श्लेष्माणः शीतला हृद्या मधुराश्च तथेक्षवः। श्यामाकैरिक्षुभिश्चैव पितॄणां सार्व्वकामिकम्। कुर्य्यादाग्रयणं यस्तु स शीघ्रं सिद्धिमाप्नुयात् ।। १६.
श्यामाका हस्तिनामा च पटोलं बृहतीफलम्। अगस्त्यस्य शिखा तीव्रा कषायाः सर्व्व एव च ।। १६.
एवमातीनि चान्यानि स्वादूनि मधुराणि च । नागरं चात्र वै देयं दीर्घमूलकमेव च ।। १६.
वंशीकरीराः सुरसाः सर्ज्जकं भूस्तृणानि च। वर्जनीयानि वक्ष्यामि श्राद्धकर्म्मणि नित्यशः ।। १६.
लशुनं गृञ्जनञ्चैव पलाण्डुः पिण्डमूलकम्। करम्भाद्यानि चान्यानि हीनानि रसगन्धतः ।। १६.
श्राद्धकर्म्मणि वर्ज्यानि कारणञ्चात्र वक्ष्यते। पुरा देवासुरे युद्धे निर्जितस्य बलेः सुरैः ।। १६.
व्रणेभ्यो विस्फुरन्तो वै पतिता रक्तबिन्दवः। तत एतानि वर्ज्यानि श्राद्धकर्म्मणि नित्यशः ।। १६.
अथ वेदोक्तनिर्यासान् लवणान्यूषरणानि च। श्राद्ध कर्म्मणि वर्ज्यानि याश्च नार्यो रजस्वलाः ।। १६.
दुर्गन्धं फेनिलं चैव तथा वै पल्वलोदकम्। न लभेद्यत्र गौस्तृप्तिं नक्तं यच्चैव गृह्यते ।। १६.
आविकं मार्गमौष्ट्रं च सर्व्वमेकशफं च यत्। माहिषञ्चामरञ्चैव पयो वर्ज्यं विजानता ।। १६.
अतः परं प्रवक्ष्यामि वर्ज्यान् देशान् प्रयत्नतः। न द्रष्टव्यं च यैः श्राद्धं शौचाशौचं च कृत्स्नशः ।। १६.
वन्यमूलफलाहारैः श्राद्धं कुर्य्यात्तु श्रद्धया। राष्ट्रमिष्टमवाप्नोति स्वर्गं मोक्षं यशस्करम् ।। १६.
अनिष्ट शब्दसङ्कीर्णं जन्तुव्याप्तमथापि वा। पूतिगन्धां तथा भूमिं श्राद्धकर्म्मणि वर्जयेत् ।। १६.
नद्यः सागरपर्य्यन्ता द्वारं दक्षिणपूर्व्वतः । त्रिशङ्कुं वर्जयेद् देशं सर्व्वं द्वादशयोजनम् ।। १६.
उत्तरेण महानद्या दक्षिणेन च कैकटात्। देशस्त्रैशङ्कवो नाम वर्जितः श्राद्धकर्म्मणि ।। १६.
कारङ्कराः कलिङ्गाश्च सिन्धोरुत्तरमेव च। प्रनष्टाश्रमधर्म्माश्च वर्ज्या देशाः प्रयत्नतः ।। १६.
नग्नादयो न पश्येयुः श्राद्धमेव व्ययस्थितम्। गच्छन्ति तैस्तैर्दृष्टानि न पितॄन्न पितामहान् ।। १६.
नग्नादीन् भगवन् सम्यङ्ममाद्य परिपृच्छतः। कथय द्विजमुख्याग्र विस्तरेण यथातथम् ।। १६.
एवमुक्तो महातेजा बृहस्पतिरुवाच तम्। सर्वेषामेव भूतानां त्रयीसंवरणं स्मृतम् ।। १६.
परित्यजति यो मोहात्ते वै नग्ना द्विजोत्तमाः। प्रलीयते नरो यः स्यान्निरालम्बश्च यो वृषः ।। १६.
वृषं यश्च परित्यज्य मोक्षमन्यत्र मार्गति । वृषो वेदसमस्तस्मिन् यो वै सम्यङ्न पश्यति ।। १६.
ब्राह्मणाः क्षत्रिया वैश्या वृषलाश्चैव सर्व्वशः। पुरा देवासुरे युद्धे निर्जितैरसुरैस्तदा ।। १६.
पाषण्डवैकृतस्थाने नैषा सृष्टिः स्वयम्भुवा। द्विश्राद्धकश्च निर्ग्रन्थाः शाक्या पुष्टिकलंशकाः ।। १६.
ये धर्म्मं नानुवर्त्तन्ते ते वै नग्नादयो जनाः। वृथाजटी वृथामुद्री वृथानग्नश्च यो द्विजः ।। १६.
वृथाव्रती वृथा जापी ते वै नग्नादयो जनाः। कुलन्धमा निषादाश्च तथा पुष्टिविनाशकाः ।। १६.
कृतकर्म्माक्षितास्त्वेते कुपथाः परिकीर्त्तिताः। एभिर्निर्वृत्तं दृष्टं वा श्राद्धं गच्छन्ति मानवाः ।। १६.
ब्रह्मघ्नश्च कृतघ्नश्च नास्तिका गुरुतल्पगाः। दस्यवश्च नृशंसाश्च दर्शनेनैव वर्जिताः ।। १६.
ये चान्ये पाप कर्म्माणः सर्व्वांस्तान् परिवर्जयेत्। देवदेवर्षिनिन्दायां रतांश्चैव विशेषतः ।। १६.
असुरान् यातुधानांश्च दृष्टमेभिर्व्रजन्त्युत। ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्रियं स्मृतम् ।। १६.
वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम् पितर ऊचुः १६.