सूत उवाच ।। आसीदियं समुद्रान्ता मेदिनीति परिश्रुता। वसु धारयते यस्माद्वसुधा तेन चोच्यते ।। २.
इयञ्चासीत् समुद्रान्ता मेदिनीति परिश्रुता। दुहितृत्वमनुप्राप्ता पृथिवीत्युच्यते ततः ।। २.
प्रथिता प्रविभक्ता च शोभिता च वसुन्धरा। सस्याकरवती राज्ञा पत्तनाकरमालिनी। चातुर्वर्ण्यसमाकीर्णा रक्षिता तेन धीमता ।। २.
एवंप्रभावो राजासीद्वैन्यः स नृपसत्तमः। नमस्यश्चैव पूज्यश्च भूतग्रामेण सर्वशः ।। २.
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः। पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ।। २.
पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः। आदिराजा न मस्कार्यः पृथुर्वैन्यः प्रतापवान् ।। २.
योधैरपि च संग्रामे प्रार्थयानैर्जयं युधि। आदिकर्त्ता नराणां वै नमस्यः पृथुरेव हि ।। २.
यो हि योद्धा रणं याति कीर्त्तयित्वा पृथुं नृपम्। स घोररूपे संग्रामे क्षेमी तरति कीर्तिमान् ।। २.
वैश्यैरपि च राजर्षिर्वैश्यवृत्तिसमास्थितैः। पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ।। २.
एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च। पात्राणि च मयोक्तानि सर्वाण्येव यथाक्रमम् ।। २.
ब्रह्मणा प्रथमं दुग्धा पुरा पृथ्वी महात्मना। वायुं कृत्वा तदा वत्सं बीजानि वसुधातले ।। २.
ततः स्वायम्भुवे पूर्वन्तदा मन्वन्तरे पुनः। वत्सं स्वायम्भुवं कृत्वा दुग्धा ग्रीष्मेण वै मही ।। २.
* मनौ स्वारोचिषे दुग्धा मही चैत्रेण धीमता। मनुं स्वारोचिषं कृत्वा वत्सं सस्यानि वै पुरा ।। २.
उत्तमेऽनुत्तमेनापि दुग्धा देवभुजेन तु । मनुं कृत्वोत्तमं वत्सं सर्वसस्यानि धीमता ।। २.
पुनश्च पञ्चमे पृथ्वी तामसस्यान्तरे मनोः। दुग्धेयं तामसं वत्सं कृत्वा तु बलबन्धुना ।। २.
चारिष्णवस्य देवस्य संप्राप्ते चान्तरे मनोः। दुग्धा मही पुराणेन वत्सञ्चारिष्णवं प्रति ।। २..
चाक्षुषेऽपि च सम्प्राप्ते तदा मन्वन्तरे पुनः। दुग्धा मही पुराणेन वत्सं कृत्वा तु चाक्षुषम् ।। २.
चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः । वैन्येनेयं मही दुग्धा यथा ते कीर्तितं मया ।। २.
एतैर्दुग्धा पुरा पृथ्वी व्यतीतेष्वन्तरेषु वै। देवादिभिर्मनुष्यैश्च तथा भूतादिभिश्च या ।। २.
एवं सर्वेषु विज्ञेया ह्यतीतानागतेष्विह। देवा मन्वन्तरेष्वस्य पृथोस्तु श्रृणुत प्रजाः ।। २.
पृथोस्तु पुत्रौ विक्रान्तौ जज्ञातेऽन्तर्द्धिपालिनौ। शिखण्डिनी हविर्द्धानमन्तर्द्धानाद्व्यजायत ।। २.
हविर्द्धानात्षडाग्नेयी धिषणाऽजनयत्सुतान्। प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ ।। २.
प्राचीनबर्हिर्भगवान् महानासीत् प्रजापतिः। बलुश्रुततपोवीर्यैः पृथिव्यामेकराढसौ। प्राचीनाग्राः कुशास्तस्य तस्मात्प्राचीन बर्ह्यसौ ।। २.
समुद्रतनयायान्तु कृतदारः स वै प्रभुः। महतस्तमसः पारे सवर्णायां प्रजापतेः। सवर्णाऽऽधत्त सामुद्री दश प्राचीन बर्हिषः ।। २.
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः। अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः। दशवर्षसहस्राणि समुद्रसलिलेशयाः ।। २.
तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः। अरक्ष्यमाणामाववृर्बभूवाथ प्रजाक्षयः ।। २.
प्रत्याहते तदा तस्मिंश्चाक्षुषस्यान्तरे मनोः । नाशकन् मारुतो वातुं वृतं खमभवद्द्रुमैः। दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ।। २.
तदुपश्रुत्य तपसा सर्वे युक्ताः प्रचेतसः। मुखेभ्यो वायुमग्निञ्च ससृजुर्ज्जातमन्यवः ।। २.
उन्मूलानथ तान् वृक्षान् कृत्वा वायुरशोषयत्। तानग्निरदहद्वोर एवमासीद् द्रुमक्षयः ।। २.
द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छेषेषु शाखिषु। उपगम्याब्रवीदेतान् राजा सोमः प्रचेतसः ।। २.