आहारः फलमूलन्तु प्रजानामभत्किल । वैन्यात्प्रभृति लोकेऽस्मिन्सर्वस्यैतस्य सम्भवः
कृच्छ्रेण महता सोऽपि प्रनष्टास्वोषधीषु वै । स कल्पयित्वा वत्सन्तु चाक्षुषं मनुमीश्वरः । पृथुर्दुदोह सस्यानि स्वतले पृथिवीं ततः
सस्यानि तेन दुग्धानि वैन्येन तु वसुन्धराम् । मनुञ्च चाक्षुषं कृत्वा वत्सम्पात्रे च भूमये । तेनान्नेन तदा ता वै वर्त्तयन्ते प्रजाः सदा
ऋषिभिः स्तूयते वापि पुनर्दुग्धा वसुन्धरा । वत्सः सोमस्त्वभूत्तेषां दोग्धा चापि बृहस्पतिः
पात्रमासीत्तु छन्दांसि गायत्र्यादीनि सर्वशः । क्षीरमासीत्तदा तेषां तपो ब्रह्म च शाश्वतम्
पुनः स्तुत्वा देवगणैः पुरन्दरपुरोगमैः । सौवर्णं पात्रमादाय अमृतं दुदुहे तदा । तेनैव वर्त्तयन्ते च देवा इन्द्रपुरोगमाः
नागैश्च स्तूयते दुग्धा विषं क्षीरं तदा मही । तेषाञ्च वासुकिर्दोग्धा काद्रवेया महौजसः
नागानां वै द्विजश्रेष्ठ सर्पाणाञ्चैव सर्वशः । तेनैव वर्त्तयन्त्युग्रा महाकाया महोल्बणाः । तदाहारास्तदाचारास्तद्वीर्यास्तु सदाश्रयाः
श्राम(आम)पात्रे पुनर्दुग्धा त्वन्तर्द्धानमियं मही । वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तथा ॥२.१.
६२.१८२ दोग्धा च जतुनाभस्तु पिता मणिवरस्य सः । यक्षात्मजो महातेजा वशी स सुमहाबलः । तेन ते वर्त्तयन्तीति परमर्षिरुवाच ह
राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा । ब्रह्मोपेतस्तु दोग्धा वै तेषामासीत्कुबेरकः
रक्षः सुमाली बलवान्क्षीरं रुधिरमेव च । कपालपात्रे निर्दुग्धा अन्तर्द्धानञ्च राक्षसैः । तेन क्षीरेण रक्षांसि वर्त्तयन्तीह सर्वशः
पद्मपात्रे पुनर्दुग्धा गन्धर्वैरप्सरोगणैः । वत्सं चित्ररथं कृत्वा शुचीन् गन्धास्तथैव च
तेषां विश्वावसुस्त्वासीद्दोग्धा पुत्रो मुनेः शुचिः । गन्धर्वराजोऽतिबलो महात्मा सूर्यसन्निभः
शैलैश्च स्तूयते दुग्धा पुनर्देवी वसुन्धरा । तत्रौषधीर्मूर्त्तिमती रत्नानि विविधानि च
वत्सस्तु हिमवांस्तेषां मेरुर्दोग्धा महागिरिः । पात्रन्तु शैलमेवासीत्तेन शैलः प्रतिष्ठितः
स्तूयते वृक्षवीरुद्भिः पुनर्दुग्धा वसुन्धरा । पलाशपात्रमादाय दुग्धं छिन्नप्ररोहणम्
कामधुक् पुष्पितः शैलः प्लक्षो वत्सो यशस्विनी । सर्वकामदुघा दोग्ध्री पृथिवी भूतभाविनी
सैषा धात्री विधात्री च धारणी च वसुन्धरा । दुग्धा हितार्थं लोकानां पृथुना इति नः श्रुतम् । चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च ॥२.१.
उत्तरार्द्धम् -
सूत उवाच ।। आसीदियं समुद्रान्ता मेदिनीति परिश्रुता। वसु धारयते यस्माद्वसुधा तेन चोच्यते ।। २.
इयञ्चासीत् समुद्रान्ता मेदिनीति परिश्रुता। दुहितृत्वमनुप्राप्ता पृथिवीत्युच्यते ततः ।। २.
प्रथिता प्रविभक्ता च शोभिता च वसुन्धरा। सस्याकरवती राज्ञा पत्तनाकरमालिनी। चातुर्वर्ण्यसमाकीर्णा रक्षिता तेन धीमता ।। २.
एवंप्रभावो राजासीद्वैन्यः स नृपसत्तमः। नमस्यश्चैव पूज्यश्च भूतग्रामेण सर्वशः ।। २.
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः। पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ।। २.
पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः। आदिराजा न मस्कार्यः पृथुर्वैन्यः प्रतापवान् ।। २.
योधैरपि च संग्रामे प्रार्थयानैर्जयं युधि। आदिकर्त्ता नराणां वै नमस्यः पृथुरेव हि ।। २.
यो हि योद्धा रणं याति कीर्त्तयित्वा पृथुं नृपम्। स घोररूपे संग्रामे क्षेमी तरति कीर्तिमान् ।। २.
वैश्यैरपि च राजर्षिर्वैश्यवृत्तिसमास्थितैः। पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ।। २.
एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च। पात्राणि च मयोक्तानि सर्वाण्येव यथाक्रमम् ।। २.