पूजनञ्चैव विप्राणां सर्व्वमेव हि नित्यशः। तद्धि धर्मार्थकुशलानित्युवाच बृहस्पतिः ।। १४.
पूर्व्वं निवेदयेत्पिण्डं पश्चाद्विप्रांश्च भोजयेत्। योगात्मानो महात्मानः पितरो योग सम्भवाः। सोममाप्याययन्त्येते पितरो योगमास्थिताः ।। १४.
तस्माद्दद्याच्छुचिः पिण्डान् योगिभ्यस्तत्परायणः । पितॄणां हि भवेदेतत्साक्षादिव हुतं हविः ।। १४.
ब्राह्मणानां सहस्रेभ्यो योगी चाग्रासने यदि। यजमानञ्च भोक्तॄंश्च नौरिवाम्भसि तारयेत् ।। १४.
असतां प्रग्रहो यत्र सताञ्चैव विमानना। दण्डो देवकृतस्तत्र सद्यः पतति तारुणः ।। १४.
हित्वागमं सधर्माणं बालिशं यत्र भोजयेत्। आदिकर्म समुत्सृज्य दाता तत्र विनश्यति ।। १४.
पिण्डमग्नौ सदा दद्याद्भोगार्थी तु प्रयत्नतः । प्रजार्थी पत (त्न)ये दद्यान्मध्यमं तत्र पूर्वकम् ।। १४.
उत्तमां द्युतिमन्विच्छन् गोषु नित्यं प्रयच्छति। प्रज्ञां पूजां यशः कीर्त्तिं गोषु नित्यं प्रयच्छति ।। १४.
प्रार्थयन्दीर्घमायुश्च वायसेभ्यः प्रयच्छति। सौकुमार्यमथान्विच्छन् कुक्कुटेभ्यः प्रयच्छति ।। १४.
एवमेतत्समुद्दिष्टं पिण्डनिर्वपणात् फलम्। आकाशं शमयेद्वापि स्थितौ सुदक्षिणामुखः। पितॄणां स्थानमाकाशं दक्षिणा चैव दिग्भवेत् ।। १४.
एकं विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रतः। अनुज्ञाते तु तैर्विप्रैर्वानमुद्वियतामिति ।। १४.
पुष्पाणां चफलानां च भक्ष्याणामन्नतस्तथा। अग्रमुद्धृत्य सर्वेषां जुहुयाज्जातवेदसि ।। १४.
भक्ष्यमन्नं तथा पेयमनुत्तमफलानि च। हुत्वा चाग्नौ ततः पिण्डान्निर्वपेद्दक्षिणामुखः ।। १४.
स्निग्धैर्भक्ष्यैः सुगन्धैश्च तर्पयेत रसैस्तथा। एकाग्रः पर्युपासीत प्रयतः प्राञ्जलिः स्थितः। तत्परः श्रद्दधानश्च कामानाप्नोति मानवः ।। १४.
अक्षुद्रत्वं कृतज्ञत्वं दाक्षिण्यं सत्कृतञ्च यत्। ततो यज्ञञ्च दानञ्च प्रयच्छन्ति पितामहाः ।। १४.
अतः परं विधिं सौम्यं भुक्तवत्सु द्विजातिषु। आनुपूर्व्येण विधिना तन्मे निगदतः श्रृणु ।। १४.
प्रोक्ष्य भूमिमथोद्धृत्य पूर्वं पितृपरायणः। ततोऽत्र विकिरं कुर्यात् विधिदृष्टेन कर्मणा ।। १४.
स्वधां वाच्य ततो विप्रा विधिवद्भूरि दक्षिणान्। अन्नशेषमनुज्ञाप्य सत्कृत्य द्विजसत्तमान् । प्राञ्जलिः प्रयतश्चैव अनुगम्य विसर्जयेत् ।। १४.
सकृदभ्यर्चिताः प्रीता भवन्ति पितरोऽन्ययाः। योगात्मानो महात्मानो विपाप्मानो महौजसः ।। १५.
प्रेत्य च स्वर्गलाभाय कामैश्वर्यं सुविस्तरम् । येषां चाप्यनुगृह्णन्ति मोक्षप्राप्तिक्रमेण तु ।। १५.
तानि वक्ष्याम्यहं सौम्याः सरांसि सरितस्तथा। तीर्थानि चैव पुण्यानि देशाञ्जैलांस्तथाश्रमान् ।। १५.
पुण्यो यस्त्रिषु लोकेष्वमरकण्टकपर्वतः। पर्वतः प्रवरः पुण्यः सिद्धचारणसेवितः ।। १५.
यत्र वर्षसहस्राणि प्रयुतान्यर्बुदानि च। तपः सुदुश्चरं तेपे भगवानङ्गिराः पुरा ।। १५.
यत्र मृत्योर्गतिर्नास्ति तथैवासुररक्षसाम्। न भयं चैव वाऽलक्ष्मीर्यावद्भूमिर्धरिष्यति ।। १५.
तेजसा यशसा चैव भ्राजते स नगोत्तमः। श्रृङ्गमाल्यवतो नित्यं वह्निः संवर्तको यथा ।। १५.
मृदवश्च सुगन्धाश्च हेमाभाः प्रियदर्शनाः । शान्ताः कुशा इति ख्याताः पिबन्दक्षिणनर्मदाम् ।। १५.
दृष्टवान् स्वर्गसोपानं भगवानङ्गिराः पुरा। अग्निहोत्रे महातेजाः प्रस्तरार्थकुशोत्तमान् ।। १५.
तेषु दर्भेषु यः पिण्डानमरकण्टकपर्वते। दद्यात्सकृदपि प्राज्ञस्तस्य वक्ष्यामि यत्फलम् ।। १५.
तद्भवत्यक्षयं श्राद्धं पितॄणां प्रीतिवर्द्धनम् । अन्तर्द्धानं च गच्छन्ति क्षेत्रमासाद्य तत्सदा ।। १५.
तत्र ज्वालारसः पुण्यो दृश्यतेऽद्यापि सर्वशः। सशल्यानां च सत्त्वानां विशल्यकरणी नदी ।। १५.