अक्षयं सार्वकामीयं श्राद्धं प्रीणाति वै पितॄन्। जातवेदः शिला तत्र साक्षादग्नेः सनातनी ।। १५.
यस्त्वाग्निं प्रविशेत्तत्र नाकपृष्ठे स मोदते। अग्निः शान्तः पुनर्जातस्तस्मिन्दत्तं तदक्षयम् ।। १५.
दशाश्वमदिके तीर्थे तीर्थे पञ्चाश्वमेधिके। यथोद्दिष्टं फलं तेषां क्रतूनां नात्र संशयः ।। १५.
ख्यातं हयशिरो नाम तीर्थं सद्यो वरप्रदम्। श्राद्धं तत्र तदाक्षय्यं दत्त्वा स्वर्गे च मोदते ।। १५.
श्राद्धं कुम्भे विमुच्यन्ति ज्ञेयं पापनिषूदनम्। श्राद्धं तत्राक्षयं प्रोक्तं जप्यहोमतपांसि च ।। १५.
अझतुङ्गे शुभे तीर्थे तर्पयेत्सततं पितॄन्। दृश्यते पर्वसु च्छाया यत्र नित्यं दिवौकसाम्। पृथिव्यामक्षयं दत्तं निरुजा यत्र पाण्डवाः ।। १५.
योगेश्वरैः सदा जुष्टं सर्वपापबहिष्कृतैः। दद्याच्छ्राद्धन्तु यस्तस्मिस्तस्य वक्ष्यामि यत्फलम् ।। १५.
अर्चितास्तेन वै साक्षाद्भवन्ति पितरः सदा। अस्मिँल्लोके वशी यः स्यात्प्रेत्य स्वर्गे स मोदते ।। १५.
प्रायशः प्रवरः पुण्यः शिवो नाम ह्रदस्तथा। तत्र व्याससरः पुण्यं दिव्यं ब्रह्मसरस्तथा ।। १५.
उज्जन्तः पर्वतः पुण्यो वसिष्ठस्य महात्मनः। ऋग्यजुःसामशिरसः कापोतः पुष्पसाह्वयः। आख्यातः पञ्चमो वेदः सृष्ट्वा ह्येतेषु ब्रह्मणा ।। १५.
गत्वैतान् मुच्यते पापाद्द्विजो वह्निः सनातनः १५.
पुण्डरीके महातीर्थे पुण्डरीकसमं फलम्। ब्रह्मतीर्थे महातीर्थे अश्वमेधफलं लभेत् ।। १५.
सिन्धुसागरसम्भेदे तदा पञ्चनदेऽक्षयम् । कीरकात्मा ततः पुण्यो मण्डवायां च पर्वते ।। १५.
देयं सप्तह्रदे श्राद्धं मानसे च विशेषतः। महाकूटे च वन्दे च गिरौ त्रिरौ त्रिककुदे तथा ।। १५.
सन्ध्यायां च महावेद्यां दृश्यते महदद्भुतम्। अश्रद्दधानान्नाभ्येति साभ्येति च धृतव्रतान् ।। १५.
जातवेदः शिला तत्र साक्षादग्नेः सनातनी। श्राद्धानि चाग्निकार्यं च तत्र कुर्यात् सदाक्षयम् ।। १५.
संश्रयित्वैकमेकेन सायाह्नं प्रति नित्यशः। तस्मिन्देयं सदा श्राद्धं पितॄणामक्षयार्थिना ।। १५.
कृतात्मा वाऽकृतात्मा वा यत्र विज्ञायते नरः। स्वर्ग्यमार्गप्रदं नाम तीर्थं सद्यो वरप्रदम्। वैराण्युत्सृज्य तस्मिस्तु दिवं सप्तर्षयो गताः ।। १५.
अद्यापि तानि दृश्यन्ते वैराण्येव गतानि तु। स्नात्वा स्वर्गमवाप्नोति तस्मिस्तीर्थोत्तमे नरः ।। १५.
ख्यातमायतनं तत्र नन्दिसिद्ध निषेवितम्। नन्दीश्वरस्य या मूर्त्तिर्दुराजारैर्न दृश्यते ।। १५.
दृश्यन्ते काञ्चना यूपाः सञ्चिष्ये भास्करोदये। कृत्वा प्रदक्षिणं ते तु गच्छन्त्यन्तर्हिता दिवम् ।। १५.
सर्वतश्च कुरुक्षेत्रं सुतीर्थञ्च विशेषतः। पुण्यं सनत्कुमारस्य योगेशस्य महात्मनः। कीर्त्त्यते च तिलान्दत्त्वा पितॄणां वै सदाऽक्षयम् ।। १५.
ओजसे चाक्षयं श्राद्धं धर्मराजनिवेशने। श्राद्धं दत्तममावस्यां विधिना च यथाक्रमम् ।। १५.
पुनः सन्निहितानां वै कुरुक्षेत्रे विशेषतः। अर्चयेद्वा पितॄंस्तत्र सत्पुत्रस्त्वनृणो भवेत् ।। १५.
विनशने सरस्वत्यां प्लक्षप्रश्रवणे तथा। व्यासतीर्थे सरस्वत्यां ब्रह्मक्षेत्रे विशेषतः ।। १५.
देयमोङ्कारपठनैः श्राद्धमक्षयमिच्छता। सर्वतश्चैव गङ्ग्यां मैनाके च नगोत्तमे ।। १५.
यमुनाप्रभवे चैव सर्वपापैः प्रमुच्यते । अत्युष्णाश्चातिशीताश्च आपस्तत्र निदर्शनम् ।। १५.
यमस्य भगिनी पुण्या मार्त्तण्डदुहिता तथा। तत्राक्षयं तदा श्राद्धं पितृभिः पूर्वकीर्त्तितम् ।। १५.
ब्रह्मानुगह्रदे स्नात्वा सद्यो भवति ब्राह्मणः। तस्मिन् हि श्राद्धमानन्त्यं जपहोमतपांसि च ।। १५.
स्थाणुभूतश्चरंस्तत्र वसिष्ठो वै महातपाः। अद्यापि यत्र दृश्यन्ते पादपा मणिचर्च्चिताः ।। १५.