मुण्डाञ्जटिलकाषायान् श्राद्धकालेऽपि वर्ज्जयेत्। शिखिभ्यो वा त्रिदणिडभ्यः श्राद्धं यत्नात् प्रदापयेत् ।। १७.
ये तु व्रते स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा। देवभक्ता महात्मानः पुनीयुर्दर्शनादपि ।। १७.
सर्व्वं योगेश्वरैर्व्याप्तं त्रैलोक्यं वै निरन्तरम् । तस्मात् पश्यन्ति ते सर्वे यत्किञ्चिज्जगतीगतम् ।। १७.
व्यक्ताव्यक्तं वशीकृत्य सर्व्वस्यापि च यत्परम्। सदसच्चेति यैर्दृष्टं सदसच्च महात्मनाम् ।। १७.
सर्व्वज्ञानानि दृष्टानि मोक्षादीनि महात्मनाम्। तस्मात्तेषु सदासक्तः प्राप्नोत्यनुत्तमं शुभम् ।। १७.
ऋचो हि यो वेद स वेद वेदान् यजूंषि यो वेद स वेद यज्ञम्। सामानि यो वेद स वेद ब्रह्म यो मानसं वेद स वेद सर्व्वम् ।। १७.
बृहस्पतिरुवाच।। अतः परं प्रवक्ष्यामि दानानि च फलानि च। तारणं सर्व्वभूतानां स्वर्गमार्गं सुखावहम् ।। १८.
लोके श्रेष्ठतमं स्वर्ग्यमात्मन् श्चापि यत् प्रियम्। सर्व्वं पितॄणां दातव्यं तेषामेवाक्षयार्थिना ।। १८.
जाम्बूनदमयं दिव्यं विमानं सूर्य्यसन्निभम्। दिव्याप्सरोभिः सङ्कीर्णमन्नदो लभते फलम् ।। १८.
आच्छादनन्तु यो दद्यादाहतं श्राद्धकर्म्मणि। आयुः प्रकाममैश्वर्य्यं रूपञ्च लभते सुतम् ।। १८.
उपवीतन्तु यो दद्याच्छ्राद्धकालेषु धर्मवित् । पानञ्च सर्वविप्राणां ब्रह्मदानस्य यत् फलम् ।। १८.
कृतं विप्रेषु यो दद्याछ्राद्धकाले कमण्डलुम्। मधुक्षीरस्रवा धेनुर्दातारमुपतिष्ठति ।। १८.
चक्राविद्धं तु यो दद्याच्छ्राद्धकाले कमण्डलुम्। धेनुं स लभते दिव्यां पयोदां काम्यदोहिनीम् ।। १८.
पूर्णसय्यां तु यो दद्यात् पुष्पमालाविभूषिताम्। प्रासादो ह्युत्तमो भूत्वा गच्छन्तमनुगच्छति ।। १८.
भवनं रत्नसम्पूर्णं सशय्यासनभोजनम्। श्राद्धे दत्त्वा यतिभ्यस्तु नाकपृष्ठे स मोदते ।। १८.
मुक्ता वैढूर्य्यवासांसि रत्नानि विविधानि च। वाहनानि च दिव्यानि अयुतान्यर्ब्बुदानि च ।। १८.
सुमहज्ज्वलनप्रख्यं रत्नकामसमन्वितम् । सूर्य्यचन्द्र प्रभं दिव्यं विमानं लभतेऽक्षयम् ।। १८.
अप्सरोभिः परिवृतं कामगं तु मनोजवम्। वसते स विमानाग्रे स्तूयमानः समन्ततः ।। १८.
दिव्यैर्गन्धैः प्रसिञ्चन्ति पुष्पवृष्टिभिरेव च। गन्धर्वाप्सरसस्तत्र गायन्ते वादयन्ति च ।। १८.
कन्या युवतयो मुख्याः सहिताश्चाप्सरोगणैः। सुस्वरैस्तं विबुध्यन्ते सततं हि मनोरमैः ।। १८.
अश्वदानसहस्रेण रथदानशतेन च। दन्तिनां च सहस्रेण योगिन्या वसते नरः ।। १८.
दद्यात् पितृभ्यो योगिभ्यो यस्तूज्ज्वलनमम्भसि। अथ निष्कसहस्राणां फलं प्राप्नोति मानवः ।। १८.
जीवितस्य प्रदानाद्धि नान्यद्दानं विशिष्यते। तस्मात् सर्वप्रयत्नेन देयं प्राणाभिरक्षणम् ।। १८.
अहिंसा सर्व्वदेवेभ्यः पवित्रा सर्व्वदायिनी। दानं हि जीवितस्याहुः प्राणिनां परमं बुधाः ।। १८.
लक्षणानि सुवर्णानि श्राद्धे पात्राणि दापयेत्। रसास्तमुपतिष्ठन्ति गवां पुष्टिस्तथैव च ।। १८.
पात्रं वै तैजसं दद्यान्मनोज्ञं श्राद्धभोजने। पात्रं भवति कामानां रूपस्य च धनस्य च ।। १८.
राजतं काञ्चनं वापि दद्याच्छ्राद्धे तु कर्म्मणि। दत्त्वा तु लभते दाता प्रकामं धर्म्ममेव च ।। १८.
धेनुं श्राद्धे तु यो दद्यात् वृष्टि कुम्भोपदोहनाम्। गावस्तमुपतिष्ठन्ति गवां पुष्टिस्तथैव च ।। १८.
शिशिरेषु तथा त्वग्निं बहुकाष्ठं तथैव च। इन्धनानि तु यो दद्याद्द्विजेभ्यः शिशि रागमे ।। १८.
नित्यं जयति संग्रामे श्रिया युक्तश्चदीप्यते। सुरभीणि च माल्यानि गन्धवन्ति तथैव च ।। १८.