अल्पेनाप्यत्र कालेन नरो धर्म्मपरायणः। पाप्मानमुत्सृजत्याशु जीर्णत्वचमिवोरगः ।। १५.
सिद्धानां प्रीतिजननैः पापा नाञ्च भयङ्करैः। लेलिहानैर्महाभोगै रक्षितन्तु दिवानिशम् ।। १५.
नाम्ना कनकनन्दीति तीर्थं त्रैलोक्यविश्रुतम्। उदीच्यां मुण्डपृष्ठस्य देवर्षि गणसेवितम्। तत्र स्रात्वा दिवं यान्ति कामचारा विहङ्गमाः ।। १५.
दत्तं चापि तथा श्राद्धमक्षयं समुदाहृतम्। ऋणैस्त्रिभिस्तदा स्नात्वा निक्षिणोति नरोत्तमः ।। १५.
तीरे तु सरसस्तत्र देवस्यायतनं महत्। आरुह्य तज्जपंस्तत्र सिद्धो याति दिवं ततः ।। १५.
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् । तत्र गत्वा पुरश्रेष्ठं दृश्यते महदद्भुतम् ।। १५.
तस्मिन्निर्वर्त्तयेच्छ्राद्धं यथाशक्ति यथाबलम्। कामान् स लभते दिव्यान् मोक्षोपायं च नित्यशः ।। १५.
मानसे सरसि श्रेष्ठे दृश्यते महदद्भुतम्। दिवश्च्युता महाभागा ह्यन्तरिक्षे विराजते ।। १५.
गङ्गा त्रिपथगा देवी सोमपादाच्च्युता भुवि। आकाशे दृश्यते तत्र तोरणं सूर्य्यसन्निभम् ।। १५.
जाम्बूनदमयं दिव्यं स्वर्गद्वारमिवायतम्। यतः प्रवर्त्तते भूयः पूर्व्वसागरमन्तिमम् ।। १५.
पावनी सर्व्वभूतानां धर्मज्ञानां विशेषतः। चन्द्रभागा च सिन्धुश्च उभौ मानससन्निभौ। सागरं पश्चिमं याति दिव्यसिन्धुर्नदीवरः ।। १५.
पर्व्वतो हिमवान्नाम नानाधातुविभूषितः। योजनानां सहस्राणि आयतोऽशीतिरुच्यते ।। १५.
सिद्धचारणसङ्कीर्णः सिद्धचारणसेवितः। तत्र पुष्करिणी रम्या सुषुम्ना नाम विश्रुता ।। १५.
दशवर्षसहस्राणि तत्र जातस्तु जीवति। श्राद्धं भवति चानन्त्यं तस्यां दत्तं महोदयम्। तारयेच्च यदा श्राद्धं दशपूर्व्वान्दशापरान् ।। १५.
सर्व्वं पुण्यं हिमवतो गङ्गा पुण्या च सर्व्वतः। समुद्रगाः समुद्राश्च सर्व्वे पुण्याः समन्ततः ।। १५.
एवमादिषु सर्व्वेषु श्राद्धं निर्वर्त्तयेद्बुधः । पूतो भवति स्नात्वा नु दत्त्वा दत्त्वा तथैव च ।। १५.
शैलसानुषु तुङ्गेषु कन्दरेषु गुहासु च। उपह्वरनितम्बेषु तथा प्रस्रवणेषु च ।। १५.
पुलिनेष्वापगानां च तथैव प्रभवे युगे। महोदधौ गवां गोष्ठे सङ्गमेषु वनेषु च ।। १५.
असंसृष्टोपलिप्तासु हृद्यासु सुरभीषु च। गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च ।। १५.
कुर्य्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि। प्रदक्षिणं दिशं गत्वा सर्व्वकामचिकीर्षवः ।। १५.
एवमेतेषु सर्व्वेषु श्राद्धं कुर्य्यादतन्द्रितः। एवमेव तु मेधावी ब्राह्मीं सिद्धिमवाप्नुयात् ।। १५.
त्रैवर्ण्ये विहिते स्थाने धर्म्मवर्णाश्रमे तथा। कोपस्थानस्य संत्यागात्प्राप्यते पितृपूजनम् ।। १५.
तीर्थान्यनुसरन् धीरः श्रद्दधानो जितेन्द्रियः। कृतपापश्च शुद्ध्येत किं पुनः शुभकर्म्मकृत् ।। १५.
तिर्यग्योनिं न गच्छेच्च कुदेशे न च जायते। स्वर्गी भवति वै विप्रो मोक्षोपायं च विन्दति ।। १५.
अश्रद्दधानाः पाप्मानो नास्तिकाः स्थितसंशयाः। हेतुद्रष्टा च पञ्चैते न तीर्थफलमश्र्नुते ।। १५.
गुरुतीर्थे परा सिद्धिस्तीर्थानां परमं पदम् । ध्यानं तीर्थपरं तस्माद्ब्रह्मतीर्थं सनातनम् ।। १५.
उपवासात्परं ध्यानमिन्द्रियाणां निवर्त्तनम्। उपवासनिबद्धा हि प्राणैरिह पुनः पुनः ।। १५.
प्राणापानौ समौ कृत्वा विषयाणीन्द्रियाणि च । बुद्धिं मनसि संयम्य सर्व्वेषां तु निवर्त्तनम् ।। १५.
प्रत्याहारं पुनर्विद्धि मोक्षोपायमसंशयम्। इन्द्रियाणां मनो घोरं बुद्ध्यादीनां प्रवर्त्तनम् ।। १५.
अनाहारात्क्षयं याति विद्यादनशनं तपः। निग्रहाद्बुद्धिमनसो रम्या बुद्धिस्तु जायते ।। १५.