जिङ्वया चैव संस्पृश्य दन्तासक्तं तथैव च। सशब्दमङ्गुलीभिश्च प्रणतश्चावलो कयन् ।। १७.
यश्चाधर्मे स्थितो मोहादायान्तोऽप्यशुचिर्भवेत्। उपविश्य शुचौ देशे प्रणतः प्रागुदङ्मुखः ।। १७.
पादौ प्रक्षाल्य हस्तौ तु अन्तर्जानुरुप स्पृशेत्। प्रसन्नास्त्रिः पिबेच्चापः प्रयतः सुसमाहितः ।। १७.
द्विरेव मार्जनं कुर्यात्सकृदभ्युक्षणं ततः। खानि मूर्द्धानमात्मानं हस्तौ पादौ तथैव च ।। १७.
अभ्युक्षणं तथा तस्य यद्यमीमांसितं भवेत्। एवमाचमनं तस्य वेदा यज्ञास्तपांसि च ।। १७.
दानानि ब्रह्मचर्यञ्च भवन्ति सफलास्तथा। क्रियां यः कुरुते मोहादनाचम्यैव नास्तिकः ।। १७.
भवन्ति च वृथा तस्य क्रिया ह्येता न संशयः। वाग्भावशुद्धनिर्णिक्तमदुष्टं वाप्यनिन्दितम् ।। १७.
मेध्यान्येतानि ज्ञेयानि दुष्टमेभ्यो विपर्ययः। न वक्तव्यः सदा विप्रः क्षुधितो नास्ति किञ्चन ।। १७.
तस्मै सत्कृत्य यो दद्यादयूपो यज्ञ उच्यते। अप्लुष्टान्नं श्रृतान्नन्तु कृशवृत्तिमयाचकम् ।। १७.
एकान्तशीलं ह्रीमन्तं सदा श्राद्धेषु भोजयेत् । यो ददात्यान्तिमभ्येश्च स ब्रह्मघ्नो दुरात्मवान् ।। १७.
अपि जातिशतं गत्वा न स मुच्येत किल्बिषात्। विषमं भोजयेद्विप्रानेकपंक्त्या च यो नरः ।। १७.
नियुक्तो वाऽनियुक्तो वा पंक्त्या हरति दुष्कृतम्। पापेन गृह्यते क्षिप्रमिष्टापूर्त्तं च नश्यति ।। १७.
यतिस्तु सर्व्वविप्राणां सर्व्वेषामग्र्य उत्सवे। इतिहासपञ्चमान् वेदान् यः पठेत्तु द्विजोत्तमः ।। १७.
अनन्तरं यथायोग्यं नियोक्तव्यो विजानता। त्रिवेदोऽनन्तरस्तस्य द्विवेदस्तदनन्तरः ।। १७.
एकवेदस्तथा पश्चान्न्यायाध्यायी ततः परम्। पावनायैव पंक्त्या वै तान् प्रवक्ष्ये निबोधत ।। १७.
य एते पूर्व्वनिर्द्दिष्टाः सर्व्वे ते ह्यनुपूर्व्वशः। षडङ्गी विनयी योगी सर्व्वतन्त्रस्तथैव च ।। १७.
यायावरश्च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः । अष्टादशानां विद्यानामेकस्मिन् पारगोऽपि यः ।। १७.
यथावद्वर्त्तमानश्च सर्वे ते पङ्क्तिपावनाः। त्रिणाचिकेतास्त्रैविद्यो यश्च धर्म्मान् पठेद्द्विजः ।। १७.
बार्हस्पत्ये तथा शास्त्रे पारं यश्च द्विजो गतः। सर्व ते पावना विप्राः पङ्क्तीनां समुदाहृताः ।। १७.
आमन्त्रितस्तु यः श्राद्धे योषितं सेवते द्विजः। पितरस्तस्य तं मासं तस्य रेतसि शेरते ।। १७.
श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं यो निषेवते। पितरस्तस्य तं मासं रेतःस्था नात्र संशयः ।। १७.
तस्मादतिथये देयं भोजयेद्ब्रह्मचारिणम्। ध्याननिष्ठाय दातव्यं सानुक्रोशाय धार्मिकम् ।। १७.
यतिं वा वालखिल्यान् वा भोजयेच्छ्राद्धकर्म्मणि। वानप्रस्थोपकुर्व्वाणः पूजामात्रेण तोषितः ।। १७.
गृहस्थं भोजयेद्यस्तु विश्वेदेवास्तु पूजिताः। वानप्रस्थेन ऋषयो वालखिल्यैः पुरन्दरः ।। १७.
यतीनां पूजने चापि साक्षाद्ब्रह्मा तु पूजितः। आश्रमाः पावनाः पञ्च उपधाभिरनाश्रमाः ।। १७.
चत्वार आश्रमाः पूज्याः श्राद्धे दैवे तथैव च। चतुराश्रमबाह्येभ्यः श्राद्धं नैव प्रदापयेत् ।। १७.
स तिष्ठेद्वा बुभुक्षुस्तु चतुराश्रमबाह्यतः। अयति र्मोक्षवादी च उभौ तौ पङ्क्तिदूषकौ ।। १७.
वृथामुण्डाश्च जटिलाः सर्वे कार्प्पटिकास्तथा। निर्घृणान् भिन्नवृत्तांश्च सर्वभक्षान् विवर्जयेत् ।। १७.
कारुकादीननाचारान् सर्ववेदबहिष्कृतान्। गायनान् देववृत्तांश्च हव्यकव्येषु वर्जयेत् ।। १७.
द्विजेष्वपि कृतं नित्यं श्राद्धकर्म्मणि वर्जयेत् ।। १७.