प्राजापत्या द्वितीया स्यात् तृतीया वैश्वदेविकी। आद्या पूपैःसदा कार्या मासैरन्या भवेत्सदा ।। १९.
शाकैरन्या तृतीया स्यादेवं द्रव्यगतो विधिः । अन्वष्टका पितॄणां वै नित्यमेव विधीयते ।। १९.
यद्यन्या च चतुर्थी स्यात्ताञ्च कुर्य्याद्विशेषतः। तासु श्राद्धं बुधः कुर्य्यात् सर्व्वस्वेनापि नित्यशः ।। १९.
परत्रेह च सर्व्वेषु नित्यमेव सुखी भवेत् । पूजकानां सदोत्कर्षो नास्तिका नामधो गतिः ।। १९.
पितरः सर्व्वकालेषु तिथिकालेषु देवताः। सर्व्वे पुरुषमायान्ति निपानमिव धेनवः ।। १९.
मा स्म ते प्रतिगच्छेयुरष्टकाः सुरपूजिताः । मोघस्तस्य भवेल्लोको लब्धं चास्य विनश्यति ।। १९.
देवांस्तु दायिनो यान्ति तिर्य्यग्गच्छन्त्यदायिनः। प्रजां पुष्टिं स्मृतिं मेधां पुत्रानैश्वर्य्यमेव च ।। १९.
कुर्व्वाणः पौर्णमास्यां च पूर्व्वं पूर्णं समश्नुते। प्रतिपद्धनलाभाय लब्धं चास्य न नश्यति ।। १९.
द्वितीयायां तु यः कुर्य्याद्द्विपदाधिपतिर्भवेत्। वरार्थिना तृतीया तु शत्रुघ्नी पापनाशिनी ।। १९.
चतुर्थ्यां कुरुते श्राद्धं शत्रोश्छिद्राणि पश्यति। पञ्चम्यां वै प्रकुर्वाणः प्राप्नोति महतीं श्रियम् ।। १९.
षष्ठ्यां श्राद्धानि कुर्वाणं द्विजास्तं पूजयन्त्युत। कुरुते यस्तु सप्तम्यां श्राद्धानि सततं नरः ।। १९.
महासत्रमवाप्नोति गणानामधिपो भवेत्। सम्पूर्णामृद्धिमाप्नोति योऽष्टम्यां कुरुते नरः ।। १९.
श्राद्धं नवम्यां कुर्वाण ऐश्वर्य्यं कांक्षितां स्त्रियम्। कुर्वन् दशम्यां तु नरो ब्राह्मीं श्रियमवाप्नुयात् ।। १९.
वेदांश्चैवाप्नुयात् सर्वान् प्रणाशमेनसस्तथा। एकादश्यां परं दानमैश्वर्य्यं सततं तथा ।। १९.
द्वादश्यां राष्ट्रलाभं तु जयमाहुर्वसूनि च । प्रजां बुद्धिं पशून् मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम् । दीर्घमायुरथैश्वर्य्यं कुर्वाणस्तु त्रयोदशीम् ।। १९.
युवानश्च मृता यस्य गृहे तेषां प्रदापयेत्। शस्त्रेण तु हता ये वै तेषां दद्याच्चतुर्दशीम् ।। १९.
तथा विषमजातानां यमलानां तु सर्वशः । अमावास्यां प्रयत्नेन श्राद्धं कुर्य्याच्छुचिः सदा ।। १९.
सर्व्वान् कामानवाप्नोति स्वर्गमानन्त्यमश्नुते । ऋतं दद्यादमावास्यां सोममाप्यायनं महत् ।। १९.
एवमाप्यायितः सोमस्त्रीँल्लोकान् धारयिष्यति। सिद्धचारणगन्धर्व्वैः स्तूयमानस्तु नित्यशः ।। १९.
स्तवैः पुष्पैर्मनोज्ञैश्च सर्व्वकामपरिच्छदैः। नृत्य वादित्रगीतैश्च ह्यप्सरोभिः सहस्रशः ।। १९.
उपक्रीडैर्व्विमानैस्तु पितृभक्तं दृढव्रतम्। स्तुवन्ति देवगन्धर्व्वाः सिद्धसङ्घाश्च तं सदा ।। १९.
पितृभक्तस्त्वमावस्यां सर्वान् कामानवाप्नुयात्। प्रत्यक्षमर्चितास्तेन भवन्ति पितरः सदा ।। १९.
पितॄदेवा मघा यस्मात् तस्मात्तास्वक्षयं स्मृतम्। पित्र्यं कुर्व्वन्ति तस्यां तु विशेषेण विचक्षणः ।। १९.
तस्मान्मघां वै वाञ्छन्ति पितरो नित्यमेव हि । पितॄदैवतभक्ता ये तेऽपि यान्ति परां गतिम् ।। १९.
बृहस्पतिरुवाच।। यमस्तु यानि श्राद्धानि प्रोवाच शश(शिव)बिन्दवे। तानि मे श्रृणु कार्त्स्न्येन नक्षत्रेषु पृथक् पृथक् ।। २०.
श्राद्धं यः कृत्तिकायोगे करोति सततं नरः। अग्नीनाधाय सापत्यो जायते स गतज्वरः ।। २०.
अपत्यकामो रोहिण्यां सौम्येनौजस्विता भवेत् । प्रायशः क्रूरकर्म्मा तु चार्द्रायां श्राद्धमाचरेत् ।। २०.
क्षेत्रभागी भवेत् पुत्री श्राद्धं कुर्व्वन् पुनर्व्वसौ। धनधान्यसमाकीर्णः पुत्रपौत्रसमाकुलः ।। २०.
तुष्टिकामः पुनस्तिष्ये श्राद्धं कुर्वीत मानवः। आश्लेषासु पितॄनार्च्य वीरान् पुत्रानवाप्नुयात् ।। २०.
श्रेष्ठो भवति ज्ञातीनां मघासु श्राद्धमाचरन्। फल्गुनीषु पितॄनार्च्य सौभाग्यं लभते नरः ।। २०.