दिव्यैश्वन्दनवृक्षैश्च पादपैरुपशोभितम्। आपः स्वादनसम्पृक्ता वहन्ति सततंयतः ।। १५.
नदी प्रवर्त्तते ताभ्यस्ताम्रपर्णीति नामतः। योषेव समहाखेदा दक्षिणं याति सागरम् ।। १५.
नद्यास्तस्यास्तु या आपो मूर्च्छमाना महोदधौ। शङ्खा भवन्ति मुक्ताश्च जायन्ते शङ्खमुक्तिकाः ।। १५.
उदकानयनं कृत्वा शङ्खमौक्तिकसंयुतम्। आधिभिर्व्याधिभिश्चैव मुक्ता यान्त्यमरावतीम् ।। १५.
चन्दनेभ्यः प्रयुक्तानां शङ्खानां मौक्तिकस्य च। पाप कर्तॄनपि पितॄंश्तारयन्ति यथा श्रुतिः ।। १५.
चन्द्रतीर्थे कुमार्य्यान्तु कावेर्य्यां प्रभवेऽक्षये। श्रीपर्वतस्य तीर्थेषु वैकृते च तथा गिरौ ।। १५.
एकस्था यत्र दृश्यन्ते वृक्षा ह्योशिरपर्वते। पालाशाः खादिरा बिल्वा प्लक्षाश्वत्थविकङ्कताः ।। १५.
एतद्धि मण्डलं सिद्धं यज्ञीयं द्विजसत्तमाः। अस्मिन् मुक्त्वा जनोऽङ्गानि क्षिप्रं यात्यमरावतीम् ।। १५.
कर्माणि स्वप्रयुक्तानि सिध्यन्ति प्रभवात्यये । दुष्प्रसक्तानि पितृषु प्रयुक्तानि भवन्त्युत ।। १५.
पितॄणां दुहिता पुण्या नर्मदा सरितां वरा। तत्र श्राद्धानि दत्तानि अक्षयाणि भवन्त्युत ।। १५.
माठरस्य वने पुण्ये सिद्धचारणसेविते। अन्तर्द्धानं न गच्छन्ति सत्तास्तस्मिन्महागिरौ ।। १५.
विन्ध्ये चैव गिरौ पुण्ये धर्माधर्मनिदर्शनम्। पापधारां न पश्यन्ति धारां पश्यन्ति साधवः ।। १५.
तस्यां न दृश्यते पापं केषाञ्चित् पापकर्मणाम्। स्पष्टा भवति सा धारा प्रायशः शुभकर्मणाम् ।। १५.
कौशलायां मतङ्गस्य वापी पापनिषूदनी। स्नातास्तस्यां दिवं यान्ति कामचारविहङ्गमाः ।। १५.
कुमारकोशलातीर्थे पर्वते पालपञ्जरे। पाण्डु कूले समुद्रान्ते पण्डारकवने तथा ।। १५.
विमले च विपापे च सत्कृत्य प्रभवेऽभये। भीवृक्षे गृध्रकूटे च जम्बूमार्गे च नित्यशः ।। १५.
असितस्य गुरोः पुण्ये योगाचार्यस्य धीमतः। तत्रापि श्राद्धमानन्त्यमसितायाञ्च नित्यशः ।। १५.
पुष्करेष्वक्षयं श्राद्धं तपश्चैव महाफलम्। महोदधौ प्रभासे च तस्मादेवं विनिर्द्दिशेत् ।। १५.
देविकायां वृषो नाम कूपः सिद्धनिषेवितः। समुत्पतन्ति तस्यापो गवां शब्देन नित्यशः ।। १५.
योगेश्वरैः सदा जुष्टः सर्वपापबहिष्कृतैः। दद्याच्छ्राद्धन्तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम् ।। १५.
अक्षयं सार्वकामीयं श्राद्धं प्रीणाति वै पितॄन्। जातवेदः शिला तत्र साक्षादग्नेः सनातनी ।। १५.
यस्त्वाग्निं प्रविशेत्तत्र नाकपृष्ठे स मोदते। अग्निः शान्तः पुनर्जातस्तस्मिन्दत्तं तदक्षयम् ।। १५.
दशाश्वमदिके तीर्थे तीर्थे पञ्चाश्वमेधिके। यथोद्दिष्टं फलं तेषां क्रतूनां नात्र संशयः ।। १५.
ख्यातं हयशिरो नाम तीर्थं सद्यो वरप्रदम्। श्राद्धं तत्र तदाक्षय्यं दत्त्वा स्वर्गे च मोदते ।। १५.
श्राद्धं कुम्भे विमुच्यन्ति ज्ञेयं पापनिषूदनम्। श्राद्धं तत्राक्षयं प्रोक्तं जप्यहोमतपांसि च ।। १५.
अझतुङ्गे शुभे तीर्थे तर्पयेत्सततं पितॄन्। दृश्यते पर्वसु च्छाया यत्र नित्यं दिवौकसाम्। पृथिव्यामक्षयं दत्तं निरुजा यत्र पाण्डवाः ।। १५.
योगेश्वरैः सदा जुष्टं सर्वपापबहिष्कृतैः। दद्याच्छ्राद्धन्तु यस्तस्मिस्तस्य वक्ष्यामि यत्फलम् ।। १५.
अर्चितास्तेन वै साक्षाद्भवन्ति पितरः सदा। अस्मिँल्लोके वशी यः स्यात्प्रेत्य स्वर्गे स मोदते ।। १५.
प्रायशः प्रवरः पुण्यः शिवो नाम ह्रदस्तथा। तत्र व्याससरः पुण्यं दिव्यं ब्रह्मसरस्तथा ।। १५.
उज्जन्तः पर्वतः पुण्यो वसिष्ठस्य महात्मनः। ऋग्यजुःसामशिरसः कापोतः पुष्पसाह्वयः। आख्यातः पञ्चमो वेदः सृष्ट्वा ह्येतेषु ब्रह्मणा ।। १५.