तैस्तैः प्रीताः प्रयच्छन्ति पितरो योगवर्द्धनाः। मनसा कांक्षितान् कामांस्त्रैलोक्यप्रभवानिति ।। १६.
अहो धीमंस्त्वया सूत श्राद्धकल्पस्तु कीर्तितः। श्रुतो नः श्राद्धकल्पो वै ऋषिभिः परिकीर्तितः ।। १७.
अतीव विस्तरो यस्य विशेषेण प्रकीर्तितः। वद शेषं महाप्राज्ञ ऋषेस्तस्य यथामतम् ।। १७.
कीर्तयिष्यामि ते विप्रा ऋषेस्तस्य मतन्तु तत्। श्राद्धं प्रति महाभागास्तन्मे श्रृणुत विस्तरात् ।। १७.
उक्तं श्राद्धं मया पूर्वं विधिश्च श्राद्धकर्म्मणि। परिशिष्टं प्रवक्ष्यामि ब्राह्मणानां यथाक्रमम् ।। १७.
न मीमांस्याः सदा विप्राः पवित्रं ह्येतदुत्तमम्। दैवे पित्र्ये च सततं श्रूयते वै परीक्षणम् ।। १७.
यस्मिन् दोषाः प्रदृश्येरन् सद्भिर्वा वर्जितस्तु यः। जानीयाद्वापि संवासाद्वर्ज्जयेत्तं प्रयत्नतः ।। १७.
अविज्ञातं द्विजं श्राद्धे परीक्षेत सदा बुधः । सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम् ।। १७.
तस्मादतिथिमायान्तमभिगच्छेत् कृताञ्जलिः। पूजयेच्चापि पाद्येन पादाभ्यञ्जनभोजनैः ।। १७.
उर्वीं सागरपर्यन्तां देवा योगेश्वरास्तथा। नाना रूपैश्चरन्त्येते प्रजा धर्म्मेण पालयन् ।। १७.
अर्चयित्वा ततो दद्याद्विप्रायातिथये नरः। व्यञ्जनानि च भक्ष्याणि फलं तेषां तथैव च ।। १७.
आग्निष्टोमं तु पयसा प्राप्नुयाद्वै तथाश्रुतम्। सर्पिषा तु शुभं चक्षुः षोडशाहफलं लभेत्। मधुना त्वतिरात्रस्य फलं च समवाप्नुयात् ।। १७.
तत्प्राप्नुयाच्छ्रद्दधानो नरो वै सर्वैः कामैर्भोजयेद्यस्तु विप्रान्। सर्वार्थदः सर्वविप्रातिथौ यः फलं भुङ्क्ते सर्वमेधस्य नित्यम् ।। १७.
यस्तु श्राद्धेऽतिथिं प्राप्य दैवे वाप्यवमन्यते। तं वै देवा विश्वयन्ति होता यद्वत् परां वसुम् ।। १७.
देवाश्च पितरश्चैव वह्निश्चैव हि तान् द्विजान् । आविश्य भुञ्जते तद्वै लोकानुग्रहकारणात् ।। १७.
अपूजिता दहन्त्येते दद्युः कामांश्च पूजिताः। सर्वस्वेनापि तस्माद्वै पूजयेदतिथीन् सदा ।। १७.
वानप्रस्थो गृहस्थश्च गृहमभ्यागतोऽथवा। बालाः खिन्ना यतिश्चैव जानीयादतिथीन् सदा ।। १७.
अभ्यागतो याचकः स्यादतिथिः स्यादयाचकः। अतिथेरतिथिः श्रेष्ठः सोऽतिथिर्योग उच्यते ।। १७.
न घोरो नापि सङ्कीर्णो नाविद्यो न विशेषवित्। न च सन्तो न समृद्धो न सेवी नाचरोऽतिथिः ।। १७.
पिपासिताय श्रान्ताय भ्रान्तायातिबुभुक्षते। तस्मै सत्कृत्य दातव्यं यज्ञस्य फलमिच्छता ।। १७.
आरुह्य भृगुतुङ्गोषु गत्वा पुण्यां सरस्वतीम्। आपगां तु नदी पुण्यां गङ्गा देवी महानदी ।। १७.
हिमवत्प्रभवा नद्यो याश्चान्या ऋषिपूजिताः । सरस्तीर्थाभिसंवेद्या नदी नववहास्तथा ।। १७.
गत्वैतान् मुच्यते पापैः स्वर्गे नित्यं महीयते। दशरात्रमशौचन्तु प्रोक्तं वै मृतसूतके ।। १७.
ब्राह्मणस्य विशेषेण क्षत्रिये द्वादश स्मृतम्। अर्द्धं मासन्तु वैश्यस्य मासाच्छूद्रस्तु शुध्यति ।। १७.
उदक्या सर्ववर्णानां त्रिरात्रेण तु शुद्धयति। उदक्यां सूतिकाञ्चैव श्वानमन्त्यावसायिनम् ।। १७.
नग्नादीन् मृतहारांश्च स्पृष्ट्वाऽशौचं विधीयते। स्नात्वा सचैलो मृद्भिस्तु द्वादशभिस्तु शुध्यति ।। १७.
एतदेव भवेच्छौचं मैथुने नवभिस्तथा। मृदा प्रक्षाल्य हस्तौ तु कुर्याच्छौचविधिन्नरः ।। १७.
प्रक्षाल्य चाद्भिर्हस्तौ च स्नात्वा चैव मृदा पुनः। मृदं गुह्ये ततो द्विस्तु पुनरेव मृदं बुधः ।। १७.
एवं शौच विधिर्दृष्टः सर्ववर्णेषु नित्यदा। परिदद्यान्मृदस्तिस्रो हस्तपादावसेचनम् ।। १७.
आरण्यं शौचमेतत्तु ग्राम्यं वक्ष्याम्यतः परम्। मृदस्तिस्रः पादयोस्तु हस्तयोस्तिस्र एव च ।। १७.