एवमेतेषु सर्व्वेषु श्राद्धं कुर्य्यादतन्द्रितः। एवमेव तु मेधावी ब्राह्मीं सिद्धिमवाप्नुयात् ।। १५.
त्रैवर्ण्ये विहिते स्थाने धर्म्मवर्णाश्रमे तथा। कोपस्थानस्य संत्यागात्प्राप्यते पितृपूजनम् ।। १५.
तीर्थान्यनुसरन् धीरः श्रद्दधानो जितेन्द्रियः। कृतपापश्च शुद्ध्येत किं पुनः शुभकर्म्मकृत् ।। १५.
तिर्यग्योनिं न गच्छेच्च कुदेशे न च जायते। स्वर्गी भवति वै विप्रो मोक्षोपायं च विन्दति ।। १५.
अश्रद्दधानाः पाप्मानो नास्तिकाः स्थितसंशयाः। हेतुद्रष्टा च पञ्चैते न तीर्थफलमश्र्नुते ।। १५.
गुरुतीर्थे परा सिद्धिस्तीर्थानां परमं पदम् । ध्यानं तीर्थपरं तस्माद्ब्रह्मतीर्थं सनातनम् ।। १५.
उपवासात्परं ध्यानमिन्द्रियाणां निवर्त्तनम्। उपवासनिबद्धा हि प्राणैरिह पुनः पुनः ।। १५.
प्राणापानौ समौ कृत्वा विषयाणीन्द्रियाणि च । बुद्धिं मनसि संयम्य सर्व्वेषां तु निवर्त्तनम् ।। १५.
प्रत्याहारं पुनर्विद्धि मोक्षोपायमसंशयम्। इन्द्रियाणां मनो घोरं बुद्ध्यादीनां प्रवर्त्तनम् ।। १५.
अनाहारात्क्षयं याति विद्यादनशनं तपः। निग्रहाद्बुद्धिमनसो रम्या बुद्धिस्तु जायते ।। १५.
क्षीणेषु सर्व्वपापेषु क्षीणेष्वेवेन्द्रियेषु च। परिनिर्वाति शुद्धात्मा यथा वह्निर्निरिन्धनः ।। १५.
कारणेभ्यो गुणेभ्योऽथ व्यक्ताव्यक्तस्य कृत्स्नशः। वियोजयति क्षेत्रज्ञं तेभ्यो योगेन योगवित् ।। १५.
तस्य नास्ति गतिस्थानं व्यक्ताव्यक्तं न संशयः। आसन्नः सदसन्नैव नैव किञ्चित् स्थित इति ।। १५.
अतः परं प्रवक्ष्यामि दानानि च फलानि च। श्राद्धकर्म्माणि मेध्यानि वर्जनीयानि यानि च ।। १६.
हिमप्रपतने कुर्य्यादाहरेद्वा हिमन्ततः। अग्निहोत्रमतः पुण्यं परमं हि ततः स्मृतम् ।। १६.
नक्तन्तु वर्जयेच्छ्राद्धं राहोरन्यत्र दर्शनात्। सर्व्वस्वेनापि कर्त्तव्यं क्षिप्रं वै राहुदर्शने ।। १६.
उपरागे न कुर्य्याद्यः पङ्के गौरिव सीदति। कुर्वाणस्तूद्धरेत्पापान्मग्नान्नौरिव सागरे ।। १६.
विश्वदेवञ्च सौम्यञ्च बहुमांसपरं हविः । विषाणं वर्जयेत्खाड्गमसूयानाशनाय वै ।। १६.
त्वष्टा वै वार्य्यमाणस्तु देवेशेन महात्मना। पिबञ्छचीपतेः सोमं पृथिव्यामपतत्पुरा ।। १६.
श्यामाकास्तु तथोत्पन्नाः पित्रर्थमपि पूजिताः। विप्रुषस्तस्य नासाभ्यामसक्ताभ्यां तथैव च ।। १६.
श्लेष्माणः शीतला हृद्या मधुराश्च तथेक्षवः। श्यामाकैरिक्षुभिश्चैव पितॄणां सार्व्वकामिकम्। कुर्य्यादाग्रयणं यस्तु स शीघ्रं सिद्धिमाप्नुयात् ।। १६.
श्यामाका हस्तिनामा च पटोलं बृहतीफलम्। अगस्त्यस्य शिखा तीव्रा कषायाः सर्व्व एव च ।। १६.
एवमातीनि चान्यानि स्वादूनि मधुराणि च । नागरं चात्र वै देयं दीर्घमूलकमेव च ।। १६.
वंशीकरीराः सुरसाः सर्ज्जकं भूस्तृणानि च। वर्जनीयानि वक्ष्यामि श्राद्धकर्म्मणि नित्यशः ।। १६.
लशुनं गृञ्जनञ्चैव पलाण्डुः पिण्डमूलकम्। करम्भाद्यानि चान्यानि हीनानि रसगन्धतः ।। १६.
श्राद्धकर्म्मणि वर्ज्यानि कारणञ्चात्र वक्ष्यते। पुरा देवासुरे युद्धे निर्जितस्य बलेः सुरैः ।। १६.
व्रणेभ्यो विस्फुरन्तो वै पतिता रक्तबिन्दवः। तत एतानि वर्ज्यानि श्राद्धकर्म्मणि नित्यशः ।। १६.
अथ वेदोक्तनिर्यासान् लवणान्यूषरणानि च। श्राद्ध कर्म्मणि वर्ज्यानि याश्च नार्यो रजस्वलाः ।। १६.
दुर्गन्धं फेनिलं चैव तथा वै पल्वलोदकम्। न लभेद्यत्र गौस्तृप्तिं नक्तं यच्चैव गृह्यते ।। १६.
आविकं मार्गमौष्ट्रं च सर्व्वमेकशफं च यत्। माहिषञ्चामरञ्चैव पयो वर्ज्यं विजानता ।। १६.