सीदन्ति ते सागरे लोष्टभूता योगद्विषः स्थास्यन्ते यावदुर्व्वी । तस्माच्छ्राद्धे धर्म्म उद्दिष्ट एष नित्यं कार्यः श्रद्दधानेन पुंसा ।। २१.
परिवादो न कर्त्तव्यो योगिनां च विशेषतः। परिवादात् कृमिर्भूत्वा तत्रैव परिवर्त्तते ।। २१.
योगं परिवदेद्यस्तु ध्यानिनां मोक्षकारणम्। स गच्छेन्नरकं घोरं श्रोता यश्च न संशयः ।। २१.
आवृतं तमसा सर्वं नरकं घोरदर्शनम्। योगीश्वरपरी वादान्निश्चयं याति मानवः ।। २१.
योगेश्वराणामाक्रोशं श्रृणुयाद्यो यतात्मनाम्। स हि कालं चिरं मज्जेत् कुम्भीपाके न संशयः ।। २१.
मनसा कर्मणा वाचा द्वेषं योगिषु वर्ज्जयेत्। प्रेत्यान्यं तत्फलं भुङ्क्ते इह चैव न संशयः ।। २१.
न पारगो विन्दति पारमात्मनस्त्रिलोकमध्ये चरति स्वकर्मभिः। ऋचो यजुःसामतदङ्गपारगो विकारमेव ह्यनवाप्य सीदति ।। २१.
विकारपारः प्रकृतेश्च पारगस्त्रयी गुणानां त्रिगुणान्तपारगा। तत्त्वञ्चतुर्विंशतियो गपारगं स पारगो यस्त्वयनान्तपारगः ।। २१.
कृत्स्नं यथा तत्त्वविसर्गमात्मनस्तथैव भूयः प्रलयं सदात्मनः। प्रत्याहरेद्योगबलेन योगवित् स सर्वपारक्रमयानगोचरः ।। २१.
वेदस्य वेदिता यो वै वेद्यं विन्दति योगवित्। तं वै वेदविदं प्राहुस्तं प्राहुर्वेदपारगम् ।। २१.
वेद्यं च वेदितव्यं च विदित्वा वै यथाविधि। एवं वेदविदं प्राहुस्ततोऽन्ये वेदचिन्तकाः ।। २१.
यज्ञान् वेदांस्तथा कामाञ्ज्ञानानि विविधानि च। प्राप्नोत्यायुः प्रजाश्चैव पितृभक्तो धनानि च ।। २१.
श्राद्धे यः श्राद्धकल्पं वै पश्चिमं नियतं पठेत्। सर्वाप्येतान्यवाप्नोति तीर्थे दानफलानि च ।। २१.
स पङ्क्तिपावनश्चैव द्विजानामग्रभुग् भवेत्। अध्याप्य वा द्विजान् सर्वान् सर्वान् कामानवाप्नुयात् ।। २१.
यश्चैव श्रृणुयान्नित्यमानन्त्यं स्वर्गमश्नुते। अनसूयो जितक्रोधो लोभमोहविवर्जितः ।। २१.
तीर्थानां च फलं कृत्स्नं दानादीनां तथैव च। मोक्षोपायो ह्ययं श्रेष्ठः स्वर्गोपायो ह्ययं परः । इह चापि परा तुष्टिस्तस्मात्कुर्वीत यत्नतः ।। २१.
इमं विधिं यो हि पठेदतन्द्रितः समाहितः संसदि पर्वसन्धिषु । अपत्यभाग्भवति परेण तेजसा दिवौ कसां स व्रजते सलोकताम् ।। २१.
येन प्रोक्तस्त्वयं कल्पो नमस्तस्मै स्वयम्भुवे। महायोगेश्वरेभ्यश्च सदा च प्रणतो ह्यहम् ।। २१.
इत्येतेपितर स्तात देवानामपि देवताः। सप्तस्वेतेषु ते नित्यं स्थानेषु पितरोऽव्यथाः ।। २१.
प्रजापतिसुता ह्येते सर्वे चैव महात्मनः। आद्यो गणस्तु योगानां स नित्यो योगवर्द्धनः ।। २१.
द्वितीयो देवतानां तु तृतीयो देवताऽरिणाम्। शेषास्तु वर्णिनां ज्ञेया इति सर्वे प्रकीर्तिताः ।। २१.
देवास्त्वेतान् यजन्ते वै सर्वेष्वेतेष्ववस्थिताः। आश्रमास्तु यजन्त्येतांश्चत्वारस्तु यथाक्रमम् ।। २१.
वर्णाश्चापि यजन्त्येतांश्चत्वारस्तु यथाविधि। तथा सङ्करजाताश्च म्लेच्छाश्चैव यजन्ति वै ।। २१.
पितॄंश्च यो यजेद्भक्त्या पितरः पूजयन्ति तम्। पितरः पुष्ठिकामस्य प्रजाकामस्य वा पुनः। पुष्ठिं प्रजाश्च स्वर्गं च प्रयच्छन्ति पितामहाः ।। २१.
देवकार्यादपि सूनोः पितृकार्यं विशिष्यते। देवतानां हि पितरः पूर्वमाप्यायनं स्वयम् ।। २१.
न हि योगगतिः सूक्ष्मा पितॄणां च परा गतिः। तपसा विप्रकृष्टेन दृश्यते मांसचक्षुषा ।। २१.
सर्वेषां राजतं पात्रमथवा रजतान्वितम्। पावनं ह्युत्तमं प्रोक्तं देवानां पितृभिः सह ।। २१.
येषां दास्यन्ति पिण्डांस्त्रीन् बान्धवा नामगोत्रतः। भूमौ कुशोत्तरायाञ्च अपसव्यविधानतः ।। २१.
सर्वत्र वर्त्तमानास्ते पिण्डाः प्रीणन्ति वै पितॄन्। यदाहारो भवेज्जन्तुराहारः सोऽस्य जायते ।। २१.
यथा गोष्ठे प्रनष्टां वै वत्सो विन्दति मातरम् । तथा तं नयते मन्त्रो जन्तुर्यत्रावतिष्ठते ।। २१.