अन्नदानात्परं दानं विद्यते नेह किञ्चन। अन्नाद्भूतानि जायन्ते जीवन्ति च न संशयः ।। १८.
जीवदानात् परं दानं न किञ्चिदिह विद्यते। अन्नैर्जीवति त्रैलोक्यमन्नस्यैव हि तत्फलम् ।। १८.
अन्ने लोकाः प्रतिष्ठन्ति लोकदानस्य तत्फलम् । अन्नं प्रजापतिः साक्षात्तेन सर्व्वमिदं ततम्। तस्मादन्नसमं दानं न भूतं न भविष्यति ।। १८.
यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा। क्षिप्रं प्राप्नोति तत् सर्वं पितृभक्तो हि मानवः ।। १८.
प्रतिश्रयं सदा दद्यादतिथिभ्यः कृताञ्जलिः। देवास्ते संप्रतीक्षन्ते दिव्यातिथ्यैः सहस्रशः ।। १८.
सर्वाण्येतानि यो दद्यात् पृथिव्यामेकराड् भवेत्। त्रिभिर्द्वाभ्यामथैकेन दानेन तु सुखी भवेत् ।। १८.
दानानि परमो धर्म्मः सद्भिः सत्कृत्य पूजितः। त्रैलोक्यस्याधिपत्यं हि दानादेव व्यवस्थितम् ।। १८.
राजा तु लभते राज्यमधनश्चोत्तमं धनम्। क्षीणायुर्लभते चायुः पितृभक्तः सदा नरः। यान् कामान् मनसाऽर्थेत तांस्तस्य पितरो विदुः ।। १८.
बृहस्पतिरुवाच।। अत ऊर्द्ध्वं प्रवक्ष्यामि श्राद्धकर्म्मणि पूजितम्। काम्यनैमित्तिकाजस्रं श्राद्धकर्म्मणि नित्यशः ।। १९.
पुत्र दारधनमूला अष्टकास्तिस्र एव च। पूर्वपक्षो वरिष्ठो हि पूर्वा चित्री उदाहृता ।। १९.
प्राजापत्या द्वितीया स्यात् तृतीया वैश्वदेविकी। आद्या पूपैःसदा कार्या मासैरन्या भवेत्सदा ।। १९.
शाकैरन्या तृतीया स्यादेवं द्रव्यगतो विधिः । अन्वष्टका पितॄणां वै नित्यमेव विधीयते ।। १९.
यद्यन्या च चतुर्थी स्यात्ताञ्च कुर्य्याद्विशेषतः। तासु श्राद्धं बुधः कुर्य्यात् सर्व्वस्वेनापि नित्यशः ।। १९.
परत्रेह च सर्व्वेषु नित्यमेव सुखी भवेत् । पूजकानां सदोत्कर्षो नास्तिका नामधो गतिः ।। १९.
पितरः सर्व्वकालेषु तिथिकालेषु देवताः। सर्व्वे पुरुषमायान्ति निपानमिव धेनवः ।। १९.
मा स्म ते प्रतिगच्छेयुरष्टकाः सुरपूजिताः । मोघस्तस्य भवेल्लोको लब्धं चास्य विनश्यति ।। १९.
देवांस्तु दायिनो यान्ति तिर्य्यग्गच्छन्त्यदायिनः। प्रजां पुष्टिं स्मृतिं मेधां पुत्रानैश्वर्य्यमेव च ।। १९.
कुर्व्वाणः पौर्णमास्यां च पूर्व्वं पूर्णं समश्नुते। प्रतिपद्धनलाभाय लब्धं चास्य न नश्यति ।। १९.
द्वितीयायां तु यः कुर्य्याद्द्विपदाधिपतिर्भवेत्। वरार्थिना तृतीया तु शत्रुघ्नी पापनाशिनी ।। १९.
चतुर्थ्यां कुरुते श्राद्धं शत्रोश्छिद्राणि पश्यति। पञ्चम्यां वै प्रकुर्वाणः प्राप्नोति महतीं श्रियम् ।। १९.
षष्ठ्यां श्राद्धानि कुर्वाणं द्विजास्तं पूजयन्त्युत। कुरुते यस्तु सप्तम्यां श्राद्धानि सततं नरः ।। १९.
महासत्रमवाप्नोति गणानामधिपो भवेत्। सम्पूर्णामृद्धिमाप्नोति योऽष्टम्यां कुरुते नरः ।। १९.
श्राद्धं नवम्यां कुर्वाण ऐश्वर्य्यं कांक्षितां स्त्रियम्। कुर्वन् दशम्यां तु नरो ब्राह्मीं श्रियमवाप्नुयात् ।। १९.
वेदांश्चैवाप्नुयात् सर्वान् प्रणाशमेनसस्तथा। एकादश्यां परं दानमैश्वर्य्यं सततं तथा ।। १९.
द्वादश्यां राष्ट्रलाभं तु जयमाहुर्वसूनि च । प्रजां बुद्धिं पशून् मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम् । दीर्घमायुरथैश्वर्य्यं कुर्वाणस्तु त्रयोदशीम् ।। १९.
युवानश्च मृता यस्य गृहे तेषां प्रदापयेत्। शस्त्रेण तु हता ये वै तेषां दद्याच्चतुर्दशीम् ।। १९.
तथा विषमजातानां यमलानां तु सर्वशः । अमावास्यां प्रयत्नेन श्राद्धं कुर्य्याच्छुचिः सदा ।। १९.
सर्व्वान् कामानवाप्नोति स्वर्गमानन्त्यमश्नुते । ऋतं दद्यादमावास्यां सोममाप्यायनं महत् ।। १९.
एवमाप्यायितः सोमस्त्रीँल्लोकान् धारयिष्यति। सिद्धचारणगन्धर्व्वैः स्तूयमानस्तु नित्यशः ।। १९.
स्तवैः पुष्पैर्मनोज्ञैश्च सर्व्वकामपरिच्छदैः। नृत्य वादित्रगीतैश्च ह्यप्सरोभिः सहस्रशः ।। १९.