पूजयित्वा तु पात्राणि श्राद्धे सत्कृत्य दापयेत्। गन्धवाहा महानद्यः सुखानि विविधानि च ।। १८.
दातारमुपतिष्ठन्ति युवत्यश्च मनोरमाः। शयनासनानि रम्याणि भूमयो वाहनानि च ।। १८.
श्राद्धेऽप्येतानि यो दद्यादश्वमेधफलं लभेत्। श्राद्धकालेनिवेद्यं च दर्शश्राद्ध उपस्थिते ।। १८.
विप्राणां गुणयुक्तानां स्मृतिं मेधां च विन्दति। सर्पिष्पूर्णानि पात्राणि श्राद्धे सत्कृत्य दापयेत् ।। १८.
कुम्भदोहनधेनूनां बह्वीनां च फलं लभेत्। अस्मिस्तु मोदते लोके स्यन्दनैश्च सुवाहनैः ।। १८.
श्राद्धे यथेप्सितं दत्त्वा पुण्डरीकस्य यत्फलम्। रम्यमावसथं दत्त्वा राजसूयफलं लभेत् ।। १८.
वनं पुष्पफलोपेतं दत्त्वा सौरभमश्नुते। कूपारामतडागानि क्षेत्रघोषगृहाणि च ।। १८.
दत्त्वैतान् मोदते स्वर्गे नित्यमाचन्द्रतारकम्। आस्तीर्णशयनं दत्त्वा श्राद्धे रत्नविभूषितम् ।। १८.
पितरस्तस्य तुष्यन्ति स्वर्गं चानन्त्यमश्नुते। राजभिः पूज्यते चापि धनधान्यैश्च वर्द्धते ।। १८.
ऊर्णाकौशेयवस्त्राणि तथा प्रवरकम्बलौ। अजिनं काञ्चनं पट्टं प्रवेणी मृगलोमकम् ।। १८.
दानान्यतानि विप्रेभ्यो भोजयित्वा यथाविधि। प्राप्नोति श्रद्दधानस्तु वाजपेयशतं फलम् ।। १८.
बह्वयो नार्य्यः सुरूपास्तु पुत्रा भृत्याश्च किङ्कराः। वशे तिष्ठन्ति भूतानि अस्मिँल्लोके त्वनामयम् ।। १८.
कौशेयं क्षौमकार्पासं दुकूलसहितं तथा। श्राद्धेष्वेतानि यो दद्यात् कामानाप्नोति पुष्कलान् ।। १८.
अलक्ष्मीं विनुदत्याशु तमः सूर्य्योदये यथा। भ्राजते स विमानाग्रे नक्षत्रेष्विव चन्द्रमाः ।। १८.
वासो हि सर्वदैवत्यं सर्वदेवैस्त्वभिष्टुतम्। वस्त्राभावे क्रिया नास्ति यज्ञा वेदास्तपांसि च ।। १८.
तस्माद्वस्त्राणि देयानि श्राद्धकाले विशेषतः। तानि सर्वाण्यवाप्नाप्नोति यज्ञवेदतपांसि च ।। १८.
नित्यं श्राद्धेषु यो दद्यात् प्रयतस्तत्परायणः । सर्वान् कामानवाप्नोति सर्वं राज्यं तथैव च ।। १८.
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते। भक्ष्यान् धानाः करम्भांश्च पिष्टकान् घृतशर्कराः ।। १८.
कृशरान्मधु कर्कञ्च पयः पायसमेव च। स्निग्धांश्च पूपान् यो दद्यादग्निष्टोमस्य यत् फलम् ।। १८.
दधि गव्यमसंसृष्टं भक्ष्या नानाविधास्तथा। तदन्नं शोचति श्राद्धे वर्षासु च मघासु च ।। १८.
घृतेन भोजयेद्विप्रान् घृतं भूमौ समुत्सृजेत्। गयायां हस्तिनश्चैव दत्त्वा श्राद्धे न शोचति ।। १८.
ओदनं पायसं सर्पिर्मधुमूलफलानि च। भक्ष्यांश्च विविधान्दत्त्वा प्रेत्य चेह च मोदते ।। १८.
शर्कराक्षीरसंयुक्तं पृथुकं नित्यमक्षयम्। यश्च संवत्सरं प्रीत्या कृसरैर्मसुरेण च ।। १८.
सक्तुलाजास्तथा पूपाः कुल्माषव्यञ्जनैस्तथा। सार्पेःस्निग्धानि हृद्यानि दध्ना सक्तूंस्तु भोजयेत्। श्राद्धेष्वेतानि यो दद्यात् पझानि लभते निधिम् ।। १८.
नवसस्यानि यो दद्याच्छ्राद्धे सत्कृत्य यत्नतः। सर्वभोगानवाप्नोति पूज्यते च दिवं गतः ।। १८.
भक्ष्यभोज्यानि चोष्याणि पेयलेह्यवराणि च। सर्वश्रेष्ठानि यो दद्यात् सर्व्वश्रेष्ठो भवेन्नरः ।। १८.
वैश्वदेवं च सौम्यं च खाड्गमांसं परं हविः। विषाणं वर्ज्जयेत् खाड्गमसूयां नाशयामहे ।। १८.
भोजनेऽग्रासनं दद्यादतिथिभ्यः कृताञ्जलिः । सर्वयज्ञक्रियाणां स फलं प्राप्नोत्यनुत्तमम् ।। १८.
क्षिप्रमत्युष्ण मक्लिष्टं दद्याच्चान्नं बुभुक्षते। वयञ्जनं च तथा स्निग्धं भक्त्या सत्कृत्य यत्नतः ।। १८.
तरुणादित्यसङ्काशं विमानं हंसवाहनम्। अन्नदो लभते तिस्रः कल्पकोटीस्तथैव च ।। १८.