सरलो देवदारुश्च शालश्च खदिरस्तथा। समिदर्थं प्रशस्ताः स्युरेते वृक्षा विशेषतः ।। १३.
ग्राम्याः कम्टकिनश्चैव यज्ञिया येन केन च। पूजिताः समिदर्थे तु पितॄणां वचनं तथा ।। १३.
समिद्भिः कल्कलेयाभिर्ज्जुहुयाद्यो हुताशनम् । फलं यत् कर्मणस्तस्य तन्मे निगदतः श्रृणु ।। १३.
आयसं सर्व्वकामीयमश्वमेधफलं हि तत्। श्लेष्मातको नक्तमालः कपित्थः शाल्मलिस्तथा ।। १३.
नीपो विभी तकश्चैव वल्लीभिश्च तथैव च। शकुनानां निवासश्च वर्जयेच्च महीरुहान्। अयज्ञीयाः स्मृता ये च वृक्षांश्चैव तु वर्जयेत् ।। १३.
स्वधेति चैव मन्त्रान्ते पितॄणां वचनं तथा। स्वाहेति चैव देवानां यज्ञकर्मण्युदाहृतम् ।। १३.
सूत उवाच। देवाश्च पितरश्चैव तेभ्योऽन्ये पितरस्तथा। आथर्वणविधिर्ह्येष प्रत्युवाच बृहस्पतिः ।। १४.
पूजयेच्च पितृन् पूर्व्वं देवाश्चापि विशेषतः। देवेभ्योऽपि पितृन् पूर्वमर्चयन्तीह यत्नतः ।। १४.
दक्षस्य दुहिता ख्याता लोके विश्वेति नामतः। विधिना सा तु धर्म्मज्ञ दत्ता धर्म्माय धर्म्मतः। तस्याः पुत्रा महात्मानो विश्वेदेवा इति श्रुतिः ।। १४.
प्रख्यातास्त्रिषु लोकेषु सर्व्वलोकनमस्कृताः। समस्तास्ते महात्मानश्वेरुरुग्रं महत्तपः ।। १४.
हिमवच्छिखरे रम्ये देवगन्धर्वसेविते। सर्व्वाप्सरोभिश्चरितं देवगन्धर्व्वसेवितम् ।। १४.
शुद्धेन मनसा प्रीताः पितरस्तानथाब्रुवन्। वरं वृणीध्वं प्रीताःस्म कं कामं करवामहे ।। १४.
एवमुक्ते तु पितृभिस्तदा त्रैलोक्यभावनः। प्रजानामधिपो ब्रह्मा विशवानितीदमब्रवीत् ।। १४.
महातेजा महादेवस्तपसा तैस्तु तापितः। तपसा तेन सुप्रीतः कं कामं विदधामि वः ।। १४.
एवमुक्तास्तदा विश्वे ब्रह्मणा लोककर्तृणा। ऊचुस्ते सहिताः सर्व्वे ब्रह्माणं लोकभाविनम् ।। १४.
श्राद्धेऽस्माकं भवेदंशो ह्येष नः कांक्षितो वरः । प्रत्युवाच ततो ब्रह्मा तान्वै त्रिदिवपूजितान् ।। १४.
भविष्यत्येवमेवेति कांक्षितो वो वरस्तु यः। पितृभिस्तु तथेत्युक्त्वा एवमेतन्न संशयः ।। १४.
सहास्माभिस्तु वो भाव्यं यत्किञ्चित् क्रियते त्विह। अस्माकं कल्पिते श्राद्धे युष्मानग्रासनं ह वै ।। १४.
भविष्यति मनुष्येषु सत्यमेतद्ब्रवीमि ते। माल्यैर्गन्धैस्तथान्नेन युष्मानग्रेर्जयिष्यति ।। १४.
प्रदाता चेति युष्माकमस्माकं दास्यते ततः। विसर्जनमथास्माकं पूर्व्वं पश्चात्तु देवताः ।। १४.
रक्षणञ्चैव श्राद्धस्य आतिथ्यञ्च विधिद्वयम्। भूतानां देवतानाञ्च पितॄणां श्राद्ध कर्मणि। एवं विधिकृतः सम्यक् सर्व्वमेतद्भविष्यति ।। १४.
एवं दत्त्वा वरं तेषां ब्रह्मा पितृगणैः सह १४.
वेदे पञ्च महायज्ञा नराणां समुदाहृताः । एतान्पञ्च महायज्ञान्निर्वपेत्सततं नरः ।। १४.
यत्र यास्यन्ति दातारः संस्थानं वै निभोधत। निर्भयं निरहङ्कारं निःशोकं निर्व्यथक्लमम्। ब्रह्मस्थानमवाप्नोति सर्वकामपुरस्कृतम् ।। १४.
शूद्रेणापि प्रकर्त्तव्याः पञ्चैते मन्त्रवर्जिताः। अतोऽन्यथा तु यो भुङ्क्ते स ऋणं नित्यमश्नुते ।। १४.
ऋणञ्च भुङ्क्ते पापात्मा यः पचेदात्मकारणात्। तस्मान्निर्वर्त्तयेत्पञ्च महायज्ञान्सदा बुधः ।। १४.
नैवेद्यं केचिदिच्छन्ति जीवत्यपि प्रयत्नतः। उदक्पूर्व्वं बलिं कुर्यादुदकुम्भं तथैव च ।। १४.
बलिं सुविदितं कुर्यादुच्चादुच्चतरं क्षिपेत् । परश्रृङ्गगवां पूर्व्व बलिं सूक्ष्मं समुत्क्षिपेत् ।। १४.
न विनेद्यो भवेत् पिण्डः पितॄणां यस्तु जीवति। इष्टेनान्नेन भक्ष्यैश्च भोजयेत यथाविधि। विधानं वेदविहितमेतद्वक्ष्यामि यत्नतः ।। १४.
देवदेवा महात्मानो ह्येतेपि पितरो ह्युत। इच्छन्ति किञ्चिदाचार्य्याः पश्चात् पिण्डनिवेदनम् ।। १४.