प्रथमः सर्वधर्माणां योगधर्मो निगद्यते । अपाङ्क्तेयांस्तु वक्ष्यामि गदतो मे निबोधत ।। २१.
कितवो मद्यपो यक्ष्मी पशुपालो निराकृतिः। ग्रामप्रेष्यो वार्द्धुषिको गायनो वणिजस्तथा ।। २१.
अगारदाही गरदः कुण्डाशी सोमविक्रयी। समुद्रयायी दुश्चर्मा तैलिकः कूटकारकः ।। २१.
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे। अभिशस्तस्तथा स्तेनः शिल्पैर्यश्चोपजीवति ।। २१.
सूजकः पर्वकारी च यस्तु मित्रेषु द्रुह्यति। गणयाचनकश्चैव नास्तिको वेदवर्जितः ।। २१.
उन्मत्तः षण्डकशठौ भ्रूणहा गुरुतल्पगः । भिषक्जीवः प्रैषणिकः परस्त्रीं यश्च गच्छति ।। २१.
विक्रीणाति च यो ब्रह्म व्रतानि च तपांसि च। नष्टं स्यान्नास्तिके दत्तं कृतघ्ने चैव शंसके ।। २१.
यच्च वाणिजके चैव नेह नामुत्र तद्भवेत्। निक्षेपहारिणे चैव कितवे वेदनिन्दके ।। २१.
तथा वाणिजके चैव कारुके धर्म्मवर्जिते। निन्दन् क्रीणाति पण्यानि विक्रीणंश्च प्रशंसति ।। २१.
अनृतस्य समावासो न वणिक् श्राद्धमर्हति। भस्म नीव हुतं हव्यं दत्तं पौनर्भवे द्विजे ।। २१.
षष्टिं काणः शतं षण्डः श्वित्री यावत् प्रपश्यति। पापरोगी सहस्रस्य दातुर्नाशयते फलम् ।। २१.
भ्रश्यते सत्फलात्तस्माद्दाता यस्य तु बालिशः। यो वेष्टितशिरा भुङ्क्ते यो भुङ्क्ते दक्षिणामुखः ।। २१.
सोपानत्कश्च यो भुङ्क्ते यच्च दद्यात्तिरस्कृतम् । सर्वं तदसुरेन्द्राणां ब्रह्मा भागमकल्पयत् ।। २१.
श्वानश्च यातुधानाश्च नावेक्षेरन् कथञ्चन। तस्मात्परिवृतिं दद्यात्तिलैश्चान्ववकीरयन् ।। २१.
राक्षसानां तिलाः प्रोक्ताः शुनां परिवृतिस्तथा। दर्शनात्सूकरो हन्ति पक्षपातेन कुक्कुटः ।। २१.
रजस्वलानुस्पर्शेन क्रुद्धो यश्च प्रयच्छति। यस्य मित्रप्रदे यानि श्राद्धानि च हवींषि च। न प्रीणाति पितॄन् देवान् स्वर्गं न च स गच्छति ।। २१.
नदीतीरेषु रम्येषु सरित्सु च सरस्सु च। विविक्तेषु च प्रीयन्ते दत्तेनेह पितामहाः ।। २१.
न चाश्रुं पातयेज्जातु न युक्तो वाचमीरयेत्। न च कुर्वीत भुञ्जानो ह्यन्योऽन्यं मत्सरस्तदा ।। २१.
अपसव्ये कृते तेन विधिवद्दर्भपाणिना । पित्र्यमानिधनं कार्यमेवं प्रीणाति वै पितॄन् ।। २१.
अनुमत्यादितो विप्रानग्नौ कुर्याद्यथाविधि। पितॄणां निर्व्वपेद्भूमौ शूर्पे वा दर्भसंस्तरे ।। २१.
शुक्लपक्षस्य पूर्व्वाह्ने श्राद्धं कुर्याद्विचक्षणः। कृष्णपक्षेऽपराह्ने तु रौहिणं न विलङ्घयेत् ।। २१.
एवमेते महात्मानो महा योगा महौजसः। सदा वै पितरः पूज्या द्रष्टारो देशकालयोः ।। २१.
पितृभक्तिरतो नित्यं योगं प्राप्नोत्यनुत्तमम्। ध्यानेन मोक्षं गच्छन्ति हित्वा कर्म शुभाशुभम् ।। २१.
यज्ञहेतोर्यदुद्धृत्य मोहयित्वा जगत्तदा। गुहायां निहतं योगं कश्यपेन महात्मना ।। २१.
अमृतं गुह्यमृद्धृत्य योगं योगविदां वर। प्रोक्तं सनत्कुमारेण महत्तद्धर्म्मशाश्वतम् ।। २१.
देवानां परमं गुह्यमृषीणां च परायणम्। पितृभक्त्या प्रयत्नेन पितृभक्तैश्च नित्यशः ।। २१.
तञ्च योगं समासेन पितृभक्तस्तु कृत्स्नशः। प्रयत्नात्प्राप्नुयात्तत्र सर्वमेव न संशयः ।। २१.
यस्मै श्राद्धानि देयानि यच्च दत्तं महाफलम्। येषु वाप्यक्षयं श्राद्धं तीर्थषु च नदीषु च । येषु च स्वर्गमाप्नोति तत्ते प्रोक्तं ससंग्रहम् ।। २१.
बृहस्पतिरुवाच।। श्रुत्वैवं श्राद्धकल्पं तु योऽसूयां कुरुते नरः। स मज्जेन्नरके घोरे नास्तिकस्तमसावृतः ।। २१.
महारोगावसायस्तु स यः संयतमानसः। वेदाश्रमान्मुक्तचित्तः कुम्भीका नधिगच्छति। जिह्वाच्छेदं स्तेनमेत्य प्राप्नुयुस्तेन चैव ह ।। २१.