एकं विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रतः। अनुज्ञाते तु तैर्विप्रैर्वानमुद्वियतामिति ।। १४.
पुष्पाणां चफलानां च भक्ष्याणामन्नतस्तथा। अग्रमुद्धृत्य सर्वेषां जुहुयाज्जातवेदसि ।। १४.
भक्ष्यमन्नं तथा पेयमनुत्तमफलानि च। हुत्वा चाग्नौ ततः पिण्डान्निर्वपेद्दक्षिणामुखः ।। १४.
स्निग्धैर्भक्ष्यैः सुगन्धैश्च तर्पयेत रसैस्तथा। एकाग्रः पर्युपासीत प्रयतः प्राञ्जलिः स्थितः। तत्परः श्रद्दधानश्च कामानाप्नोति मानवः ।। १४.
अक्षुद्रत्वं कृतज्ञत्वं दाक्षिण्यं सत्कृतञ्च यत्। ततो यज्ञञ्च दानञ्च प्रयच्छन्ति पितामहाः ।। १४.
अतः परं विधिं सौम्यं भुक्तवत्सु द्विजातिषु। आनुपूर्व्येण विधिना तन्मे निगदतः श्रृणु ।। १४.
प्रोक्ष्य भूमिमथोद्धृत्य पूर्वं पितृपरायणः। ततोऽत्र विकिरं कुर्यात् विधिदृष्टेन कर्मणा ।। १४.
स्वधां वाच्य ततो विप्रा विधिवद्भूरि दक्षिणान्। अन्नशेषमनुज्ञाप्य सत्कृत्य द्विजसत्तमान् । प्राञ्जलिः प्रयतश्चैव अनुगम्य विसर्जयेत् ।। १४.
सकृदभ्यर्चिताः प्रीता भवन्ति पितरोऽन्ययाः। योगात्मानो महात्मानो विपाप्मानो महौजसः ।। १५.
प्रेत्य च स्वर्गलाभाय कामैश्वर्यं सुविस्तरम् । येषां चाप्यनुगृह्णन्ति मोक्षप्राप्तिक्रमेण तु ।। १५.
तानि वक्ष्याम्यहं सौम्याः सरांसि सरितस्तथा। तीर्थानि चैव पुण्यानि देशाञ्जैलांस्तथाश्रमान् ।। १५.
पुण्यो यस्त्रिषु लोकेष्वमरकण्टकपर्वतः। पर्वतः प्रवरः पुण्यः सिद्धचारणसेवितः ।। १५.
यत्र वर्षसहस्राणि प्रयुतान्यर्बुदानि च। तपः सुदुश्चरं तेपे भगवानङ्गिराः पुरा ।। १५.
यत्र मृत्योर्गतिर्नास्ति तथैवासुररक्षसाम्। न भयं चैव वाऽलक्ष्मीर्यावद्भूमिर्धरिष्यति ।। १५.
तेजसा यशसा चैव भ्राजते स नगोत्तमः। श्रृङ्गमाल्यवतो नित्यं वह्निः संवर्तको यथा ।। १५.
मृदवश्च सुगन्धाश्च हेमाभाः प्रियदर्शनाः । शान्ताः कुशा इति ख्याताः पिबन्दक्षिणनर्मदाम् ।। १५.
दृष्टवान् स्वर्गसोपानं भगवानङ्गिराः पुरा। अग्निहोत्रे महातेजाः प्रस्तरार्थकुशोत्तमान् ।। १५.
तेषु दर्भेषु यः पिण्डानमरकण्टकपर्वते। दद्यात्सकृदपि प्राज्ञस्तस्य वक्ष्यामि यत्फलम् ।। १५.
तद्भवत्यक्षयं श्राद्धं पितॄणां प्रीतिवर्द्धनम् । अन्तर्द्धानं च गच्छन्ति क्षेत्रमासाद्य तत्सदा ।। १५.
तत्र ज्वालारसः पुण्यो दृश्यतेऽद्यापि सर्वशः। सशल्यानां च सत्त्वानां विशल्यकरणी नदी ।। १५.
प्राग्दक्षिणा तु सावर्त्ता वापी सा पर्वतोत्तमे। कलिङ्गदेशपार्श्वार्द्धे पितॄणां प्रीतिवर्द्धनम् ।। १५.
सिद्धक्षेत्रमृषिश्रेष्टा यदुक्तं परमं भुवि। सम्मतो देवदैत्यानां श्लोकमप्युशना जगौ ।। १५.
धन्यास्ते पुरुषा लोके ये प्राप्यामरकण्टकम्। पितॄन्सन्तर्पयिष्यन्ति श्राद्धे पितृपरायणाः ।। १५.
अल्पेन तपसा सिद्धिं गमिष्यन्ति न संशयः। सकृदेवार्चितास्तत्र स्वर्गममरकण्टके ।। १५.
महेन्द्रपर्वते रम्ये पुण्यं शक्रनिषेवितम्। तत्रारुह्य भवेत् प्रीतिः श्राद्धं चैव महत्फलम् ।। १५.
बिल्वाधःशिखरे युक्ता दिव्यं चक्षुः प्रवर्त्तते। अदृश्यं चैव भूतानां देववच्चरते महीम् ।। १५.
सप्तगोदावरे चैव गोकर्णे च तपोवने। अश्वमेधफलं तत्र स्नात्वा च लभतेनरः ।। १५.
धूतपापस्थलं प्राप्य पूतः स्नात्वा भवेन्नरः। रुद्रस्तत्र तपस्तेपे देवदेवो महेश्वरः ।। १५.
गोकर्णे वर्णितं विप्रैर्नस्तिकानां निदर्शनम्। अब्राह्मणस्य सावित्री पठतः सम्प्रणश्यति ।। १५.
देवर्षिभवने श्रृङ्गे सिद्धचारणसेविते। आरुह्य तं तु नियमात्ततो यान्ति त्रिविष्टपम् ।। १५.