श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं यो निषेवते। पितरस्तस्य तं मासं रेतःस्था नात्र संशयः ।। १७.
तस्मादतिथये देयं भोजयेद्ब्रह्मचारिणम्। ध्याननिष्ठाय दातव्यं सानुक्रोशाय धार्मिकम् ।। १७.
यतिं वा वालखिल्यान् वा भोजयेच्छ्राद्धकर्म्मणि। वानप्रस्थोपकुर्व्वाणः पूजामात्रेण तोषितः ।। १७.
गृहस्थं भोजयेद्यस्तु विश्वेदेवास्तु पूजिताः। वानप्रस्थेन ऋषयो वालखिल्यैः पुरन्दरः ।। १७.
यतीनां पूजने चापि साक्षाद्ब्रह्मा तु पूजितः। आश्रमाः पावनाः पञ्च उपधाभिरनाश्रमाः ।। १७.
चत्वार आश्रमाः पूज्याः श्राद्धे दैवे तथैव च। चतुराश्रमबाह्येभ्यः श्राद्धं नैव प्रदापयेत् ।। १७.
स तिष्ठेद्वा बुभुक्षुस्तु चतुराश्रमबाह्यतः। अयति र्मोक्षवादी च उभौ तौ पङ्क्तिदूषकौ ।। १७.
वृथामुण्डाश्च जटिलाः सर्वे कार्प्पटिकास्तथा। निर्घृणान् भिन्नवृत्तांश्च सर्वभक्षान् विवर्जयेत् ।। १७.
कारुकादीननाचारान् सर्ववेदबहिष्कृतान्। गायनान् देववृत्तांश्च हव्यकव्येषु वर्जयेत् ।। १७.
द्विजेष्वपि कृतं नित्यं श्राद्धकर्म्मणि वर्जयेत् ।। १७.
एतेषु वर्त्तते यश्च कृत्स्ववर्णं स गच्छति। योऽश्नाति सह शूद्रेण सर्वे ते पङ्क्तिदूषकाः ।। १७.
व्यापादनं शक्तिनिबर्हणं कृषिर्वाणिज्यकार्य्यं पशुपालनं च। शुश्रूषणं वाप्यगुरो रहो वा कार्य्यं नैतद्विद्यते ब्राह्मणस्य ।। १७.
ये तु विप्राः स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा। मिथ्यासङ्कल्पिनः सर्वे दुर्वृत्ता वा द्विजातयः ।। १७.
मिथ्यातत्त्वविदो वर्ज्ज्यास्तथा दम्भविषूचकाः। उपपातकसंयुक्ताः पातकैश्च विशेषतः ।। १७.
वेदे नियोगदातारो लोभमोहफलार्थिनः। ब्रह्मविक्रयिणश्चैव श्राद्धकर्म्मणि वर्जिताः ।। १७.
न नियोगोऽस्ति वेदानां यो नियुङ्क्ते स पापकृत्। भोक्ता वेदफलाद्भ्रश्येद्दाता दानफलात्तथा ।। १७.
भृतोऽध्यापयते यस्तु भृतकाध्यापितस्तु यः । नार्हतस्तावपि श्राद्धं ब्रह्मणः क्रियविक्रयी ।। १७.
क्रयविक्रयिणौ चैव जीवितार्थं विगर्हितौ। वृत्तिरेषा तु वैश्यस्य ब्राह्मणस्य तु पातकम् ।। १७.
प्राहुर्वेदान् वेदविदो वेदान् यश्चोपजीवति १७.
वृथा दारांश्च यो गच्छेद्यो यजेत वृथाध्वरे। नार्हतस्तावपि श्राद्धं द्विजो यश्चैव नास्तिकः ।। १७.
आत्मार्थं यः पचेदन्नं न देवातिथिकारकः। नार्हतस्तावपि श्राद्धं पतितौ ब्रह्मराक्षसौ ।। १७.
स्त्रियो नक्तंपरा येषां परदाररताश्च ये। अर्थकाम रताश्चैव न तान् श्राद्धेषु भोजयेत् ।। १७.
वर्णाश्रमाणां धर्म्मेषु विरुद्धाः श्राद्धकर्म्मणि। स्तेनश्च सर्वयाजी च सर्वे ते पङ्क्तिदूषकाः ।। १७.
यश्च सूकरवद्भुङ्क्ते यश्च पाणितले द्विजः। न तदश्नन्ति पितरो यश्च वामं समश्नुते ।। १७.
स्त्रीशूद्रायानुपेताय श्राद्धोच्छिष्टं न दापयेत्। यो दद्या द्रागमोहात्तु न तद्गच्छेत्पितॄन्सदा ।। १७.
तस्मान्न देयमुच्छिष्टमन्नाद्यं श्राद्धकर्म्मणि। अन्यत्र दधिसर्पिर्भ्यां शिष्ये पुत्राय नान्यथा ।। १७.
अनुच्छिष्टन्तु दातव्यमन्नाद्यं वै विशेषतः। पुष्पमूलफलैर्वापि तुष्टिं गच्छन्ति चान्नतः ।। १७.
यावन्त्यन्नानि पूतानि यावदुष्णं न मुञ्चति। तावदश्नन्ति पितरो यावदश्नन्ति वाग्यताः ।। १७.
दानं प्रतिग्रहो होमो भोजनं बलिरेव च। साङ्गुष्ठेन तथा कार्य्यं नासुरेभ्यो यथा भवेत् ।। १७.
एतान्येव च सर्व्वाणि दानादीनि विशेषतः। अन्तर्जान्वविशेषेण तद्वदाचमनं भवेत् ।। १७.