शंयुरुवाच।। किञ्चिद्दत्तं पितॄणां तु धिनोति वदतां वर । किं हि स्विच्चिररात्राय किञ्चानन्त्याय कल्पते ।। २१.
बृहस्पतिरुवाच। हवींषि श्राद्धकाले तु यानि श्राद्धविदो विदुः। तानि मे श्रृणु सर्वाणि फलं चैषां यथाबलम् ।। २१.
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन च। दत्तेन मासं प्रीयन्ते श्राद्धेन तु पितामहाः ।। २१.
मत्स्यैः प्रीणन्ति द्वौ मासौ त्रीन्मासान्हारिणेन तु। शाशन्तु चतुरो मासान् पञ्च प्रीणाति शाकुनम् ।। २१ .
वाराहेण तु षण्मासाञ्छागलं साप्तमासिकम्। अष्टमासिकमित्युक्तं यच्च पार्षतकं भवेत् ।। २१.
रौरवेण तु प्रीयन्ते नवमासान् पितामहाः। गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ।। २१.
कूर्मस्य चैव मांसेन मासानेकादशैव तु । श्राद्धमेव विजानीयाद्गव्यं संवत्सरं भवेत् ।। २१.
तथा गव्यसमायुक्तं पायसं मधुसर्पिषा। वध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ।। २१.
आनन्त्याय भवेद्युक्तं खाड्गमांसैः पितृक्षये। कृष्णच्छागस्तथा गोधा आनन्त्यायैव कल्पते ।। २१.
अत्र गाथाः पितृगीताः कीर्त्तयन्ति पुराविदः। तास्तेऽहं संप्रवक्ष्यामि यथावत्सन्निबोधत ।। २१.
अपि नः स्वकुले जायाद्योऽन्नं दद्यात्र्त्रयोदशीम्। पायसं मधुसर्पिर्भ्यां छायायां कुञ्जरस्य तु ।। २१.
आजेन सर्वलोहेन वर्षासु च मघासु च। एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्। गौरीं वाप्युद्वहेद्भार्य्यां नीलं वा वृषमुत्सृजेत् ।। २१.
शंयुरुवाच।। गयादीनां फलं तात प्रब्रूहि समपृच्छतः। पितॄणां चैव यत्पुण्यं निखिलेन ब्रवीहि मे ।। २१.
बृहस्पतिरुवाच।। गयायामक्षयं श्राद्धं जपहोमतपांसि च। पितृङयाहे ते पुत्र तस्मात्तत्राक्षयं स्मृतम् ।। २१.
पुनीयादेकविंशन्तु गौर्यामुत्पादितः सुतः। मातामहांस्तु षड्भूय इति तस्याः फलं स्मृतम् ।। २१.
फलं वृषस्य वक्ष्यामि गदतो मे निबोधत। वृषोत्स्रष्टा पुनात्येव दशातीतान् दशावरान् ।। २१.
यत्किञ्चित् स्पृश्यते तोयैरुत्तीर्णेन जलान्महीम्। वृषोत्सर्गे पितॄणां तु ह्यक्षयं स मुदाहृतम् ।। २१.
यद्यद्धि संस्पृशेत्तोयं लांगूलादिभिरन्ततः। सर्वं तदक्षयं तस्य पितॄणां नात्र संशयः ।। २१.
श्रृङ्गैः खुरैर्वा यद्भूमिमिल्लिखत्य निशं वृषः। मधुकुल्याः पितॄंस्तस्य अक्षयास्ता भवन्ति वै ।। २१.
सहस्रनल्वमात्रेण तडागेन यथा श्रुतिः। तृप्तिस्तृप्तिः पितॄणां वै तद्वृषस्याधिकोच्यते ।। २१.
यो ददाति गुढैर्मिश्रांस्तिलान् वै श्राद्धकर्मणि। मधुना मधुमिश्रान् वा अक्षयं सर्वमेव तत् ।। २१.
० बृहस्पतिरुवाच।। न ब्राह्मणान् परीक्षेत सदा देये तु मानवः। दैवे कर्मणि पित्र्ये च श्रूयते वै परीक्षणम् ।। २१.
सर्ववेदव्रतस्नाताः पङ्क्तीनां पावना द्विजाः। ये च भाष्य विदो मुख्या ये च व्याकरणे रताः ।। २१.
अधीयते पुराणं च धर्म्मशास्त्रं तथैव च। त्रिणाचिकेतपञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ।। २१.
ब्रह्मदेय सुतश्चैव छन्दोगो ज्येष्ठसामगः। पुण्येषु येषु तीर्थेषु अभिषेककृतव्रताः ।। २१.
मुख्येषु येषु सत्रेषु भवन्त्यवभृथश्रुताः। ये च सद्योव्रता नित्यं स्वकर्मनिरताश्च ये ।। २१.
अक्रोधनाः शान्तिपरास्तान् वै श्राद्धे निमन्त्रयेत्। ये चापि नित्यं दशसु सुकृतेषु व्यवस्थिताः ।। २१.
एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः। श्रद्धेया ब्राह्मणा ये तु योगधर्म्ममनुव्रताः ।। २१.
धर्माश्रमवरिष्ठास्ते हव्यकव्येषु ते वराः। त्रयोऽपि पूजितास्तेन ब्रह्मविष्णु महेश्वराः ।। २१.
पितृभिः सह लोकाश्च यो ह्येतान् पूजयेन्नरः। पवित्राणा पवित्रञ्च मङ्गलानां च मङ्गलम् ।। २१.