कालञ्जरे दशार्णायां नैमिषे कुरुजाङ्गले। वाराणस्यां नगर्यां तु देयं श्राद्धं तु यत्नतः ।। १५.
तस्यां योगेश्वरो नित्यं तत्तस्यां दत्तमक्षयम्। दत्त्वा चैतेषु पूतः स्याच्छ्राद्धमानन्त्यमेव च ।। १५.
तपो होमस्तथा ध्यानं यत् किञ्चित्सुकृतं भवेत्। लौहित्ये वैतरण्यां वै स्वर्णवेद्यां तथैव च ।। १५.
सकृदेव समुद्रान्ते दृश्यते पुण्यकर्मभिः। गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्तथा ।। १५.
गयायां गृध्रकूटे च श्राद्धं दत्तं महाफलम्। हिमञ्च पतते तत्र समन्तात् पञ्चयोजनम् ।। १५.
भरतस्याश्रमे पुण्येऽरण्यं पुण्यतमं स्मृतम् । मतङ्गस्य पदं तत्र दृश्यते मांस चक्षुषा ।। १५.
ख्यापितं धर्म्मसर्व्वस्वं लोकस्यास्य निदर्शनम्। एवं पञ्चवनं पुण्यं पुण्यकृद्भिर्निषेवितम्। यस्मिन्पाण्डुविशालेति तीर्थं सद्यो निदर्शनम् ।। १५.
तुलामानैस्तथा चापैः शास्त्रैश्च विविधैस्तथा। उन्मज्जन्ति तथा लग्ने ये वै पापकृतो जनाः ।। १५.
तृतीयायां तथा पादे निःस्वरे पावमण्डले। महाह्रदे वै कौशिक्यां दत्तं श्राद्धं महाफलम् ।। १५.
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता। बहून्दवेयुगांस्तप्त्वा तपस्तीव्रं सुदुश्चरम् ।। १५.
अल्पेनाप्यत्र कालेन नरो धर्म्मपरायणः। पाप्मानमुत्सृजत्याशु जीर्णत्वचमिवोरगः ।। १५.
सिद्धानां प्रीतिजननैः पापा नाञ्च भयङ्करैः। लेलिहानैर्महाभोगै रक्षितन्तु दिवानिशम् ।। १५.
नाम्ना कनकनन्दीति तीर्थं त्रैलोक्यविश्रुतम्। उदीच्यां मुण्डपृष्ठस्य देवर्षि गणसेवितम्। तत्र स्रात्वा दिवं यान्ति कामचारा विहङ्गमाः ।। १५.
दत्तं चापि तथा श्राद्धमक्षयं समुदाहृतम्। ऋणैस्त्रिभिस्तदा स्नात्वा निक्षिणोति नरोत्तमः ।। १५.
तीरे तु सरसस्तत्र देवस्यायतनं महत्। आरुह्य तज्जपंस्तत्र सिद्धो याति दिवं ततः ।। १५.
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् । तत्र गत्वा पुरश्रेष्ठं दृश्यते महदद्भुतम् ।। १५.
तस्मिन्निर्वर्त्तयेच्छ्राद्धं यथाशक्ति यथाबलम्। कामान् स लभते दिव्यान् मोक्षोपायं च नित्यशः ।। १५.
मानसे सरसि श्रेष्ठे दृश्यते महदद्भुतम्। दिवश्च्युता महाभागा ह्यन्तरिक्षे विराजते ।। १५.
गङ्गा त्रिपथगा देवी सोमपादाच्च्युता भुवि। आकाशे दृश्यते तत्र तोरणं सूर्य्यसन्निभम् ।। १५.
जाम्बूनदमयं दिव्यं स्वर्गद्वारमिवायतम्। यतः प्रवर्त्तते भूयः पूर्व्वसागरमन्तिमम् ।। १५.
पावनी सर्व्वभूतानां धर्मज्ञानां विशेषतः। चन्द्रभागा च सिन्धुश्च उभौ मानससन्निभौ। सागरं पश्चिमं याति दिव्यसिन्धुर्नदीवरः ।। १५.
पर्व्वतो हिमवान्नाम नानाधातुविभूषितः। योजनानां सहस्राणि आयतोऽशीतिरुच्यते ।। १५.
सिद्धचारणसङ्कीर्णः सिद्धचारणसेवितः। तत्र पुष्करिणी रम्या सुषुम्ना नाम विश्रुता ।। १५.
दशवर्षसहस्राणि तत्र जातस्तु जीवति। श्राद्धं भवति चानन्त्यं तस्यां दत्तं महोदयम्। तारयेच्च यदा श्राद्धं दशपूर्व्वान्दशापरान् ।। १५.
सर्व्वं पुण्यं हिमवतो गङ्गा पुण्या च सर्व्वतः। समुद्रगाः समुद्राश्च सर्व्वे पुण्याः समन्ततः ।। १५.
एवमादिषु सर्व्वेषु श्राद्धं निर्वर्त्तयेद्बुधः । पूतो भवति स्नात्वा नु दत्त्वा दत्त्वा तथैव च ।। १५.
शैलसानुषु तुङ्गेषु कन्दरेषु गुहासु च। उपह्वरनितम्बेषु तथा प्रस्रवणेषु च ।। १५.
पुलिनेष्वापगानां च तथैव प्रभवे युगे। महोदधौ गवां गोष्ठे सङ्गमेषु वनेषु च ।। १५.
असंसृष्टोपलिप्तासु हृद्यासु सुरभीषु च। गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च ।। १५.
कुर्य्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि। प्रदक्षिणं दिशं गत्वा सर्व्वकामचिकीर्षवः ।। १५.