतानाञ्चकार ह। मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः ।। २२.
प्रह्लादी विश्रुता तस्य त्वष्टुः पत्नी विरोचना। विरोचनस्य भगिनी माता त्रिशिरसस्तु सा ।। २२.
देवाचार्यस्य महतो विश्वकर्मस्य धीमतः। विश्वकर्मात्मजश्चैव विश्वकर्ममयः स्मृतः ।। २२.
सुरेणुरिति विख्याता स्वसा तस्य यवीयसी। त्वाष्ट्री सा सवितुर्भार्य्या पुनः संज्ञेति विश्रुता ।। २२.
असूत तपसा सा तु मनुं ज्येष्ठं विवस्वतः। यमौ पुनरसूतासौ यमञ्च यमुनाञ्च ह ।। २२.
सा तु गत्वा कुरून् देवी वडवारूपधारिणी। सवितुश्चाश्वरूपस्य नासिकाभ्यां तु तौ स्मृतौ ।। २२.
असूत सा महाभागा त्वन्तरिक्षेऽश्विनौ किल। नासत्यञ्चैव दस्रञ्च मार्त्तण्डस्यात्मजावुभौ ।। २२.
ऋषय ऊचुः।। कस्मान्मार्त्तण्ड इत्येष विवस्वानुच्यते बुधैः। किमर्थं साऽश्वरूपा वै नासिकाभ्यामसूयत। एतद्वेदितुमिच्छामस्तत्त्वं विब्रूहि पृच्छताम् ।। २२.
सूत उवाच।। चिरोत्पन्नमतिर्भिन्नमण्डं त्वष्ट्रा विदारितम्। दृष्ट्वा गर्भवधाद्भीतः कश्यपो दुःशितोऽभवत् ।। २२.
अण्डे द्विधाकृते त्वण्डं दृष्ट्वा त्वष्टारमब्रवीत्। नैतदण्डं भवान्नूनं मार्त्तण्डस्त्वं भवानघ ।। २२.
न खल्वयं मृतोऽण्डे च इति स्नेहात् पिताऽब्रवीत्। तस्य तद्वचनं श्रुत्वा नामान्वर्थमुदाहरत् ।। २२.
यन्मार्त्तण्डो भवेत्युक्तः पित्राऽण्डे वै द्विधा कृते। तस्माद्विवस्वान्मार्त्तण्डः पुराणज्ञैर्विभाष्यते ।। २२.
ततः प्रजाः प्रवक्ष्यामि मार्त्तण्डस्य विवस्वतः। विजज्ञे सवितुः संज्ञाभार्यायान्तु त्रयं पुरा ।। २२.
मनुर्यवीयान् सावर्णिः संज्ञायाञ्च तथाश्विनौ। शनैश्चरश्च सप्तैते मार्त्तण्डस्यात्मजाः स्मृताः ।। २२.
विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यां महायशाः। तस्य भार्याऽभवत्त्वाष्ट्री महादेवी विवस्वतः। सुरेणुरिति विख्याता पुनः संज्ञेति विश्रुता ।। २२.
सा तु भार्या भगवतो मार्त्तण्डस्यातितेजसः। नातुष्यद्भर्तृरूपेण रूपयौवनशालिनी ।। २२.
आदित्यस्य हि तद्रूपं मार्त्तण्डस्य हि तेजसा। गोत्रेषु प्रतिरुद्धं वै नाति कान्तमिवाभवत् ।। २२.
न खल्वयं मृतो ह्यण्डे इति स्नेहात्तमब्रवीत् । अज्ञानः कश्यपः स्नेहान्मार्त्तण्ड इति चोच्यते ।। २२.
तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः। येनापि तापयामास त्रील्लोँकान् कश्यपात्मजः ।। २२.
त्रीण्यपत्यानि संज्ञायां जनयामास वै रविः । द्वौ सुतौ तु महावीर्यौ कन्यां कालिन्दिमेव च ।। २२.
मनुर्विवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः। ततो यमो यमी चैव यमजौ संबभूवतुः ।। २२.
शान्तवर्णन्तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः। असहन्ती स्वकां जायां सवर्णां निर्ममे पुनः ।। २२.
महीमयी तु सा नारी तस्याश्छायासमुद्गता। प्राञ्जलिः प्रयता भूत्वा पुनः संज्ञामभाषत ।। २२.