प्रधानशीलः सापत्य उत्तरासु करोति यः। स सत्सु मुख्यो भवति हस्ते यस्तर्पयेत्पितॄन् ।। २०.
चित्रायां चैव यः कुर्यात् पश्येद्रूपवतः सुतान्। स्वातिना चैव यः कुर्याद्विद्वाँल्लाभमवाप्नुयात् ।। २०.
पुत्रार्थन्तु विशाखासु श्राद्धमीहेत मानवः। अनुराधासु कुर्व्वाणो नरश्चक्रं प्रवर्त्तयेत् ।। २०.
आधिपत्यं लभेच्छ्रैष्ठ्यं ज्येष्ठायां सततं तु यः। मूलेनारोग्यमिच्छन्ति आषाढासु महद्यशः ।। २०.
आषाढाभिश्चोत्तराभिर्वीतशोको भवेन्नरः। श्रवणायां सुलोकेषु प्राप्रुयात् परमां गतिम् ।। २०.
राज्यभाग्वै धनिष्ठासु प्राप्नुयाद्विपुलं धनम्। श्राद्धं त्वभिजिता कुर्वन् विन्दतेऽजाविकं फलम् ।। २०.
नक्षत्रे वारुणे कुर्व्वन् भिषक्सिद्धिमवाप्नुयात्। पूर्व्वे प्रोष्ठपदे कुर्व्वन् विन्दतेऽजाविकं फलम् ।। २०.
उत्तरास्वनतिक्रम्य विन्देद्घा वै सहस्रशः। बहुरूपकृतं द्रव्यं विन्देत् कुर्व्वंस्तु रेवतीम्। अश्वांश्चैवाश्विनीयुक्तो भरण्यामायुरुत्तमम् ।। २०.
इमं श्राद्धविधिं कुर्व्वञ्छशबिन्दुर्महीमिमाम्। कृत्स्नां तु लेभे स कृत्स्नां लब्धा च प्रशशंस तम् ।। २०.
इति श्रीमहापुराणे वायुप्रोक्ते नक्षत्रविशेषे श्राद्धफलवर्णनं नाम विंशोऽध्यायः
शंयुरुवाच।। किञ्चिद्दत्तं पितॄणां तु धिनोति वदतां वर । किं हि स्विच्चिररात्राय किञ्चानन्त्याय कल्पते ।। २१.
बृहस्पतिरुवाच। हवींषि श्राद्धकाले तु यानि श्राद्धविदो विदुः। तानि मे श्रृणु सर्वाणि फलं चैषां यथाबलम् ।। २१.
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन च। दत्तेन मासं प्रीयन्ते श्राद्धेन तु पितामहाः ।। २१.
मत्स्यैः प्रीणन्ति द्वौ मासौ त्रीन्मासान्हारिणेन तु। शाशन्तु चतुरो मासान् पञ्च प्रीणाति शाकुनम् ।। २१ .
वाराहेण तु षण्मासाञ्छागलं साप्तमासिकम्। अष्टमासिकमित्युक्तं यच्च पार्षतकं भवेत् ।। २१.
रौरवेण तु प्रीयन्ते नवमासान् पितामहाः। गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ।। २१.
कूर्मस्य चैव मांसेन मासानेकादशैव तु । श्राद्धमेव विजानीयाद्गव्यं संवत्सरं भवेत् ।। २१.
तथा गव्यसमायुक्तं पायसं मधुसर्पिषा। वध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ।। २१.
आनन्त्याय भवेद्युक्तं खाड्गमांसैः पितृक्षये। कृष्णच्छागस्तथा गोधा आनन्त्यायैव कल्पते ।। २१.
अत्र गाथाः पितृगीताः कीर्त्तयन्ति पुराविदः। तास्तेऽहं संप्रवक्ष्यामि यथावत्सन्निबोधत ।। २१.
अपि नः स्वकुले जायाद्योऽन्नं दद्यात्र्त्रयोदशीम्। पायसं मधुसर्पिर्भ्यां छायायां कुञ्जरस्य तु ।। २१.
आजेन सर्वलोहेन वर्षासु च मघासु च। एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्। गौरीं वाप्युद्वहेद्भार्य्यां नीलं वा वृषमुत्सृजेत् ।। २१.
शंयुरुवाच।। गयादीनां फलं तात प्रब्रूहि समपृच्छतः। पितॄणां चैव यत्पुण्यं निखिलेन ब्रवीहि मे ।। २१.
बृहस्पतिरुवाच।। गयायामक्षयं श्राद्धं जपहोमतपांसि च। पितृङयाहे ते पुत्र तस्मात्तत्राक्षयं स्मृतम् ।। २१.
पुनीयादेकविंशन्तु गौर्यामुत्पादितः सुतः। मातामहांस्तु षड्भूय इति तस्याः फलं स्मृतम् ।। २१.
फलं वृषस्य वक्ष्यामि गदतो मे निबोधत। वृषोत्स्रष्टा पुनात्येव दशातीतान् दशावरान् ।। २१.
यत्किञ्चित् स्पृश्यते तोयैरुत्तीर्णेन जलान्महीम्। वृषोत्सर्गे पितॄणां तु ह्यक्षयं स मुदाहृतम् ।। २१.
यद्यद्धि संस्पृशेत्तोयं लांगूलादिभिरन्ततः। सर्वं तदक्षयं तस्य पितॄणां नात्र संशयः ।। २१.
श्रृङ्गैः खुरैर्वा यद्भूमिमिल्लिखत्य निशं वृषः। मधुकुल्याः पितॄंस्तस्य अक्षयास्ता भवन्ति वै ।। २१.
सहस्रनल्वमात्रेण तडागेन यथा श्रुतिः। तृप्तिस्तृप्तिः पितॄणां वै तद्वृषस्याधिकोच्यते ।। २१.