तुला तु दृश्यते यत्र धर्माधर्मप्रदर्शिनी। यया वै तुलितं विप्रैस्तीर्थानां फलमुत्तमम् ।। १५.
पितॄणां दुहिता योगा गन्धकालीति विश्रुता। चतुर्थो ब्रह्मणश्चांशः पराशरकुलोद्वहः ।। १५.
व्यस्य त्वेकं चतुर्द्धा तु वेदं धीमान् महामुनिः। महायोगं महात्मानं यो व्यासं जनयिष्यति ।। १५.
अच्छोदकं नाम सरो यत्राच्छोदा समुच्छ्रिता । मत्स्ययोनौ पुनर्जाता नियोगाद्वारणेन तु ।। १५.
तस्या यत्राश्रमः पुण्यः पुण्यकृद्भिर्निषेवितः। सकृद्दत्तं तु वै श्राद्धमक्षयं समुदाहृतम्। तस्यां योग समाधाने दत्तं युगपदुद्भवेत् ।। १५.
कुबेरतुङ्गे व्यामोच्चे व्यासतीर्थे तथैव च। पुण्यः स ब्राह्मणो दद्याछ्राद्धमानन्त्यमक्षयम् ।। १५.
सिद्धैस्तु सेविता नित्यं दृश्यते नाकृतात्मभिः। अनिवर्त्तनं तु नन्दायां वेद्यां प्रागुत्तरे दिशि ।। १५.
सिद्धक्षेत्रं तु वै जुष्टं यत्प्राप्य न निवर्त्तते। महालये पदं न्यस्तं महादेवेन धीमता ।। १५.
देव्यालये तपस्तप्त्वा एकपादेन ईश्वरः। नीहारश्च युगं दिव्यमुमातुङ्गे स्थितं जलम् ।। १५.
उमा तुङ्गे भृगोस्तुङ्गे ब्रह्मतुङ्गे महालये। काद्रवत्यां च शाण्डिल्यां गुहायां वामनस्य च ।। १५.
गत्वा चैतानि पूतः स्याच्छ्राद्धमक्षयमेव च। जपो होमस्तथा ध्यानं यत्किचित्सुकृतं भवेत् ।। १५.
ब्रह्मचर्यं यजन्ते वै गुरुभक्ताः शतं समाः । एवमादीनि सद्यस्तां स्नात्वा प्राप्नोति सत्फल्म् ।। १५.
कुमारधारा तत्रैव दृष्टा पापप्रणाशनी। यानासनं च तत्रैव सद्यः स्याद्यत् प्रदृश्यते ।। १५.
काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम्। तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता ।। १५.
काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम्। तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता ।। १५.
अक्षयं तु भवेच्छ्राद्धं शालग्रामसमन्ततः। दृष्ट्या न दृश्यते तत्र प्रत्यक्षमकृतात्मना ।। १५.
प्रत्यादेशो ह्यशिष्टानां शिष्टानां च निवेशनम् । तत्र चैव ह्रदे पुण्ये दिव्यो वै नागराड् यतः ।। १५.
पिण्डं गृह्णाति हिसतां न गृह्णात्यसतां हि सः। अतिप्रदीप्तैर्भुजगैर्भोक्तुमन्नं न शक्यते ।। १५.
प्रत्यक्षं दृश्यते धर्मस्तीर्थयोरनयोर्द्वयोः। देवदारुवने चापि चारयेस्तं निदर्शनम् ।। १५.
विधूतानि तु पापानि दृश्यन्ते सुकृतात्मना । भागीरथ्यां प्रयागे च नित्यमक्षय्यमुच्यते ।। १५.
कालञ्जरे दशार्णायां नैमिषे कुरुजाङ्गले। वाराणस्यां नगर्यां तु देयं श्राद्धं तु यत्नतः ।। १५.
तस्यां योगेश्वरो नित्यं तत्तस्यां दत्तमक्षयम्। दत्त्वा चैतेषु पूतः स्याच्छ्राद्धमानन्त्यमेव च ।। १५.
तपो होमस्तथा ध्यानं यत् किञ्चित्सुकृतं भवेत्। लौहित्ये वैतरण्यां वै स्वर्णवेद्यां तथैव च ।। १५.
सकृदेव समुद्रान्ते दृश्यते पुण्यकर्मभिः। गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्तथा ।। १५.
गयायां गृध्रकूटे च श्राद्धं दत्तं महाफलम्। हिमञ्च पतते तत्र समन्तात् पञ्चयोजनम् ।। १५.
भरतस्याश्रमे पुण्येऽरण्यं पुण्यतमं स्मृतम् । मतङ्गस्य पदं तत्र दृश्यते मांस चक्षुषा ।। १५.
ख्यापितं धर्म्मसर्व्वस्वं लोकस्यास्य निदर्शनम्। एवं पञ्चवनं पुण्यं पुण्यकृद्भिर्निषेवितम्। यस्मिन्पाण्डुविशालेति तीर्थं सद्यो निदर्शनम् ।। १५.
तुलामानैस्तथा चापैः शास्त्रैश्च विविधैस्तथा। उन्मज्जन्ति तथा लग्ने ये वै पापकृतो जनाः ।। १५.
तृतीयायां तथा पादे निःस्वरे पावमण्डले। महाह्रदे वै कौशिक्यां दत्तं श्राद्धं महाफलम् ।। १५.
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता। बहून्दवेयुगांस्तप्त्वा तपस्तीव्रं सुदुश्चरम् ।। १५.