वेद्यं च वेदितव्यं च विदित्वा वै यथाविधि। एवं वेदविदं प्राहुस्ततोऽन्ये वेदचिन्तकाः ।। २१.
यज्ञान् वेदांस्तथा कामाञ्ज्ञानानि विविधानि च। प्राप्नोत्यायुः प्रजाश्चैव पितृभक्तो धनानि च ।। २१.
श्राद्धे यः श्राद्धकल्पं वै पश्चिमं नियतं पठेत्। सर्वाप्येतान्यवाप्नोति तीर्थे दानफलानि च ।। २१.
स पङ्क्तिपावनश्चैव द्विजानामग्रभुग् भवेत्। अध्याप्य वा द्विजान् सर्वान् सर्वान् कामानवाप्नुयात् ।। २१.
यश्चैव श्रृणुयान्नित्यमानन्त्यं स्वर्गमश्नुते। अनसूयो जितक्रोधो लोभमोहविवर्जितः ।। २१.
तीर्थानां च फलं कृत्स्नं दानादीनां तथैव च। मोक्षोपायो ह्ययं श्रेष्ठः स्वर्गोपायो ह्ययं परः । इह चापि परा तुष्टिस्तस्मात्कुर्वीत यत्नतः ।। २१.
इमं विधिं यो हि पठेदतन्द्रितः समाहितः संसदि पर्वसन्धिषु । अपत्यभाग्भवति परेण तेजसा दिवौ कसां स व्रजते सलोकताम् ।। २१.
येन प्रोक्तस्त्वयं कल्पो नमस्तस्मै स्वयम्भुवे। महायोगेश्वरेभ्यश्च सदा च प्रणतो ह्यहम् ।। २१.
इत्येतेपितर स्तात देवानामपि देवताः। सप्तस्वेतेषु ते नित्यं स्थानेषु पितरोऽव्यथाः ।। २१.
प्रजापतिसुता ह्येते सर्वे चैव महात्मनः। आद्यो गणस्तु योगानां स नित्यो योगवर्द्धनः ।। २१.
द्वितीयो देवतानां तु तृतीयो देवताऽरिणाम्। शेषास्तु वर्णिनां ज्ञेया इति सर्वे प्रकीर्तिताः ।। २१.
देवास्त्वेतान् यजन्ते वै सर्वेष्वेतेष्ववस्थिताः। आश्रमास्तु यजन्त्येतांश्चत्वारस्तु यथाक्रमम् ।। २१.
वर्णाश्चापि यजन्त्येतांश्चत्वारस्तु यथाविधि। तथा सङ्करजाताश्च म्लेच्छाश्चैव यजन्ति वै ।। २१.
पितॄंश्च यो यजेद्भक्त्या पितरः पूजयन्ति तम्। पितरः पुष्ठिकामस्य प्रजाकामस्य वा पुनः। पुष्ठिं प्रजाश्च स्वर्गं च प्रयच्छन्ति पितामहाः ।। २१.
देवकार्यादपि सूनोः पितृकार्यं विशिष्यते। देवतानां हि पितरः पूर्वमाप्यायनं स्वयम् ।। २१.
न हि योगगतिः सूक्ष्मा पितॄणां च परा गतिः। तपसा विप्रकृष्टेन दृश्यते मांसचक्षुषा ।। २१.
सर्वेषां राजतं पात्रमथवा रजतान्वितम्। पावनं ह्युत्तमं प्रोक्तं देवानां पितृभिः सह ।। २१.
येषां दास्यन्ति पिण्डांस्त्रीन् बान्धवा नामगोत्रतः। भूमौ कुशोत्तरायाञ्च अपसव्यविधानतः ।। २१.
सर्वत्र वर्त्तमानास्ते पिण्डाः प्रीणन्ति वै पितॄन्। यदाहारो भवेज्जन्तुराहारः सोऽस्य जायते ।। २१.
यथा गोष्ठे प्रनष्टां वै वत्सो विन्दति मातरम् । तथा तं नयते मन्त्रो जन्तुर्यत्रावतिष्ठते ।। २१.
मान गोत्रं च मन्त्रश्च दत्तमन्नं नयन्ति तम्। अपि योनिशतं प्राप्तां स्तृप्तिस्ताननुगच्छति ।। २१.
एवमेषा स्थिता संस्था ब्रह्मणा परमेष्ठिना । पितॄणामादिसर्गस्तु लोकानामक्षयार्थिनाम् ।। २१.
इत्येते पितरो देवा देवाश्च पितरः पुनः। दौहित्रा यजमानाश्च प्रोक्ताश्चैव मयाऽनघाः ।। २१.
लोका दुहितरश्चैव दौहित्राश्च सुतास्तथा। दानानि सह शौचेन तीर्थानि च फलानि च ।। २१.
अक्षयत्वं द्विजाश्चैव यायावरविधिस्तथा । प्रोक्तं सर्वं यथान्यायं यथा ब्रह्माऽब्रवीत् पुरा ।। २१.
बृहस्पतिरुवाच।। इत्येतदङ्गिराः प्राह ऋषीणां श्रृण्वतां तदा। पृष्टस्तु संशयं सर्वं पितॄणां प्राह संसदि ।। २१.
सत्रे वै वितते पूर्वं तदा वर्षसहस्रिके । यस्मिन् गृहपतिर्ह्यासीद्ब्रह्मा वै देवता प्रभुः ।। २१.
संवत्सरशतान्यं च तत्रोपेता इति श्रुतिः। श्लोकाश्चात्र पुरा गीता ऋषिभिर्ब्रह्मवादिभिः ।। २१.
दीक्षितस्य तदा सत्रे ब्रह्मणः परमात्मनः। तत्रैव जातमत्युग्रं पितॄणामक्षयार्थिना। लोकानां च हितार्थाय ब्रह्मणा परमेष्टिना ।। २१.
सूत उवाच।। एवं बृहस्पतिः पूर्वं पृष्टः पुत्र्त्रेण धीमता। प्रोवाच पितृवंशन्तु यत्तद्वैसमुदाहृतम् । अत ऊर्द्ध्वं प्रवक्ष्यामि वरुणस्य निबोधत ।। २१.