आरुह्य भृगुतुङ्गोषु गत्वा पुण्यां सरस्वतीम्। आपगां तु नदी पुण्यां गङ्गा देवी महानदी ।। १७.
हिमवत्प्रभवा नद्यो याश्चान्या ऋषिपूजिताः । सरस्तीर्थाभिसंवेद्या नदी नववहास्तथा ।। १७.
गत्वैतान् मुच्यते पापैः स्वर्गे नित्यं महीयते। दशरात्रमशौचन्तु प्रोक्तं वै मृतसूतके ।। १७.
ब्राह्मणस्य विशेषेण क्षत्रिये द्वादश स्मृतम्। अर्द्धं मासन्तु वैश्यस्य मासाच्छूद्रस्तु शुध्यति ।। १७.
उदक्या सर्ववर्णानां त्रिरात्रेण तु शुद्धयति। उदक्यां सूतिकाञ्चैव श्वानमन्त्यावसायिनम् ।। १७.
नग्नादीन् मृतहारांश्च स्पृष्ट्वाऽशौचं विधीयते। स्नात्वा सचैलो मृद्भिस्तु द्वादशभिस्तु शुध्यति ।। १७.
एतदेव भवेच्छौचं मैथुने नवभिस्तथा। मृदा प्रक्षाल्य हस्तौ तु कुर्याच्छौचविधिन्नरः ।। १७.
प्रक्षाल्य चाद्भिर्हस्तौ च स्नात्वा चैव मृदा पुनः। मृदं गुह्ये ततो द्विस्तु पुनरेव मृदं बुधः ।। १७.
एवं शौच विधिर्दृष्टः सर्ववर्णेषु नित्यदा। परिदद्यान्मृदस्तिस्रो हस्तपादावसेचनम् ।। १७.
आरण्यं शौचमेतत्तु ग्राम्यं वक्ष्याम्यतः परम्। मृदस्तिस्रः पादयोस्तु हस्तयोस्तिस्र एव च ।। १७.
मृदः पञ्चदशामेध्ये हस्तादीनां विभागशः। अनिर्णिक्ते मृदं दद्यान्मृदन्ते त्वद्भिरेव तु ।। १७.
कण्ठं शिरो वा प्रावृत्य रथ्या पादगतस्तु वा। अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ।। १७.
प्रक्षाल्य पात्रं निःक्षिप्य आचम्याभ्युक्षणं पुनः। द्रव्यस्यान्यस्य तु तथा कुर्यादभ्युक्षणं पुनः ।। १७.
पुष्पादीनां तृणानाञ्च प्रोक्षणं हविषान्तथा। पराहृतानां द्रव्याणां निधायाभ्युक्षणं तथा ।। १७.
प्रोक्षितन्तु हरेत् किञ्चि च्छ्राद्धे दैव तथा पुनः। उत्तरेण हरेद्वेद्यां दक्षिणेन विसर्जयेत् ।। १७.
विच्छिन्नं स्याद्विपर्यासे दैवे पित्र्ये तथैव च। दक्षिणेन तु हस्तेन दक्षिणां वेदिमालिखेत् ।। १७.
कराभ्यामेव देवानां पितॄणां विकरं शुभम्। क्षुभितस्वप्नयोश्चैव तथा मूत्रपुरीषयोः ।। १७.
निष्ठीविते यथा व्यक्ते भुक्त्वा विपरिधाय च। उच्छिष्टस्य च संस्पर्शे तथा पादावसेचने ।। १७.
उत्सृष्टस्य सुमम्भाषे ह्यशुचिं प्रयतस्य च। सन्देहेषु च सर्वेषु शिखां मुक्त्वा तथैव च ।। १७.
विना यज्ञोपवीतेन मोहात्तु यद्युपस्पृषेत्। औष्ठस्य दन्तसंस्पर्शे दर्शने चान्त्यवासिनाम् ।। १७.
जिङ्वया चैव संस्पृश्य दन्तासक्तं तथैव च। सशब्दमङ्गुलीभिश्च प्रणतश्चावलो कयन् ।। १७.
यश्चाधर्मे स्थितो मोहादायान्तोऽप्यशुचिर्भवेत्। उपविश्य शुचौ देशे प्रणतः प्रागुदङ्मुखः ।। १७.
पादौ प्रक्षाल्य हस्तौ तु अन्तर्जानुरुप स्पृशेत्। प्रसन्नास्त्रिः पिबेच्चापः प्रयतः सुसमाहितः ।। १७.
द्विरेव मार्जनं कुर्यात्सकृदभ्युक्षणं ततः। खानि मूर्द्धानमात्मानं हस्तौ पादौ तथैव च ।। १७.
अभ्युक्षणं तथा तस्य यद्यमीमांसितं भवेत्। एवमाचमनं तस्य वेदा यज्ञास्तपांसि च ।। १७.
दानानि ब्रह्मचर्यञ्च भवन्ति सफलास्तथा। क्रियां यः कुरुते मोहादनाचम्यैव नास्तिकः ।। १७.
भवन्ति च वृथा तस्य क्रिया ह्येता न संशयः। वाग्भावशुद्धनिर्णिक्तमदुष्टं वाप्यनिन्दितम् ।। १७.
मेध्यान्येतानि ज्ञेयानि दुष्टमेभ्यो विपर्ययः। न वक्तव्यः सदा विप्रः क्षुधितो नास्ति किञ्चन ।। १७.
तस्मै सत्कृत्य यो दद्यादयूपो यज्ञ उच्यते। अप्लुष्टान्नं श्रृतान्नन्तु कृशवृत्तिमयाचकम् ।। १७.
एकान्तशीलं ह्रीमन्तं सदा श्राद्धेषु भोजयेत् । यो ददात्यान्तिमभ्येश्च स ब्रह्मघ्नो दुरात्मवान् ।। १७.