युद्धानि द्वापरे नित्यं पाषण्डाश्च कलौ युगे। अपमानापवित्रश्च कुक्कुटो ग्रामसूकरः ।। १६.
श्वा चैव दर्शनादेव हन्ति श्राद्धं न संशयः। शावसूतकसंस्पृष्टो दीर्घरोगिभिरेव च ।। १६.
मलिनैः पतितैश्चैव न द्रष्टव्यं कथञ्चन। अन्नं पश्येयुरेते वै नैतत्स्याद्धव्यकव्ययोः ।। १६.
तत्संस्पृष्टं प्रधानार्थं संस्कारश्वापदो भवेत्। हविषां संहतानां तु पूर्व्वमेव विवर्जितम्। मृत्संयुक्ताभिरद्भिश्च प्रोक्षणं च विधीयते ।। १६.
सिद्धार्थकैः कृष्णतिलैः कार्य्यं वाप्यवकीरणम्। गुरुसूर्य्याग्निवस्तूनां दर्शनं वापि यत्नतः ।। १६.
आसनारूढमानेषु पादोपहतमेव च। अमेध्यैर्जङ्गमैर्दृष्टं शुष्कं पर्युषितं च यत् ।। १६.
असितं परिदुष्टं च तथैवाग्रावलेहितम्। शर्कराकेशपाषाणैः कीटैर्यच्चाप्युपद्रुतम् ।। १६.
पिण्याकमथितं चैव तथा तिलयवादिषु। सिद्धाक्षताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः ।। १६.
वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि। सन्ति वेदविरोधेन केचिद्विज्ञानमानिनः ।। १६.
अजज्ञपतयो नाम ते श्राद्धस्य यथा रजः। दधि शाकं तथाऽभक्ष्याः शुक्तं चैव विवर्जितम् ।। १६.
वार्ताकुं वर्जयेद्दद्यात्सर्वानभिषवानपि। सैन्धवं लवणं यच्च तथा मानससम्भवम् ।। १६.
पवित्रं परमं ह्येतत् प्रत्यक्षमपि वर्त्तते। अग्नौ निक्षिप्य बध्नीयाद्धस्तौ प्रक्षिप्य यत्नतः ।। १६.
गमयेन्मस्तकं चैव ब्रह्मतीर्थं हि तत्स्मृतम्। द्रव्याणां प्रोक्षणं कार्य्यं तथैवावपनं पुनः ।। १६.
निधाय चाद्भिः सिञ्चेत तथैवाप्सु निवेशनम्। अरिष्टतुमुले बिल्वं त्विङ्गुदश्वदनान्यपि ।। १६.
विदलानाञ्च सर्व्वेषां धर्मवच्छौचमिष्यते। तथा दन्तास्थिदारूणां श्रृङ्गाणाञ्चावलेखनम् ।। १६.
सर्वेषां मृन्मयानान्तु पुनर्दाह उदाहृतः। मणिवज्रप्रवालानां मुक्ताशङ्खमणेस्तथा ।। १६.
सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः । स्याच्छौचं सर्ववालानामाविकानाञ्च सर्वशः ।। १६.
आवि कानाञ्च सर्व्वेषां मृद्भिरद्भिर्विधीयते। आद्यन्तयोस्तु शौचानामद्भिः प्रक्षालनं पुनः ।। १६.
तथा कार्प्पासिकानाञ्च भस्मना समुदाहृतम्। फलपुष्प शलाकानां प्लावनञ्चाद्भिरिष्यते ।। १६.
संमार्जनं प्रोक्षणञ्च भूमेश्चैवोपलेपनम्। निष्क्रम्य बाह्यतो ग्रामाद्वायुपूता वसुन्धरा ।। १६.
धनुष्मत्पक्षिणाञ्चैव मृद्भिः शौचं विधीयते। एवमेष समुद्दिष्टः शौचानां विधिरुत्तमः। अतः परं प्रवक्ष्यामि तन्मे निगदतः श्रृणु ।। १६.
प्रातर्गृहात्पश्चिमदक्षिणेन इषुक्षेपञ्चाक्षमात्रं पदञ्च। कुर्य्यात्पुरीषं शिरोवगुण्ठ्य न च स्पृशेत्तत्र शिरः करेण ।। १६.
शुष्कैस्तृणैर्वा काष्ठैर्वा पत्रैर्वेणुदलेन वा। मृण्मयैर्भाजनैर्वापि तिरोधाय वसुन्धराम् ।। १६.
उद्धृतोदकमादाय मृत्तिकाञ्चैव वाग्यतः। दिवा उदङ्मुखः कुर्य्याद्रात्रौ वै दक्षिणामुखः ।। १६.
दक्षिणेन च हस्तेन गृह्णीयाद्वै कमण्डलुम्। शौचञ्च वामहस्तेन गुदे तिस्रस्तु मृत्तिकाः ।। १६.
दश चापि पुनर्दद्याद्वामहस्तक्रमेण तु । द्वाभ्यां वापि पुनर्दद्याद्धस्तानां पञ्च मृत्तिकाः ।। १६.
मृदा प्रक्षाल्य पादौ च आचम्य च यथाविधि। आपस्त्याज्यास्त्रयश्चैव सूर्य्याग्निपवनाम्भसाम् ।। १६.
कुर्य्यात् सन्निहितं नित्यं प्राज्ञस्तीर्थे कमण्डलुम्। असत्कार्यं कार्यमेतैर्यथावत्पादधावनम् ।। १६.
आचमनं द्वितीयेन देवकार्यं ततः परम्। उपवास स्त्रिरात्रन्तु दुष्टहस्ते ह्युदाहृतः ।। १६.
विप्रकृष्टेन कृच्छ्रेण प्रायश्चित्तमुदाहृतम्। स्पृष्ट्वा श्वानं श्वपाकं वा तप्तकृच्छ्रं समाचरेत् ।। १६.