वार्ताकुं वर्जयेद्दद्यात्सर्वानभिषवानपि। सैन्धवं लवणं यच्च तथा मानससम्भवम् ।। १६.
पवित्रं परमं ह्येतत् प्रत्यक्षमपि वर्त्तते। अग्नौ निक्षिप्य बध्नीयाद्धस्तौ प्रक्षिप्य यत्नतः ।। १६.
गमयेन्मस्तकं चैव ब्रह्मतीर्थं हि तत्स्मृतम्। द्रव्याणां प्रोक्षणं कार्य्यं तथैवावपनं पुनः ।। १६.
निधाय चाद्भिः सिञ्चेत तथैवाप्सु निवेशनम्। अरिष्टतुमुले बिल्वं त्विङ्गुदश्वदनान्यपि ।। १६.
विदलानाञ्च सर्व्वेषां धर्मवच्छौचमिष्यते। तथा दन्तास्थिदारूणां श्रृङ्गाणाञ्चावलेखनम् ।। १६.
सर्वेषां मृन्मयानान्तु पुनर्दाह उदाहृतः। मणिवज्रप्रवालानां मुक्ताशङ्खमणेस्तथा ।। १६.
सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः । स्याच्छौचं सर्ववालानामाविकानाञ्च सर्वशः ।। १६.
आवि कानाञ्च सर्व्वेषां मृद्भिरद्भिर्विधीयते। आद्यन्तयोस्तु शौचानामद्भिः प्रक्षालनं पुनः ।। १६.
तथा कार्प्पासिकानाञ्च भस्मना समुदाहृतम्। फलपुष्प शलाकानां प्लावनञ्चाद्भिरिष्यते ।। १६.
संमार्जनं प्रोक्षणञ्च भूमेश्चैवोपलेपनम्। निष्क्रम्य बाह्यतो ग्रामाद्वायुपूता वसुन्धरा ।। १६.
धनुष्मत्पक्षिणाञ्चैव मृद्भिः शौचं विधीयते। एवमेष समुद्दिष्टः शौचानां विधिरुत्तमः। अतः परं प्रवक्ष्यामि तन्मे निगदतः श्रृणु ।। १६.
प्रातर्गृहात्पश्चिमदक्षिणेन इषुक्षेपञ्चाक्षमात्रं पदञ्च। कुर्य्यात्पुरीषं शिरोवगुण्ठ्य न च स्पृशेत्तत्र शिरः करेण ।। १६.
शुष्कैस्तृणैर्वा काष्ठैर्वा पत्रैर्वेणुदलेन वा। मृण्मयैर्भाजनैर्वापि तिरोधाय वसुन्धराम् ।। १६.
उद्धृतोदकमादाय मृत्तिकाञ्चैव वाग्यतः। दिवा उदङ्मुखः कुर्य्याद्रात्रौ वै दक्षिणामुखः ।। १६.
दक्षिणेन च हस्तेन गृह्णीयाद्वै कमण्डलुम्। शौचञ्च वामहस्तेन गुदे तिस्रस्तु मृत्तिकाः ।। १६.
दश चापि पुनर्दद्याद्वामहस्तक्रमेण तु । द्वाभ्यां वापि पुनर्दद्याद्धस्तानां पञ्च मृत्तिकाः ।। १६.
मृदा प्रक्षाल्य पादौ च आचम्य च यथाविधि। आपस्त्याज्यास्त्रयश्चैव सूर्य्याग्निपवनाम्भसाम् ।। १६.
कुर्य्यात् सन्निहितं नित्यं प्राज्ञस्तीर्थे कमण्डलुम्। असत्कार्यं कार्यमेतैर्यथावत्पादधावनम् ।। १६.
आचमनं द्वितीयेन देवकार्यं ततः परम्। उपवास स्त्रिरात्रन्तु दुष्टहस्ते ह्युदाहृतः ।। १६.
विप्रकृष्टेन कृच्छ्रेण प्रायश्चित्तमुदाहृतम्। स्पृष्ट्वा श्वानं श्वपाकं वा तप्तकृच्छ्रं समाचरेत् ।। १६.
मानुषास्थीनि संस्पृश्य उपोष्यं शुद्धिकारणम् । त्रिरात्रमुक्तं सस्नेहमेकरात्रमतोऽन्यथा ।। १६.
कारस्कराः पुलिन्दाश्च तथान्धशबरादय। पीत्वा चापोभूतिलये गत्वा चैव युगन्धराम् ।। १६.
सिन्धोरुत्तरपर्य्यन्तं तथा दिव्यन्तरे शतम्। पापदेशाश्च ये केचित्पापरध्युषिता जनैः ।। १६.
शिष्टैश्च वर्जिता ये च ब्राह्मणैर्वेदपारगैः। गत्वा देशानपुण्यांस्तु कृत्स्नं पापं समश्नुते ।। १६.
मनोव्यक्तिरथाग्निश्च काले चैवोपलेपनम्। विख्यापनञ्च शौचानां नित्यमज्ञानमेव च ।। १६.
अतोन्यथा तु यः कुर्य्यान्मोहाच्छौचस्य सङ्करम्। पिशाचान् यातुधानांश्च फलं गच्छत्यसंशयम् ।। १६.
शौचमश्रद्दधानश्च म्लेच्छजातिषु जायते। अयज्ञाश्चैव पापो वा तिर्य्यग्योनिगतोऽपि वा ।। १६.
शौचेन मोक्षं कुर्वाणः स्वर्गवासी भवेन्नरः। शुचिकामा हि देवा वै देवैरेतदुदाहृतम् ।। १६.
बीभत्समशुचिञ्चैव वर्जयन्ति सुराः सदा। त्रीणि शौचानि कुर्वन्ति न्यायतः शुभकर्मणः ।। १६.
ब्रह्मण्यायातिथेयाय शौचयुक्ताय धीमते। पितृभक्ताय दान्ताय सानुक्रोशाय च द्विजाः ।। १६.