अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने। यजमानो भवेदन्धः सोऽपुत्र इति नः श्रुतम् ।। १३.
अल्पेन्धनो वा रूक्षो वा विस्फुलिङ्गश्च सर्व्वशः । ज्वाला धूमोपसेव्यश्च स तु वह्निर्न सिद्धये ।। १३.
दुर्गन्धश्चैव नीलश्च कृष्णश्चैव विशेषतः। भूमिं विगाहते यत्र तत्र विद्यात्पराभवम् ।। १३.
अर्चिष्मान् पिण्डितशिखः सर्पिःकाञ्चनसम्भवः। स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्य्यसिद्धये ।। १३.
नरनारीगणेभ्यश्च पूजां प्राप्नोति शाश्वतीम्। अक्षयाः पूजितास्तेन भवन्ति पितरोऽव्ययाः ।। १३.
स्थाल्युदुम्बरपात्राणि फलानि समिधस्तथा। श्राद्धे चातिपवित्राणि मेध्यानीति विशेषतः ।। १३.
पवित्रं वा द्विजश्रेष्ठ शुद्धये जन्मकर्म्मसु। पात्रेषु फलमुद्दिष्टं यन्मया श्राद्धकर्मणि ।। १३.
तदेव कृत्स्नं विज्ञेयं समित्सु च यथाक्रमम्। कृत्वा समाहितं चित्तमग्रये वै करोम्यहम् ।। १३.
अनुज्ञातः कुरुष्वेति तथैव द्विजसत्तमैः। पत्नीमादाय पुत्रांश्च जुहुयाद्धव्यवाहनम् ।। १३.
समानप्लक्षन्यग्रोधप्लक्षाश्वत्थविकङ्कताः। उदुम्बरास्तथा बिल्वचन्दना यज्ञियाश्च ते ।। १३.
सरलो देवदारुश्च शालश्च खदिरस्तथा। समिदर्थं प्रशस्ताः स्युरेते वृक्षा विशेषतः ।। १३.
ग्राम्याः कम्टकिनश्चैव यज्ञिया येन केन च। पूजिताः समिदर्थे तु पितॄणां वचनं तथा ।। १३.
समिद्भिः कल्कलेयाभिर्ज्जुहुयाद्यो हुताशनम् । फलं यत् कर्मणस्तस्य तन्मे निगदतः श्रृणु ।। १३.
आयसं सर्व्वकामीयमश्वमेधफलं हि तत्। श्लेष्मातको नक्तमालः कपित्थः शाल्मलिस्तथा ।। १३.
नीपो विभी तकश्चैव वल्लीभिश्च तथैव च। शकुनानां निवासश्च वर्जयेच्च महीरुहान्। अयज्ञीयाः स्मृता ये च वृक्षांश्चैव तु वर्जयेत् ।। १३.
स्वधेति चैव मन्त्रान्ते पितॄणां वचनं तथा। स्वाहेति चैव देवानां यज्ञकर्मण्युदाहृतम् ।। १३.
सूत उवाच। देवाश्च पितरश्चैव तेभ्योऽन्ये पितरस्तथा। आथर्वणविधिर्ह्येष प्रत्युवाच बृहस्पतिः ।। १४.
पूजयेच्च पितृन् पूर्व्वं देवाश्चापि विशेषतः। देवेभ्योऽपि पितृन् पूर्वमर्चयन्तीह यत्नतः ।। १४.
दक्षस्य दुहिता ख्याता लोके विश्वेति नामतः। विधिना सा तु धर्म्मज्ञ दत्ता धर्म्माय धर्म्मतः। तस्याः पुत्रा महात्मानो विश्वेदेवा इति श्रुतिः ।। १४.
प्रख्यातास्त्रिषु लोकेषु सर्व्वलोकनमस्कृताः। समस्तास्ते महात्मानश्वेरुरुग्रं महत्तपः ।। १४.
हिमवच्छिखरे रम्ये देवगन्धर्वसेविते। सर्व्वाप्सरोभिश्चरितं देवगन्धर्व्वसेवितम् ।। १४.
शुद्धेन मनसा प्रीताः पितरस्तानथाब्रुवन्। वरं वृणीध्वं प्रीताःस्म कं कामं करवामहे ।। १४.
एवमुक्ते तु पितृभिस्तदा त्रैलोक्यभावनः। प्रजानामधिपो ब्रह्मा विशवानितीदमब्रवीत् ।। १४.
महातेजा महादेवस्तपसा तैस्तु तापितः। तपसा तेन सुप्रीतः कं कामं विदधामि वः ।। १४.
एवमुक्तास्तदा विश्वे ब्रह्मणा लोककर्तृणा। ऊचुस्ते सहिताः सर्व्वे ब्रह्माणं लोकभाविनम् ।। १४.
श्राद्धेऽस्माकं भवेदंशो ह्येष नः कांक्षितो वरः । प्रत्युवाच ततो ब्रह्मा तान्वै त्रिदिवपूजितान् ।। १४.
भविष्यत्येवमेवेति कांक्षितो वो वरस्तु यः। पितृभिस्तु तथेत्युक्त्वा एवमेतन्न संशयः ।। १४.
सहास्माभिस्तु वो भाव्यं यत्किञ्चित् क्रियते त्विह। अस्माकं कल्पिते श्राद्धे युष्मानग्रासनं ह वै ।। १४.
भविष्यति मनुष्येषु सत्यमेतद्ब्रवीमि ते। माल्यैर्गन्धैस्तथान्नेन युष्मानग्रेर्जयिष्यति ।। १४.
प्रदाता चेति युष्माकमस्माकं दास्यते ततः। विसर्जनमथास्माकं पूर्व्वं पश्चात्तु देवताः ।। १४.