मान गोत्रं च मन्त्रश्च दत्तमन्नं नयन्ति तम्। अपि योनिशतं प्राप्तां स्तृप्तिस्ताननुगच्छति ।। २१.
एवमेषा स्थिता संस्था ब्रह्मणा परमेष्ठिना । पितॄणामादिसर्गस्तु लोकानामक्षयार्थिनाम् ।। २१.
इत्येते पितरो देवा देवाश्च पितरः पुनः। दौहित्रा यजमानाश्च प्रोक्ताश्चैव मयाऽनघाः ।। २१.
लोका दुहितरश्चैव दौहित्राश्च सुतास्तथा। दानानि सह शौचेन तीर्थानि च फलानि च ।। २१.
अक्षयत्वं द्विजाश्चैव यायावरविधिस्तथा । प्रोक्तं सर्वं यथान्यायं यथा ब्रह्माऽब्रवीत् पुरा ।। २१.
बृहस्पतिरुवाच।। इत्येतदङ्गिराः प्राह ऋषीणां श्रृण्वतां तदा। पृष्टस्तु संशयं सर्वं पितॄणां प्राह संसदि ।। २१.
सत्रे वै वितते पूर्वं तदा वर्षसहस्रिके । यस्मिन् गृहपतिर्ह्यासीद्ब्रह्मा वै देवता प्रभुः ।। २१.
संवत्सरशतान्यं च तत्रोपेता इति श्रुतिः। श्लोकाश्चात्र पुरा गीता ऋषिभिर्ब्रह्मवादिभिः ।। २१.
दीक्षितस्य तदा सत्रे ब्रह्मणः परमात्मनः। तत्रैव जातमत्युग्रं पितॄणामक्षयार्थिना। लोकानां च हितार्थाय ब्रह्मणा परमेष्टिना ।। २१.
सूत उवाच।। एवं बृहस्पतिः पूर्वं पृष्टः पुत्र्त्रेण धीमता। प्रोवाच पितृवंशन्तु यत्तद्वैसमुदाहृतम् । अत ऊर्द्ध्वं प्रवक्ष्यामि वरुणस्य निबोधत ।। २१.
ऋषयश्चैवमुक्तास्तु परं हर्षमुपागताः। परं शुश्रूषवो भूयः पप्रच्छुस्तदनन्तरम् ।। २२.
ऋषय ऊचुः ।। वंशानामानुपूर्व्येण राज्ञाञ्चामिततेजसाम्। स्थितिञ्चैषां प्रभावञ्च ब्रूहि नः परिपृच्छताम् ।। २२.
एवमुक्तस्ततः सूतस्तथाऽसौ लोमहर्षणः। शुश्रूषामुत्तराख्याने ऋषीणां वाक्यकोविदः ।। २२.
आख्यानकुशलो भूयः परं वाक्यमुवाच ह । ब्रुवतो मे निबोधस्व ऋषिराह यथा मम ।। २२.
वंशानामानुपूर्व्येण राज्ञाञ्चामिततेजसाम्। स्थितिं चैषां प्रभावञ्च ब्रुवतो मे निबेधत ।। २२.
वरुणस्य पत्नी सामुद्री शुनोदेवीत्युदाहृता । तस्याः पुत्रौ कलिर्वैद्यः सुता च सुरसुन्दरी ।। २२.
कलि पुत्रौ महावीर्यौ जयश्च विजयश्च ह। वैद्यपुत्रौ घृणिश्चैव मुनिश्चैव महाबलौ ।। २२.
प्रजानामत्तुकामानामन्योन्यस्य प्रभक्षिणौ। भक्षयित्वा तावन्योन्यं विनाशं समवापतुः ।। २२.
कलिः सुरायां सञ्जज्ञे तस्य पुत्रो मदः स्मृतः । त्वाष्ट्री हिंसा कलेर्भार्य्या ज्येष्ठा या निकृतिः स्मृता ।। २२.
असूतान्यान् कलेः पुत्रांश्चतुरः पुरुषादकान्। नाकं विघ्नं च विख्यातं सद्रमं विधमन्तथा ।। २२.
अशिरस्कस्तयोर्विघ्नो नाकश्चैवाशरीरवान्। सद्रमश्चैक हस्तोऽभूद्विधमश्चैकपात्स्मृतः ।। २२.
सद्रमस्य तथा पत्नी तामसी पूतना स्मृता । रेवती विधमस्यापि तयोः पुत्राः सहस्रशः ।। २२.
नाकस्य शकुनिः पत्नी विघ्नस्य च अयोमुखी। राक्षसास्तु महाशीर्षाः सन्ध्याद्वयविचारिणः ।। २२.
रेवतीपूतनापुत्रा नैऋता नामतः स्मृताः। ग्रहास्ते राक्षसाः सर्वे बालानान्तु विशेषतः। स्कन्दस्तेषामधिपतिर्ब्रह्मणोऽनुमते प्रभुः ।। २२.
बृहस्पतेर्या भगिनी वरस्त्री ब्रह्मचारिणी। योगसिद्धा जगत्कृत्स्नमसक्ता चरते सदा ।। २२.
प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु। विश्वकर्मा सुतस्तस्या जातः शिल्पिप्रजापतिः ।। २२.
त्वष्टा विराजो रूपाणां धर्म्मपौत्र उदारधीः। कर्त्ता शिल्पसहस्राणां त्रिदशानाञ्च वास्तुकृत् ।। २२.
यः सर्वेषां विमानानि देवतानाञ्चकार ह। मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः ।। २२.
प्रह्लादी विश्रुता तस्य त्वष्टुः पत्नी विरोचना। विरोचनस्य भगिनी माता त्रिशिरसस्तु सा ।। २२.
देवाचार्यस्य महतो विश्वकर्मस्य धीमतः। विश्वकर्मात्मजश्चैव विश्वकर्ममयः स्मृतः ।। २२.