राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा । ब्रह्मोपेतस्तु दोग्धा वै तेषामासीत्कुबेरकः
रक्षः सुमाली बलवान्क्षीरं रुधिरमेव च । कपालपात्रे निर्दुग्धा अन्तर्द्धानञ्च राक्षसैः । तेन क्षीरेण रक्षांसि वर्त्तयन्तीह सर्वशः
पद्मपात्रे पुनर्दुग्धा गन्धर्वैरप्सरोगणैः । वत्सं चित्ररथं कृत्वा शुचीन् गन्धास्तथैव च
तेषां विश्वावसुस्त्वासीद्दोग्धा पुत्रो मुनेः शुचिः । गन्धर्वराजोऽतिबलो महात्मा सूर्यसन्निभः
शैलैश्च स्तूयते दुग्धा पुनर्देवी वसुन्धरा । तत्रौषधीर्मूर्त्तिमती रत्नानि विविधानि च
वत्सस्तु हिमवांस्तेषां मेरुर्दोग्धा महागिरिः । पात्रन्तु शैलमेवासीत्तेन शैलः प्रतिष्ठितः
स्तूयते वृक्षवीरुद्भिः पुनर्दुग्धा वसुन्धरा । पलाशपात्रमादाय दुग्धं छिन्नप्ररोहणम्
कामधुक् पुष्पितः शैलः प्लक्षो वत्सो यशस्विनी । सर्वकामदुघा दोग्ध्री पृथिवी भूतभाविनी
सैषा धात्री विधात्री च धारणी च वसुन्धरा । दुग्धा हितार्थं लोकानां पृथुना इति नः श्रुतम् । चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च ॥२.१.
उत्तरार्द्धम् -
सूत उवाच ।। आसीदियं समुद्रान्ता मेदिनीति परिश्रुता। वसु धारयते यस्माद्वसुधा तेन चोच्यते ।। २.
इयञ्चासीत् समुद्रान्ता मेदिनीति परिश्रुता। दुहितृत्वमनुप्राप्ता पृथिवीत्युच्यते ततः ।। २.
प्रथिता प्रविभक्ता च शोभिता च वसुन्धरा। सस्याकरवती राज्ञा पत्तनाकरमालिनी। चातुर्वर्ण्यसमाकीर्णा रक्षिता तेन धीमता ।। २.
एवंप्रभावो राजासीद्वैन्यः स नृपसत्तमः। नमस्यश्चैव पूज्यश्च भूतग्रामेण सर्वशः ।। २.
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः। पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ।। २.
पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः। आदिराजा न मस्कार्यः पृथुर्वैन्यः प्रतापवान् ।। २.
योधैरपि च संग्रामे प्रार्थयानैर्जयं युधि। आदिकर्त्ता नराणां वै नमस्यः पृथुरेव हि ।। २.
यो हि योद्धा रणं याति कीर्त्तयित्वा पृथुं नृपम्। स घोररूपे संग्रामे क्षेमी तरति कीर्तिमान् ।। २.
वैश्यैरपि च राजर्षिर्वैश्यवृत्तिसमास्थितैः। पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ।। २.
एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च। पात्राणि च मयोक्तानि सर्वाण्येव यथाक्रमम् ।। २.
ब्रह्मणा प्रथमं दुग्धा पुरा पृथ्वी महात्मना। वायुं कृत्वा तदा वत्सं बीजानि वसुधातले ।। २.
ततः स्वायम्भुवे पूर्वन्तदा मन्वन्तरे पुनः। वत्सं स्वायम्भुवं कृत्वा दुग्धा ग्रीष्मेण वै मही ।। २.
* मनौ स्वारोचिषे दुग्धा मही चैत्रेण धीमता। मनुं स्वारोचिषं कृत्वा वत्सं सस्यानि वै पुरा ।। २.
उत्तमेऽनुत्तमेनापि दुग्धा देवभुजेन तु । मनुं कृत्वोत्तमं वत्सं सर्वसस्यानि धीमता ।। २.
पुनश्च पञ्चमे पृथ्वी तामसस्यान्तरे मनोः। दुग्धेयं तामसं वत्सं कृत्वा तु बलबन्धुना ।। २.
चारिष्णवस्य देवस्य संप्राप्ते चान्तरे मनोः। दुग्धा मही पुराणेन वत्सञ्चारिष्णवं प्रति ।। २..
चाक्षुषेऽपि च सम्प्राप्ते तदा मन्वन्तरे पुनः। दुग्धा मही पुराणेन वत्सं कृत्वा तु चाक्षुषम् ।। २.
चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः । वैन्येनेयं मही दुग्धा यथा ते कीर्तितं मया ।। २.
एतैर्दुग्धा पुरा पृथ्वी व्यतीतेष्वन्तरेषु वै। देवादिभिर्मनुष्यैश्च तथा भूतादिभिश्च या ।। २.
एवं सर्वेषु विज्ञेया ह्यतीतानागतेष्विह। देवा मन्वन्तरेष्वस्य पृथोस्तु श्रृणुत प्रजाः ।। २.